भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 12

12.1

सृष्टिः स्थितिश्च संहारस् तत्त्वानां कथितस्त्वया
जगत्संभवहेतुश्च त्वत्प्रसादाच्छ्रुतं मया ॥

12.2

तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत्
पृथिव्यादि शिवान्तं च कथयामि समासतः ॥

12.3

पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता
मांसे ऽस्थिषु तथा चैव स्नायुलोमनखेषु च ॥

12.4

मज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा
कफासृगाममूत्रेषु रसस्वेदवसासु च ॥

12.5

शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः
पचने दहने चैव तेजस्यूष्मणि संस्थितम् ॥

12.6

तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणम्
वायुरुच्छ्वासनिःश्वास स्पर्शनव्यूहलक्षणः ॥

12.7

मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने
वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः ॥

12.8

एकलक्षणमाकाशं कथयामि यथा स्थितम्
सुषिरात्मकं तु विज्ञेयं नवधा च्छिद्रलक्षणम् ॥

12.9

शब्दात्मकं गुणं ह् येतत् कथितं तव सुव्रते
वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुर्विधा ॥

12.10

संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका
छेदनं भेदनं दानं व्यधनं शिल्पयोजनम् ॥

12.11

ग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितम्
समनिम्नोन्नताश्चैव लोष्टकण्टकवालुकाः ॥

12.12

कर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः
पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे ॥

12.13

उत्सर्गे पर्दिते चैव पायुर्वै चेष्टते सदा
आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः ॥

12.14

कर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु
बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः ॥

12.15

षड्जाख्यर्षभगान्धार मध्यमाः पञ्चमः प्रिये
धैवतो निषधश्चैव स्वराः सप्त प्रकीर्तिताः ॥

12.16

गान्धारो मध्यमः षड्जस् त्रयो ग्रामाश्च पार्वति
सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः ॥

12.17

तान एकोनपञ्चाशद् इत्येतत्सुरमण्डलम्
सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः ॥

12.18

स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे
भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः ॥

12.19

वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः
तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च ॥

12.20

संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः
अपभ्रंशो ऽनुनासिक्यः संस्कृतः प्राकृतो रवः ॥

12.21

सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि
उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः ॥

12.22

शब्दो ऽस्य विषयो ह्येष येन बुध्येत पुद्गलः
मृदुं च कठिनं चैव कर्कशं शीतलं तथा ॥

12.23

उष्णं च पिच्छिलं लोष्टं कर्दमं वालुकास्तथा
शरकुन्तासिघातादि ताडनं छेदनं तथा ॥

12.24

एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियम्
स्पर्शो ऽस्य विषयो ह्येष येन बुध्येत पुद्गलः ॥

12.25

चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु
सितं रक्तं च पीतं च कृष्णं हरितधूम्रकम् ॥

12.26

कपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः
नरनारीपशुमृगाञ् ज्योतिः स्थावरजङ्गमम् ॥

12.27

रूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा
रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते ॥

12.28

मधुराम्लरसं चैव लवणं कटु तिक्तकम्
कषायमिश्रं स्वादुं च जिह्वा वेदयते रसम् ॥

12.29

रसो ऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः
सुरभिर्दिव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा ॥

12.30

उभौ जिघ्रति नासाग्रे विषयो गन्धसंज्ञितः
येनासौ बुध्यते क्षेत्री अहङ्कारेण मोहितः ॥

12.31

संकल्पे च विकल्पे च दशधाक्षेषु धावति
अनिवारितसन्देहम् अजय्यं सर्वदेहिनाम् ॥

12.32

मनश्च कथितं ह्येतद् धर्माधर्मनिबन्धकम्
स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः ॥

12.33

गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति
जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितम् ॥

12.34

चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतम्
गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतम् ॥

12.35

शब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु
सूक्ष्मस्तन्मात्रधर्मो ऽयं भूतानां प्रकृतिक्रमात् ॥

12.36

वैकारिकस्ततश्चोर्ध्वं बुध्यते येन पुद्गलः
अहं विद्वानहं भोगी त्व् अहं जातो महाकुले ॥

