Svacchandatantra · अध्याय 11
अध्वायं तु मया ज्ञातस् त्वत्प्रसादात् सुराधिप
जगत्सृष्टिस्त्वया देव सूचिता न तु वर्णिता ॥
अध्वसृष्टिं महादेव कथयस्व प्रसादतः
यो ऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः ॥
निमित्तकारणं सो ऽत्र कथितस्तव सुव्रते
अकामात्संसृजेत्सर्वं जगत् स्थावरजङ्गमम् ॥
स्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया
उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः ॥
तस्माच्छून्यं समुत्पन्नं शून्यात्स्पर्शसमुद्भवः
तस्मान्नादः समुत्पन्नः पूर्वं वै कथितस्तव ॥
अष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः
घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च ॥
झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः
नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः ॥
नदत्यसौ सदा यस्मात् सर्वभूतेष्ववस्थितः
तस्मात् सदाशिवो देवो व्यक्तो वै दृक्क्रियात्मकः ॥
नादाद्बिन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः
स चैव दशधा ज्ञेयो दशतत्त्वफलप्रदः ॥
दशधा वर्णरूपेण दशदैवतसंयुतः
बिन्दोः सदाशिवो ज्ञेयः सो ऽष्टभेदाङ्गसंयुतः ॥
पञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः
पञ्चभिश्च महाज्ञानैर् मूर्तिभिश्च समन्वितः ॥
स एवापररूपेण परमात्मा शिवो ऽव्ययः
द्विधावस्थः स च ज्ञेयः सोच्चारोच्चारवर्जितः ॥
मुद्रामन्त्रस्वरूपेण स एव च पुनर्द्विधा
क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः ॥
शब्दावबोधरूपेण वस्तुरूपस्वरूपतः
स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः ॥
व्योमरूपस्वरूपेण समनोन्मन एव च
उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे ॥
उन्मनासमनास्थानं शिवेन समधिष्ठितम्
पञ्चकारणरूपेण तदधः पुनरेव सः ॥
कारणं पञ्चकं देवि अधिष्ठाय त्वधस्ततः
व्यापकः शक्तिमूर्धस्थो बिलद्वारमनाश्रितः ॥
अनन्तश्च सुषुम्नेशस् त्व् अनाथश्चोर्ध्वगस्तथा
व्योमरूपी महादेवि बिन्द्वीशः परिकीर्तितः ॥
अनाश्रितः स्वयं ब्रह्मा समधिष्ठाय संस्थितः
अनाथो विष्णुरित्युक्तस् त्व् अनन्तो रुद्र एव च ॥
व्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः
व्यापकश्च पुनर्देवि हाटकः परमेश्वरः ॥
विद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः
अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः ॥
अनाथो ऽनन्तरूपेण स्थितश्चाध्वनि धारकः
अनाश्रितो महादेवि स्थितो वै हूहुकः प्रभुः ॥
स्वशक्त्याश्रितः स भवांस् तेन गीतस्त्वनाश्रितः
तस्याश्रितं जगत्सर्वम् उन्मन्यन्तं वरानने ॥
संस्थितश्चाम्भसो मूर्ध्नि शक्त्याधारस्तु हूहुकः
अप्तत्त्वं चैव तदध आग्नेयं तदनन्तरम् ॥
वायव्यं नाभसं चैव तन्मात्राणीन्द्रियाणि च
विषयाश्च मनश्चैव अहंकारस्त्वनुक्रमात् ॥
बौद्धं गौणं च देवेशि प्राकृतं पौरुषं तथा
नियतिः कालरागौ च विद्या चैव कला तथा ॥
मायातत्त्वं तथा विद्या ईश्वरश्च सदाशिवः
बिन्द्वर्धेन्दुनिरोधी च नादो नाडी त्वतः परम् ॥
अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम्
पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् ॥
समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये
एवं वै प्रक्रियाण्डं तु अधोर्ध्वं संव्यवस्थितम् ॥
एवंविधान्यधो ऽधो वै ऊर्ध्वोर्ध्वं च समन्ततः
यथा आत्माणवो देवि असंख्याता व्यवस्थिताः ॥
एवं वै प्रक्रियाण्डानि त्व् असंख्येयान्यनेकशः
एकेन वर्णितेनेह सर्वो ऽध्वा वर्णितः प्रिये ॥
यथा ह्येकं तथा सर्वं प्रक्रियाण्डं स्थितं प्रिये
सर्वेषां प्रक्रियाण्डानां स्वस्वरूपेण सुव्रते ॥
व्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः
सर्वातिशयनिर्मुक्तः सर्वकारणवर्जितः ॥
सृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः
निर्मलो विमलः शान्तस् त्व् अध ऊर्ध्वं व्यवस्थितः ॥
आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित्
एवं सर्वगतो देवः शिवः परमकारणम् ॥
व्याप्य देवि जगत्सर्वं व्योमसु व्योमवत्स्थितः
एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग् भवेत् ॥
कारणानां पुनर्व्याप्तिं कथयामि समासतः
तत्त्वे तु पार्थिवे ब्रह्मा अधिष्ठाता व्यवस्थितः ॥