12.37

अहं दाता च भोक्ता च तेजस्वी बलवानहम्
अहं योद्धा च संग्रामे शत्रवश्च मया जिताः ॥

12.38

धर्मशीलश्च गुणवान् श्रेयस्कर्ता ह्यहं परम्
अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः ॥

12.39

न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः
इत्यहङ्कारचित्तानां ममत्ववशवर्तिनाम् ॥

12.40

अहङ्कारो निबध्नाति संसारे दृढबन्धनैः
त्रिविधस्याप्ययं धर्मो ऽहङ्कारस्य प्रकीर्तितः ॥

12.41

बुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते
धर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुष्टयम् ॥

12.42

अधर्मश्च तथाज्ञानम् अवैराग्यमनैश्वरम्
बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेत् ॥

12.43

बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि
धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये ॥

12.44

उपवासो जपो मौनम् अक्रोधो ऽस्तेयमार्जवम्
सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा ॥

12.45

विद्याभ्यासश्च लज्ज च इन्द्रियाणां च निग्रहः
इष्टापूर्तं तीर्थसेवा पितृणां चैव तर्पणम् ॥

12.46

अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणम्
धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते ॥

12.47

धर्मकर्मनिबद्धानां संसारमनुवर्तिनाम्
पुनर्मार्त्यं पुनः स्वर्ग्यं तीर्यक् त्वं च पुनः पुनः ॥

12.48

धर्मभावः समाख्यातः ज्ञानभावं च मे शृणु
चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः ॥

12.49

प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः
अकर्ता निर्गुणश्चाहं न मे बन्धो ऽस्ति प्राकृतः ॥

12.50

प्रकृत्या कारितं मन्ये वासनादेव मुच्यते
साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते ॥

12.51

मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः
बद्धः संसरते भूयो यावद्देवं न विन्दति ॥

12.52

ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकम्
वैराग्यात्सन्त्यजेत्पुत्रान् दारानिष्टान्सुसंमतान् ॥

12.53

हस्त्यश्वरथयानानि सुहृद्भोगधनानि च
उपवासं जपं तीर्थं पञ्चाग्निं जलशायिताम् ॥

12.54

उपास्यैतानि घोराणि देहं सन्त्यजति क्षणात्
गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः ॥

12.55

वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि
ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति ॥

12.56

न दारैर्न धनैर्भागैः परिवारैर्न वाहनैः
तपो व्रतानि मन्त्रांश्च ऐश्वर्यार्थे तु साधयेत् ॥

12.57

युद्धं द्युतं तथा मायां चौर्यं चानृतहिंसनम्
अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातिताम् ॥

12.58

ऐश्वर्यभावमापन्नः करोति च बहून्यपि
प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् ॥

12.59

याचको दुःखदाता च भवेच्चाधर्मचेष्टितम्
नास्तिधर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः ॥

12.60

अज्ञानभावमापन्नः सर्वं मिथ्येति भाषते
नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि ॥

12.61

कृच्छ्रजीवी च सततम् अवैराग्ये न खिद्यते
राज्यं कृत्वा तु सामन्तः सामन्त्याद्ग्रामभुग्भवेत् ॥

12.62

ग्रामाद्भ्रष्टस्तदर्धेन वर्तते ऽसावनीश्वरः
न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवत् ॥

12.63

अनैश्वर्यस्य भावो ऽयम् एवं ते समुदाहृतः
अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकम् ॥

12.64

यस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते
अस्य धर्मं प्रवक्ष्यामि रजः सत्त्वतमो ऽभिधम् ॥

12.65

प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः
संविभागी च सततं नित्यं सत्त्वोपकारकः ॥

12.66

क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः
प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा ॥

12.67

ऋतवाक्समदृष्टिश्च दिव्यबुद्धिप्रबोधनम्
यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे ॥

12.68

स सात्त्विकस्तु विज्ञेयः रजोधर्मांश्च मे शृणु
निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा ॥

12.69

कामी हर्षसमाविष्टो दुःखार्तः पर्यटेत्सदा
मानी दम्भसमायुक्तो ऽप्यहङ्कारे व्यवस्थितः ॥