अप्तत्त्वे तु स्थितो विष्णू रुद्रस्तेजसि संस्थितः
ईश्वरो वायुतत्त्वे तु आकाशे तु सदाशिवः ॥
आदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते
ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः ॥
यजमानस्तु देवेशि स्वयं देवः सदाशिवः
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः ॥
अघोरो रुद्र इत्युक्तस् तथा पुरुष ईश्वरः
ईशानस्तु वरारोहे स्वयं देवः सदाशिवः ॥
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः
अघोरः सामवेदस्तु पुरुषो ऽथर्व उच्यते ॥
ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः
लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् ॥
वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः
पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने ॥
मन्त्राख्यं तु महाज्ञानम् ईशानात्तु विनिर्गतम्
तथा तत्त्वविभागेन पुनश्च शृणु सुव्रते ॥
चतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः
प्रधानान्तं तु देवेशि पौरुषं तु जनार्दनः ॥
नियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः
विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु ॥
ऊर्ध्वं सदाशिवो देवः सर्वं व्याप्य व्यवस्थितः
तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते ॥
आत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः
विद्यातत्त्वे तथा विष्णुर् यावत् सादाख्यगोचरम् ॥
शिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने
सादाख्यमूर्ध्वमध्वानं सर्वं व्याप्य व्यवस्थितः ॥
रौद्र्या अधिष्ठितात्मा वै स रुद्रः परिकीर्तितः
व्याप्तश्च वामया विष्णुर् ज्येष्ठया च पितामहः ॥
ज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः
इच्छाशक्तिः परो रुद्रः स शिवः परिगीयते ॥
विष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा
सदाशिवः शिवाद्देवि उत्पन्नः प्रभुरीश्वरः ॥
तस्माद्विद्या ततो माया विद्यायाः पुनरीश्वरः
ज्ञानशक्तिकराग्रेण स्वेच्छया परमेश्वरः ॥
सप्त कोटीस्तु मन्त्राणां सृजेज्ज्ञानक्रियात्मिकाः
ते च सादाख्यपर्यन्ते पार्थिवाद्ये तु सुव्रते ॥
अनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः
शिवशक्तिसमाविष्टास् त्रिनेत्राश्चन्द्रमौलयः ॥
रुद्रमूर्तिभिरेको ऽसौ शिवः परमकारणम्
जगद्व्याप्य स्थितो मायी शूलपाणिरनेकधा ॥
ज्ञानशक्त्या पुनश्चैव समालोक्य वरानने
इच्छाशक्त्या समाविष्टः क्रियाशक्त्या तु सुव्रते ॥
मायातत्त्वं जगद्बीजं नित्यं विभुतयाव्ययम्
तत्स्थं कृत्वात्मवर्गं तु युगपत् क्षोभयेत्प्रभुः ॥
हेलादण्डाहतायाश्च बदर्या वा फलानि तु
तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः ॥
मुक्तेस्तु भाजनं ये ऽत्र अनुध्याताः शिवेन तु
ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परमनिर्मलम् ॥
विद्याया भाजनं तिर्यङ् मन्त्ररूपा भवन्ति वै
संसारभाजनं ये तु मलकर्मकलान्विताः ॥
अधस्तात्ते व्रजन्त्यत्र घोरे ऽध्वन्यतिदारुणे
तस्मात्कला समुत्पन्ना विद्या रागस्तथैव च ॥
कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा
सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः ॥
सत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः
तमो ऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयम् ॥
सत्त्वं ब्रह्मा रजो विष्णुस् तमो रुद्रः प्रकीर्तितः
ब्रह्मत्वे सृजते लोकान् विष्णुत्वे स्थितिकारकः ॥
रुद्रत्वे संहरेत् सर्वं जगदेतच्चराचरम्
जाग्रत्स्वप्नसुषुप्तं च तिस्रो ऽवस्थाश्च तद्गताः ॥
गुणेभ्यो धिषणा जाता भावभेदैः समन्विता
ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः ॥
सर्वज्ञं च तमेवाहुर् बौद्धानां परमं पदम्
गुणेष्वारहतानां च प्रधानं वेदवादिनाम् ॥
पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम्
षड्विंशकं च देवेशि योगशास्त्रे परं पदम् ॥
व्रते पाशुपते प्रोक्तम् ऐश्वरं परमं पदम्
मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ॥
क्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदम्
तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदम् ॥
दीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया
कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् ॥
जपभस्मक्रियानिष्ठास् ते व्रजन्त्यैश्वरं पदम्
सर्वाध्वानो विनिष्क्रान्तं शैवानां तु परं पदम् ॥
बुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये
सात्त्विको राजसश्चैव तामसश्च प्रकीर्तितः ॥
भूतादिर्वैकृतश्चैव तैजसश्च त्रिधा स्थितः
तन्मात्राण्यथ भूतादेस् तेभ्यो भूतान्यजीजनत् ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
एतानि पञ्च ख्यातानि तन्मात्राणि क्रमेण तु ॥
शब्दाद्व्योम समुत्पन्नं स्पर्शद्वायुस्तथा पुनः
रूपात्तेजः समुत्पन्नम् आपो जाता रसात् पुनः ॥
गन्धात्तु पृथिवी जाता समासात् कथितं तव
कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ ॥
वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमम्
बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ ॥
श्रोत्रं त्वक्चक्षुषौ जिह्वा नासिका चैव पञ्चमी
उभयात्म मनः प्रोक्तं व्याप्तृ सर्वेन्द्रियाणि तु ॥
आत्मोपकारकाण्येव कथितानि यथार्थतः
आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरि ॥
निरात्मा परात्मात्मैतान् कथयामि समासतः
अबुधश्च बुधश्चैव बुध्यमानस्तथैव च ॥
प्रबुद्धः सुप्रबुद्धश्च पुनश्च कथयामि ते
प्रधानसाम्यमाश्रित्य सुखदुःखविवर्जितः ॥
यदा तस्मिन् स्थित्वा देवि तदात्मा तु स उच्यते
पुर्यष्टकसमायोगात् पर्यटेत् सर्वयोनिषु ॥
अन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः
बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतैः ॥
बाह्यात्मा तु तदा देवि भुङ्क्ते ऽसौ विषयान् सदा
भूतभावविनिर्मुक्तस् तत्त्वधर्मकलोज्झितः ॥
मलधर्मैकयुक्तात्मा मायाधर्मतिरस्कृतः
निरात्मा तु तदा ज्ञेयः परमात्माथ कथ्यते ॥
मलकर्मकलाद्यैस्तु निर्मुक्तश्च यदा प्रिये
सर्वाध्वसमतीतश्च मायामोहोज्झितश्च यः ॥
निर्मलत्वं यदा याति पदं परममव्ययम्
परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः ॥
अबुधं च पुनर्देवि कथयामि समासतः
तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे ॥
मायासाम्यनिशायां वै संहृत्य परमेश्वरः
निर्व्यापारो भवेत्तावद् यावद्वै नोदय पुनः ॥
सुखदुःखाद्यभावश्च ह्य् आत्मवर्गस्य कर्मणः
मलनिद्राविमूढात्मा रुद्धचैतन्यदृक्क्रियः ॥
न विजानाति शब्दादीन् आत्मानं च वरानने
कारणं न विजानाति न च स्थानं स्वकं प्रिये ॥
सर्वमेतन्न जानति यतो लुप्ताक्षदृक्क्रियः
अबुधस्तिष्ठते तत्र यावन्माया अहर्मुखम् ॥
अबुधस्तु समाख्यातः बुधं चैव निबोध मे
परिपाकगते कर्मण् ईश्वरेच्छाकरोद्धृते ॥
प्रकाशं नायनं यद्वद् अनुगृह्णाति भास्करः
करणान्यनुगृह्णाति तद्वदीश्वर आत्मनाम् ॥
कलोन्मीलितचैतन्यो विद्यादर्शितगोचरः
रागो ऽस्य रञ्जकत्वेन विषयानन्दलक्षणः ॥
कालो वै कलयत्येनं तुट्यादिप्रलयावधिः
नियतिर्निश्चितं नित्यं योजयेच्च शुभाशुभे ॥
परमाणुसहस्रांशान् न च न्यूनं न चाधिकम्
पुम्भावं तमनुप्राप्य तत्त्वे च पुरुषाह्वये ॥
पुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलम्
तत्पुरं पोषयेद्यस्मात् तस्माद्वै पुरुषः स्मृतः ॥
यतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुम्
प्रधानपाशजालेव वेष्टयेदसमञ्जसम् ॥
बुद्धिस्त्रिगुणबन्धेन बुद्ध्वा वैकारिकेण तु
तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः ॥
बद्धः संचरति ह्येवं मायाद्यवनिगोचरे
संसारी प्रोच्यते तस्मात् संसरेद्यत् पुनः पुनः ॥
शद्बादिविषया यस्माद् विद्यन्ते विषयी ततः
विषयाः परमित्याह नानाभेदैर्विसर्पिताः ॥
नानाकर्मविपाकैश्च भुङ्क्ते तद्भावभावितः
एवं भुङ्क्ते तु वै यस्मात् तस्माद्भोक्ता स उच्यते ॥
तस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा
महाबिलाषमालोक्य कृषेद्वै लोभलाङ्गलैः ॥
वपेच्च मोहभावेन मनोवाक्कायिकं सदा
धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः ॥
तस्माद्वै अङ्कुरोत्पत्तिः सुखदुःखफलोदया
वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशम् ॥
यस्मिन् देशे च काले च वयसा यादृशेन च
उप्तं शुभाशुभं कर्म तत्काले लभते फलम् ॥
भुङ्क्ते तु विविधाकारं पूर्वकर्मवशाद्बुधः
यस्मादेवं विजानाति तस्मात् क्षेत्रज्ञ उच्यते ॥
विषयान्बुध्यते यस्माद् बुधस्तस्मात् प्रकीर्तितः
तदेवानिष्टरूपेण यदा भावयते पुमान् ॥
बुध्यमानस्तु स तदा अधुना कथयामि ते
यदा जुगुप्सते भोगान् शुभांश्चैवाशुभांस्तथा ॥
कृत्रिमानेव मन्येत परं वैराग्यमाश्रितः
मायाद्यवनिपर्यन्तम् इन्द्रजालं तु बुध्यते ॥
पुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः
यदर्जितं मया द्रव्यं शुभेनाप्यशुभेन वा ॥
तद्भोक्ष्यन्ते त्विमे सर्वे निरातङ्का निराकुलाः
एकाकी चाहमेवैष यास्यामि यमसादनम् ॥
तस्माच्च न शुभा ह्येते वैरिणो ऽनर्थकारिणः
स्वामीयमप्ययं देहं नित्यमेव जुगुप्सते ॥
शुक्रशोणितसम्भूतं विषयोरगदूषितम्
नानाव्याधिसमाकीर्णं जरामृत्युभयाकुलम् ॥
सो ऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहम्
नित्यमुद्विग्नचित्तस्तु चिन्तयेद्वै पुनः पुनः ॥
कथं मुक्तिर्भवेदस्मात् संसाराद्दुरतिक्रमात्
एवं प्रबुद्धो देवेशि तल्लयस्तत्परायणः ॥
सर्वारम्भविनिर्मुक्तः प्रमुक्तः प्रोच्यते तदा
प्रबुद्धस्तु समाख्यातः सुप्रबुद्धं तु मे शृणु ॥
दीक्षाज्ञानेन योगेन चर्ययाप्यथ सुव्रते
यदा प्राप्तः परं स्थानम् अध्वातीतं निरामयम् ॥
विरजो विमलं शान्तं प्रपञ्चातीतगोचरम्
निष्कम्पं कारणातीतं सर्वज्ञं सर्वतोमुखम् ॥
सुतृप्तानादिसम्बुद्धं स्वतन्त्रं नित्यमेव हि
अलुप्तशक्तिविभवं सुप्रबुद्धं सनातनम् ॥
तस्मिन् युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः
सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा ॥
न चाधिकारिता दीक्षां विना योगो ऽस्ति शाङ्करे
अधुना कथयिष्यामि भावभेदान् वरानने ॥
करणानि दश त्रीणि कार्यं च दशधा प्रिये
एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा ॥
बुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः
नामान्येषां विभागेन कथयामि यथाक्रमम् ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥
गन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च
स्पर्शः शब्दश्च पञ्चैव तन्मात्राणीरितानि तु ॥
एतत्ते दशधा कार्यं कीर्तितं नामसंख्यया
वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीर्तितम्
बहिष्करणकं देवि दशधा संव्यवस्थितम् ॥
मनोहंकारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतम्
मूकता कौण्यपङ्गुत्वं तथानुत्सर्गतापि च ॥
निरानन्दश्च विज्ञेयो बधिरत्वं तथैव च
शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च ॥
अनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ
इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमात् ॥
तैजसो वैकृताख्यश्च भूतादिश्च तृतीयकः
अहङ्कारस्त्रिधा प्रोक्तो मया त वरवर्णिनि ॥
धर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुर्थकम्
अधर्मं च तथाज्ञानम् अवैराग्यमनैश्वरम् ॥
अष्टावेते समाख्याता बुद्धेर्धर्मादयो गुणाः
तमो मोहो महामोहस् तामिस्रो ऽन्यो विपर्ययः ॥
अन्धतामिस्रमित्याहुर् एवं पञ्च विपर्ययाः
भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमम् ॥
पुनश्चाष्टौ तु ये बुद्धेर् भेदा धर्मादयः स्थिताः
तेषां भेदा यथा भिन्नास् तथाहं कथयामि ते ॥
बध्नाति सप्तधा सा तु पुंसः संसारवर्त्मनि
मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् ॥
ज्ञानं च सात्त्विकं प्रोक्तं त्रयो ऽन्ये राजसाः स्मृताः
तामसाश्चाप्यधर्माद्याश् चत्वारो वै वरानने ॥
धर्मश्च दशधा प्रोक्तो ज्ञानं चैवाष्टधा स्मृतम्
वैराग्यं नवधा चैवम् ऐश्वर्यं चाष्टधा विदुः ॥
एत एव विपर्यस्ता अधर्माद्याः प्रकीर्तिताः
अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता
एवं दशविधो धर्मः कथितस्तु वरानने ॥
तारं सुतारं तरणं तारकं च प्रमोदकम्
प्रमुदितं रम्यकं च सदाप्रमुदितं तथा ॥
एतज् ज्ञानं समाख्यातं समासात् परमेश्वरि
अम्भा च सलिला ओधा वृष्टिसंज्ञा तथापरा ॥
सुतारा च सुपारा च सुनेत्रा च परा स्मृता
अष्टमी च कुमारी स्याद् उत्तमाम्भसिका तथा ॥
वैराग्यं नवधा चैव कथितं तु मया तव
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥
प्राकाम्यं च तथेशित्वं वशित्वं च तथा परम्
यत्रकामावसायित्वम् अष्टमं परिकीर्तितम् ॥
ऐश्वर्यमष्टधा चैव कथितं तु वरानने
क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परम् ॥
असन्तोषो ऽनार्जवं च हिंसा चासत्यमेव च
स्तेयमब्रह्मचर्यं च तथा चैव सकल्कता ॥
एवमेष समाख्यातो दशधाधर्मसंग्रहः
अतारमसुतारं च अतारणमथापि च ॥
अतारकं च देवेशि चतुर्थं परिकीर्तितम्
अप्रमोदो ऽप्रमुदितम् अरम्यकमथापि च ॥
असदाप्रमुदितं तद् अज्ञानं चैवमष्टधा
अनम्भा असलिला च अनोघावृष्टिरेव च ॥
असुतारमसुपारम् असुनेत्रमतः परम्
अकुमारी च विज्ञेयान् उत्तमाम्भसिका तथा ॥
अनणिमालघिमा चैवामहिमा महेश्वरि
अप्राप्तिरप्राकाम्यं चा नीशित्वं च तथैव च ॥
अवशित्वं तथा चैवा यत्रकामावसायिता
अनैश्वर्यं च देवेशि अष्टधा परिकीर्तितम्
अनैश्वर्यादिभिश्चैते पैशाचाद्या अधिष्ठिताः ॥
यथा क्रमेण तेष्वष्टौ संस्थितान् कथयामि ते
अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे ॥
याक्षे चैव तदज्ञानं गान्धर्वे ऽधर्म एव च
धर्मं चैव तथैन्द्रे तु ज्ञानं सौम्ये प्रतिष्ठितम् ॥
प्राजापत्ये तु वैराग्यम् ऐश्वर्यं ब्रह्मणि स्थितम्
चतुष्षष्टिगुणं चैतत् पदे ब्राह्मे व्यवस्थितम् ॥
षट्पञ्चाशद्गुणं तच्च प्राजापत्ये व्यवस्थितम्
अष्टचत्वारिंशद्गुणं सौम्ये वै परिकीर्तितम् ॥
चत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते
द्वात्रिंशद्गुणितं देवि गान्धर्वैश्वर्यमुच्यते ॥
चतुर्विंशगुणं याक्षं षोडशं राक्षसं स्मृतम्
ऐश्वर्यमष्टगुणितं पैशाचं परिकीर्तितम् ॥
एवं स्थितं तदैश्वर्यं देवयोनिषु सुव्रते
अन्ये सप्तस्वरूपेण संस्थिता देवयोनिषु ॥
एत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः
प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः ॥
गुणत्रयस्य व्याप्तिं वै कथयामि यथास्थिताम्
सत्त्वेनाधिष्ठिता देवा ब्रह्माद्या मघवान्तकाः ॥
गन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः
यातुधानाः पिशाचाश्च तामसाः परिकीर्तिताः ॥
रजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः
अन्योन्याभिभवास्ते च पृथिव्यां संव्यवस्थिताः ॥
अत्यन्ततमसाविष्टाः स्थावराश्च सरीसृपाः
पादपादविहीनाश्च तामसाः परिकीर्तिताः ॥
सरीसृपाद्या विज्ञेयाः स्थावरान्तास्तु सुव्रते
एषामन्तर्गताश्चान्या अनन्ता एव योनयः ॥
मानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया
न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः ॥
गुणास्तु मानुषे लोके धर्माद्या एव संस्थिताः
धर्माद्येषु निबद्धानि यानि ज्ञानानि सुव्रते ॥
अधर्माद्येषु यानि स्युस् तानि ते कथयाम्यहम्
हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् ॥
वादजल्पवितण्डाभिः विवदन्ते ह्यनिश्चिताः
हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते ॥
ज्ञानयोगविहीनानि देवतारहितानि तु
धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ॥
अज्ञानेन निबद्धानि त्व् अधर्मेण निमित्ततः
निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः ॥
अवैराग्यादनैश्वर्यं भुञ्जते निरये सदा
चत्वारस्ते वरारोहे दुःखदा नरके सदा ॥
मोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः
धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकम् ॥
धर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकम्
बौद्धमारहतं चैव वैराग्येणैव सुव्रते ॥
ज्ञानवैराग्यसम्बद्धं सांख्यज्ञानं हि पार्वति
ज्ञानं वैराग्यमैश्वर्यं योगज्ञानप्रतिष्ठितम् ॥
अतीतं बुद्धिभावानाम् अतिमार्गं प्रकीर्तितम्
लोकातीतं तु तज्ज्ञानम् अतिमार्गमिति स्मृतम् ॥
लोकाश्च पशवः प्रोक्ताः सृष्टिसंहारवर्त्मनि
तेषामतीतास्ते ज्ञेया ये ऽतिमार्गे व्यवस्थिताः ॥
कपालव्रतिनो ये च तथा पाशुपताश्च ये
सृष्टिर्न विद्यते तेषां ईश्वरे च ध्रुवे स्थिताः ॥
यस्मान्मोक्षं गमिष्यन्ति अपुनर्भवकारणम्
लौकिकानां पुनः सृष्टिः पुनः संहार एव च ॥
संसारचक्रमारूढा भ्रमन्ति घटयन्त्रवत्
धर्माद्यरकसंयुक्तम् अष्टारं चक्रकं प्रिये ॥
ईश्वराधिष्ठितं देवि नित्यत्यादण्डकाहतम्
मलकर्मकलाविद्धं भ्रमते कालवेगतः ॥
लौकिकाद्येषु ज्ञानेषु ये तेष्वभिरताः प्रिये
हेतुशास्त्रपरा ये तु ये चान्ये पापकर्मिणः ॥
ते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः
लौकिकाद्येषु ये साध्या अतिमार्गान्तगोचरे ॥
लीलया साधयेत् सर्वान् शिवज्ञाने महोदये
न सर्वैः साध्यते तद्वै यतो ऽतीव सुनिर्मलम् ॥
यतो योजयते देवि अभावे परमे पदे
अभावं भावनातीतं प्रपञ्चातीतगोचरम् ॥
मनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवर्जितम्
प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययम् ॥
सर्वतर्कागमातीतं पाशमन्त्रविवर्जितम्
सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवम् ॥
सर्वशक्त्यात्मकं ह्येकं स्वतन्त्रानाथनादिमत्
सर्वातिशयनिर्मुक्तम् अनादिभववर्जितम् ॥
सर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतम्
एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने ॥
तत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरम्
भुवनानि विचित्राणि शतशो ऽथ सहस्रशः ॥
तत्त्वाभ्यन्तरसंस्थानि शास्त्राणि विविधानि च
विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणम् ॥
सर्वं तत्त्वेषु बोद्धव्यं सर्वतत्त्वेषु दृश्यते
प्रक्रिया शिवदीक्षा च तत्त्वैरेतैर्हि लभ्यते ॥
नास्ति दीक्षासमो मोक्षो न विद्या मातृका परा
न प्रक्रियापरं ज्ञानं नास्ति योगस्त्वलक्षकः ॥
तत्सर्वं कथितं देवि शिवज्ञानमहोदधौ
एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते ॥
मानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः
क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः ॥
लवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात्
दश पञ्च निमेषाश्च काष्ठा चैव प्रकीर्तिता ॥
त्रिंशत्काष्ठाः कला ज्ञेया मुहूर्तस्त्रिंशदेव ताः
मुहूर्तस्तु पुनस्त्रिंशद् अहोरात्रस्तु मानुषः ॥
अहोरात्रशतैश्चैव त्रिभिः षष्ट्यधिकैः प्रिये
संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे ॥
संवत्सरशतं पूर्णम् आयुर्ज्ञेयं तु मानुषम्
दश पञ्च त्वहोरात्राः पक्षस्तु परिकीर्तितः ॥
पक्षद्वयेन मासस्तु ऋतुर्द्विगुण एव सः
ऋतुद्वयेन कालः स्याद् अयनं च त्रिभिस्त्रिभिः ॥
ताभ्यां द्व्याभ्यां वरारोहे वर्षं तु परिगीयते
दक्षिणं चायनं रात्रिर् उत्तरं चायनं दिनम् ॥
पितॄणां तदहोरात्रम् अनेनाब्दस्तु पूर्ववत्
एवं दैवस्त्वहोरात्रस् तत्राप्यब्दादि पूर्ववत् ॥
द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम्
चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् ॥
त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः
सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये ॥
सन्ध्याद्वयस्य मानं तु कथयामि युगे युगे
शतानि चत्वारि कृते त्व् आदिरन्तश्च कीर्त्यते ॥
त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम्
कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतम् ॥
लौकिकेन तु मानेन पुनश्च कथयामि ते
त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः ॥
लौकिकेन तु मानेन त्व् इयं संख्या चतुर्युगे
एकैकस्य पुनर्देवि युगस्य कथयामि ते ॥
दश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः
कृतस्यैतद्भवेन्मानं त्रेतायां कथयामि ते ॥
षण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु
त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे ॥
चतुष्षष्टिः सहस्राणि ह्य् अष्टौ लक्षाणि सुव्रते
द्वापरस्य तु मानं च कलेस्तु कथयामि ते ॥
द्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयम्
एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते ॥
वर्षैस्तु मानवैर्देवि मानमेतद्युगे युगे
चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः ॥
सन्ध्यामानविहीनं तु युगैर्मानं प्रकीर्तितम्
एतद्दिव्येन मानेन मानं मन्वन्तरे स्मृतम् ॥
वर्षमानैः पुनश्चैव लौकिकैः कथयामि ते
सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने ॥
सहस्रविंशतिर्ज्ञेयं मानं मन्वन्तरे प्रिये
चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेत् ॥
मन्वन्तरे व्यतिक्रान्ते चान्यस्मिन् पुनरागते
पञ्च वर्षसहस्राणि मध्ये सन्ध्या भवेत् सदा ॥
आदौ सहस्रं सर्वेषाम् अन्ते चापि पुनस्तथा
कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकम् ॥
वर्षमानेन दिव्येन पुनश्च कथयामि ते
कोटिरेका तु वर्षाणां लक्षाणां चैव विंशतिः ॥
दिव्येनैव तु मानेन ब्रह्मणस्तु दिनं भवेत्
षण्णवत्या सहस्रैस्तु सन्ध्याकालः प्रकीर्तितः ॥
लौकिकेन तु मानेन अधुना कथयामि ते
वर्षवृन्दानि चत्वारि त्व् अर्बुदत्रयमेव च ॥
कोटिद्वयं च देवेशि दिनं पैतामहं स्मृतम्
सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीर्तिता ॥
चत्वारिंशत्तथा षष्टिः सहस्राणि तथैव च
पश्चिमः सन्धिरेवं हि पूर्वसन्ध्यापि तत्समा ॥
नरकैः सह सप्तानां पातालानां तथा प्रिये
लोकानां चैव सप्तानां स्थितिरेषा प्रकीर्तिता ॥
संहारं च पुनर्देवि शृणुष्व कथयामि ते
ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते ॥
दिनेनैकेन ब्राह्मेण इन्द्राश्चैव चतुर्दश
राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया ॥
ततः संहरते विश्वं सप्तलोकान्तगोचरम्
सुप्ते पितामहे देवि ऊर्ध्वं कालाग्निरीक्षते ॥
तस्य वै दक्षिणं वक्त्रं महाज्वालां विनिक्षिपेत्
तस्माद्वक्त्रान्महाज्वाला लक्षयोजनविस्तृता ॥
ऊर्ध्वं प्रयाति सा दीप्ता तीव्रवेगा सुदुःसहा
लोकेषु ये स्थिता लोका ये च पातालवासिनः ॥
सुखदुःखोभये क्षीणे मोहं भूयिष्ठमागते
सत्तामात्रास्तु ते सर्वे भवन्ति ब्रह्मविष्टपे ॥
यावन्नोदयनं भूयः सुखदुःखादिकर्मणाम्
तावत्तिष्ठन्ति ते मूढा यावद्ब्रह्मा न बुध्यते ॥
रुद्रलोकाधिपतयः पातालपतयश्च ये
कूष्माण्डहाटकाद्यास्तु ते तिस्ठन्त्यतिनिर्मलाः ॥
निर्व्यापारास्तु ते तावद् यावत् सृष्टिः पुनर्भवेत्
शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा ॥
सा दहेन्नरकान् देवि पातालानि समन्ततः
त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् ॥
धूमेन च त्रयो लोका विनश्यन्ति वरानने
महोजनस्तपःसंज्ञाः सत्यलोको ऽपि सुव्रते ॥
तिष्ठन्ति मोहितात्मानो निद्रया ते मृतोपमाः
एवं दग्द्घा जगत्सर्वं ज्वाला वक्त्रं विशेत् पुनः ॥
ततो वान्ति महावाता ब्रह्मनिःश्वाससम्भवाः
नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये ॥
ब्रह्मप्रस्वेदजं वारि तज्जगत् प्लावयेत् पुनः
तेनैव वारिणा देवि जगदेकार्णवं भवेत् ॥
निशाक्षये पुनः स्थित्वा सुखदुःखफलोदये
कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः ॥
शून्यभूतां समालोक्य भगवान् प्रभुरिच्छया
षड्विधां कुरुते सृष्टिं यथापूर्वव्यवस्थया ॥
प्रथमां तामसीं सृष्टिं करोति तमसोत्कटान्
नरकान् विविधाकारान् पशून् वै स्थावरान्तगान् ॥
तमोरजःसमावेशान् मानवान् संसृजेत् पुनः
रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरम् ॥
गतनिद्रः प्रबुद्धश्च सत्त्वनिष्ठो जगत्पतिः
सृजेद्देवान् सलोकांश्च पूर्वयैव व्यवस्थया ॥
ततो रुद्रेन्द्रसूर्येन्दु नक्षत्राणि ग्रहेश्वराः
अधिकारं प्रकुर्वन्ति स्वे स्वे विषयगोचरे ॥
दिने दिने सृजत्येवं संहरेच्च दिनक्षये
दिनमानं च यत्प्रोक्तं रात्रिसंख्या च तावती ॥
अहोरात्रेण चानेन अब्दं वै पूर्ववत् स्मृतम्
अब्दानां तु शते पूर्णे महाकल्पः स उच्यते ॥
ब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु
एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः ॥
तथा सप्तैव खर्वाणि निखर्वाष्टकमेव च
ब्राह्मं वर्षशतं चैतज् ज्ञातव्यं कालवेदिना ॥
दैविकेन तु मानेन मानमित्थं प्रकीर्तितम्
लौकिकेन तु मानेन पुनश्चैव निबोध मे ॥
द्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये
खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु ॥
शङ्कुत्रयं पद्ममेकं सागरत्रयमेव च
एतद्देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः ॥
एतल्लौकिकमानेन ब्राह्ममब्दशतं स्मृतम्
एकं दशगुणं पूर्वं शतं दशगुणं तु तत् ॥
शतं दशगुणं कृत्वा सहस्रं परिकीर्तितम्
सहस्रं दशगुणितम् अयुतं तद्धि कीर्तितम् ॥
दशायुतानि लक्षं तु नियुतं दशतानि च
दश तानि च कोटिः स्याद् दश कोटिस्तथार्बुदम् ॥
अर्बुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः
दशभिस्तैर्निखर्वं तु शङ्कुः स्याद्दश तानि तु ॥
शङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः
सागरैर्दशभिर्मध्यम् अन्त्यं तैर्दशभिः स्मृतम् ॥
अन्त्यं दशाहतं कृत्वा परार्धं परिकीर्तितम्
एवमष्टादशैतानि स्थानानि गणितस्य तु ॥
महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम्
विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेत् ॥
अनेन परिमाणेन तस्याब्दं तु विधीयते
वर्षाणां च शते पूर्णे सो ऽपि याति परे लयम् ॥
विष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं भवेत्
दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती ॥
ब्राह्मी च वैष्णवी शक्तिर् अधिकारपदं गता
यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते ॥
तदाधिकारं कुरुते इच्छया परमात्मनः
ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा ॥
लोकाधिपाश्च देवेशि तथा च भुवनाधिपाः
ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः ॥
शक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः
तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः ॥
शिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान्
सा शक्तिर्भिद्यते देवि भेदैरानन्त्यसम्भवैः ॥
एवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने
संहारं च दिनान्ते वै रात्रिर्वै तत्समा भवेत् ॥
दिनरात्रिप्रमाणेना -नेन स्याद्वत्सरो ऽस्य च
वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् ॥
सो ऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेत्
तस्मिन् स्थाने पुनश्चान्यस् तत्समश्च प्रभुर्भवेत् ॥
रौद्रशक्तिसमायोगाद् ब्रह्मविष्ण्विन्द्रनायकः
शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये ॥
ते प्रयान्ति परं तत्त्वं ततो ऽण्डं तु विनश्यति
सर्वभूतगुणाधारं सर्वतत्त्वालयालयम् ॥
सपर्वतवनोद्यान द्वीपसागरमण्डितम्
विमानमालाकुलितं ग्रहनक्षत्रमण्डितम् ॥
देवदानवगन्धर्व सिद्धविद्याधरोरगैः
ऋषिभिर्मानुषाद्यैश्च सप्तलोकनिवासिभिः ॥
नरकैश्चैव पातालैर् युक्तं भुवनमण्डितम्
अशेषभुवनाधार मण्डमप्सु प्रलीयते ॥
ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत्
अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरम् ॥
तत्सर्वं संहरेत् कालः स्वयमेव चराचरम्
तदूर्ध्वं शुद्धमध्वानं यावच्छक्त्यन्तगोचरम् ॥
तत्सर्वं संहरेद्घोरम् अघोरो घोरनाशनः
त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः ॥
ततः संहरते तोयम् अमरेशशतात्यये
एवं भूताद्यावरण पतयश्च शतात्यये ॥
संहरन्ति च देवेशि सृजन्ति च परस्परम्
आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः ॥
तथानिलो ऽम्बरं प्राप्य सह तेनैव लीयते
तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमात् ॥
तन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमम्
स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते ॥
गुणसाम्यमनिर्देश्यम् अप्रतर्क्यमनौपमम्
तस्मिन् जगदशेषं तु प्रसुप्तमिव तिष्ठति ॥
परमाणुप्रमाणेन लीनं संतिष्ठते जगत्
षड्विंशकस्य रुद्रस्य चैतद्दिनमिह स्मृतम् ॥
प्रजाः प्रजानां पतयः पितरो मानवैः सह
साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः ॥
छन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये
अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः ॥
दिनान्ते तु प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः
षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः ॥
अव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम्
तस्मिन् संहरते सर्वं प्रधानस्य दिनक्षये ॥
रात्र्यन्ते च सृजेद्भूयः श्रीकण्ठो विश्वनायकः
तस्याप्यनेन न्यायेन परिमाणस्थितिर्भवे ॥
यस्मात् प्रलयकोट्यश्च व्यतीताश्च सहस्रशः
ततो नियतिकालौ च रागो विद्या कला तथा ॥
परस्परं लयं यान्ति क्रमात् सर्वे स्वमानतः
कलाद्यवनिपर्यन्तं गहनेशदिनक्षये ॥
नानाभुवनविन्यास रचनादिविभूषितम्
सगुणाधारपर्यन्त रुद्रक्षेत्रज्ञसङ्कुलम् ॥
गहनेशे लयं याति मूलप्रकृतिकारणे
रात्र्यन्ते जायते भूयो गहनेशप्रचोदनात् ॥
अहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि
प्रलयश्च स एवोक्तो भूतानां परमेश्वरि ॥
प्राधानिकपरार्धेन दशधागुणितेन तु
माया संहरते सर्वं पुनश्चैव सृजेज्जगत् ॥
मायाकालपरार्धस्य शतधागुणितस्य च
ईश्वरः कुरुते सृष्टिं पुनश्च संहरेज्जगत् ॥
ततः सदाशिवो देवः स्वमानेन च संहरेत्
सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे ॥
महाप्रलय एवोक्तः सादाख्ये तु दिनद