12.70

नित्यं युद्धरतः शूरः राजसं गुणलक्षणम्
कामक्रोधाभिभूतत्वं लोभेन च समन्वयः ॥

12.71

ईर्श्या दम्भो विषादश्च मद उन्माद एव च
निद्रालस्य मकर्मित्वं दौर्मेध्याज्ञानिते तथा ॥

12.72

अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता
तमः चिह्नानि चैतानि दृश्यन्ते यत्र मानवे ॥

12.73

तामसः स तु विज्ञेयः पुरुषः कलुषाशयः
एतत्रिगुणमव्यक्तं त्रिगुणं सामुदाहृतम् ॥

12.74

एतत्सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः
गुणधर्मा न चैवाहं बुद्ध्यहांकृद्गुणो नहि ॥

12.75

करणेन्द्रियहीनश्च भूततन्मात्रवर्जितः
अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः ॥

12.76

मानसं वाचिकं चैव शारीरं कर्म यत्कृतम्
प्रकृत्या कारितां मन्ये अकर्ता पुरुषः स्मृतः ॥

12.77

एवं संन्यस्य कर्माणि वर्तते नच नित्यशः
नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः ॥

12.78

प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः
साङ्ख्यज्ञानेन संमूधो मुक्तिरित्यभिमन्यते ॥

12.79

न हि मुक्तिर्भवेत्तस्य कंचित्कालं विदेहता
तिष्ठेत्प्रकृतिनिर्मुक्तः सृष्टिसंहारवर्जितः ॥

12.80

यावत्करोत्यसौ सृष्टिम् ईश्वरः परमेश्वरः
तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनाः ॥

12.81

क्षिप्तः संसरते भूयः संसारे घोरसागरे
धर्माधार्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः ॥

12.82

अहं कर्ता च भोक्ता च ईश्वरोबलवानहम्
ममत्वेनैव संमूढो भ्राम्यते घटयन्त्रवत् ॥

12.83

साङ्ख्यज्ञानं मया प्रोक्तं शृणु ध्यानाधिदैवतम्
पृथ्वीं कठिनरूपेण चतुः सागरमेखलाम् ॥

12.84

सपर्वतवनाकीर्णां मृगपक्षिसमाकुलाम्
सुस्थितां पीतवर्णाभाम् ऊबीजेन समन्विताम् ॥

12.85

ध्यात्वा तत्सिद्धिमभ्येति विषसत्त्वान्निवारयेत्
अचाल्यः सर्वभूतानां यथैव वसुधा भवेत् ॥

12.86

जलापूरितसर्वाङ्गो जलध्यानेन पूरयेत्
एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेत् ॥

12.87

तृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः
जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः ॥

12.88

कुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः
कृष्णरेण्वात्मको वायुर् ध्येयो बीजेन संयुतः ॥

12.89

पूरयेद्वै जगद्देहान् सिद्धश्चाश्चर्यकारकः
सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकम् ॥

12.90

ध्यायेत्प्रकृतिबीजेन चित्रकर्माणि कारयेत्
वागिन्द्रिये तथा वह्निर् ध्यातो वाक्सिद्धिदायकः ॥

12.91

इन्द्रः पाणावभिध्यातः बाहुशाली त्वजेयकः
पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति ॥

12.92

पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः
शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा ॥

12.93

जितेन्द्रियश्च भवति त्व् इच्छया रमते शतम्
श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद्वीजेन संयुताः ॥

12.94

सकृदुक्तं च गृह्णाति दिग्यात्रा चैव सिद्ध्यति
मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितम् ॥

12.95

यः स दंष्ट्राद्यभेद्यः स्यात् न क्वचिञ्जायते व्यथा
आदित्यं चक्षुषि ध्यायेज् जिह्वायां वरुणं तथा ॥

12.96

नासायां पृथिवीं पीतां मनसीन्दुं तथैव च
पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितम् ॥

12.97

रक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितम्
अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च ॥

12.98

विषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितम्
वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता ॥

12.99

ध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनाम्
ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा ॥

12.100

स्मरन्वै पूर्वबीजेन ज्ञानौघः संप्रवर्तते
दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका ॥

12.101

भूतं भव्यं भविष्यच्च प्रत्यक्षं संप्रजायते
प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते ॥

12.102

रक्तं च हृदयं तस्याः बहुपादभुजानना
ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः ॥

12.103

सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायेते
षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते ॥

12.104

त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते
एष ते प्राकृतो योग उक्तः मोक्षकरः परः ॥

12.105

अतः परं तु पुरुषः पद्ममध्ये व्यवस्थितः
चित्स्वरूपश्च सर्वेषु देहमापूर्य संस्थितः ॥

12.106

स जीव इति विख्यातो येन जीवति तत्पुरम्
निर्गतेन मृता येन अचेताः शीर्यते तनुः ॥

12.107

बध्यते मुच्यते ऽसौ वै सुखदुःखानि वेत्ति च
न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचित् ॥

12.108

न शक्यः कथितुं वापि सूक्ष्मश्चानन्तविग्रहः
वालाग्रशतभागस्य शतधा कल्पितस्य तु ॥

12.109

तस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते
आदित्यवर्णं रुक्माभम् अब्बिन्दुमिव पुष्करे ॥

12.110

पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा
रागविद्याकलोपेतः कालबद्धो हि रूपवान् ॥

12.111

श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता
दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी ॥

12.112

तद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः
कर्मबन्धेन बध्नाति सुखदुःखं प्रयच्छति ॥

12.113

नियतिं च विजानीयाद् अनिवार्यां सुरासुरैः
पूर्वबीजसहध्याना द्विरूपेण समन्विता ॥

12.114

ध्यानात्सिद्धिमवाप्नोति नियतेश्च विमुच्यते
त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजम् ॥

12.115

संहरन्तं दुराधर्षम् अनन्तं कालमीश्वरम्
स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते ॥

12.116

चक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः
एवं कालं सदा ध्यायेत् ध्येयसिद्धिश्च जायते ॥

12.117

रागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनाम्
सितवर्णां कलां ध्यायेच् चेतन्योन्मीलिनीं तु ताम् ॥

12.118

कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना
कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी ॥

12.119

या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः
निर्वैरपरिपन्थित्वान् माया ग्रन्थिर्दुरुत्तरा ॥

12.120

साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये
न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः ॥

12.121

क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया
स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः ॥

12.122

दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययम्
चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता ॥

12.123

सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका
आकाशवायुमारूढा रूपयौवनशालिनी ॥

12.124

स्वबीजेन तु सा ध्येया तत्सिद्धिश्चैव जायते
दिव्या सिद्धिरमोघा तु सिद्धविद्यश्च जायते ॥

12.125

वेद लोकांस्ततः सर्वान् कामरूपी स गच्छति
कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् ॥

12.126

पूर्वाननमभिध्यायेत् वायुभक्षस्य यत्फलम्
तत्पुण्यफलमाप्नोति अश्वमेधायुतस्य च ॥

12.127

जगच्च वशमायाति क्रमते सिद्धिमेति च
षड्भिर्मासैरसन्देहः दक्षिणं च तथैव हि ॥

12.128

नीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनम्
भ्रुकुटीकरालवक्त्रं च कपालाहि विभूषितम् ॥

12.129

बहुरूपजटाधारं दक्षिणं तस्य चिन्तयेत्
सुखदुःखविनाशाय ईतिज्वरविनाशनम् ॥

12.130

विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणात्
अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः ॥

12.131

क्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेत्
सितं त्रिनयनं देवि साक्षासूत्रकमण्डलु ॥

12.132

पश्चिमं वदनं ध्यायेद् दिव्यसिद्धिप्रदायकम्
हत्वा प्राणिसहस्राणि परदारशतानि च ॥

12.133

अलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेत्
त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति ॥

12.134

ध्यानात्तस्य जगत्सर्वं वशमेति न संशयः
तपते वर्षते चैव सृजते संहरत्यपि ॥

12.135

ईप्सितां लभते सिद्धिं यो ऽब्दमेकं तु चिन्तयेत्
सितमूर्ध्वं सदा ध्यायेच् छूलहस्तं जटाधरम् ॥

12.136

व्याघ्रचर्मपारीधानं साक्षासूत्रकमण्डलु
वीणाडमरुहस्तं च नागयज्ञोपवीतकम् ॥

12.137

चन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरम्
अनेनैव तु देहेन सर्वज्ञः कामरूपवान् ॥

12.138

घण्टानादस्य वा ध्यानात् सिद्धिः षाण्मासिकी भवेत्
ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते ॥

12.139

लिङ्गध्यानं तु यः कुर्यात् पूर्वबीजेन संयुतम्
मासेनैकेन पश्येत्स सूक्ष्मं लिङ्गं तनूपरि ॥

12.140

शुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते
सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ॥

12.141

त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते
आक्रामेत्सर्वलोकांश्च ईश्वरेण समो भवेत् ॥

12.142

सोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु
तन्मात्राणि हयास्तस्य मनः सारथि चोदितः ॥

12.143

अहंकारो भवेद्योद्धा गुणश्चास्य महाधनुः
इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीर्तितः ॥

12.144

एवं स क्रीडते योगी परमात्मनि हृत्स्थिते
पुण्यपापैर्वर्तमान इच्छया परमेश्वरि ॥

12.145

नाहं कर्ता न मे बन्धः सर्वमीश्वरकारणम्
मत्वा चेश्वरविज्ञानं सर्वकर्मणि सन्त्यजेत् ॥

12.146

धर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः
तमहं शरणं प्राप्तो न मे बन्धो ऽस्ति कऋतृता ॥

12.147

सदाशिवो ऽष्टभेदेन पूर्वबीजसमन्वितः
ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता ॥

12.148

नादं वै व्यापकं ध्यायेद् अहोरात्रायनेषु च
दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः ॥

12.149

वंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः
सदाशिवः स विज्ञेयः ध्यानात्सिद्धिफलं शृणु ॥

12.150

मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके
तृतीये पश्यते सिद्धान् दिव्यदृष्टिश्चतुर्थके ॥

12.151

सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः
दिव्यासिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके ॥

12.152

षण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवम्
अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमात् ॥

12.153

शेषाभ्यां वृणुयाद्घ्राणे षण्मुखे किल बद्धधीः
दशधा वर्णरूपेण दृश्यते च सदाशिवः ॥

12.154

सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम्
नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमम् ॥

12.155

दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तनि विचक्षणः
एकमेव तु गृह्णीयाद् अन्ये तु गुणरूपकाः ॥

12.156

चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणम्
तारकाचलिताकारं बिन्दुमेवं विलक्षयेत् ॥

12.157

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च
आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः ॥

12.158

बिन्दुध्यानं समाख्यातं शक्तिलक्षं निबोध मे
खं वीक्ष्य मीलिताक्षो यद् उद्यद्भास्करसन्निभम् ॥

12.159

ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता
पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा ॥

12.160

द्रष्टव्या पारमा शक्तिः तां दृष्ट्वा शिवतां व्रजेत्
व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेत् ॥

12.161

कारणैः स्वैः समोपेतां ध्यात्वा स्वच्छन्दतां व्रजेत्
समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा ॥

12.162

ध्यानात्सिद्धिमवाप्नोति व्यापकः प्रभुरख्ययः
ततश्चोर्ध्वे शिवः शान्तः पूर्वं वै कथितो मया ॥

12.163

चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः
मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति ॥

12.164

अहंकृतानि यान्येव यच्च वेद्यतया स्थितम्
यश्च नास्ति स तत्रैव त्व् अन्वेष्टव्यः प्रयत्नतः ॥

12.165

यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः
सुखासीनः संयतात्मा एकचित्तः समाहितः ॥

12.166

स्वच्छन्दं समनुस्मृत्य अभावं भावयेत्सदा
भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते ॥

12.167

ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि
तैस्तु धर्मैः समायुक्ति योगी वै भवति प्रिये ॥

12.168

स्वरूपरूपकध्यानं तत्त्वानां कथितं मया
एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यते ऽपि च ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc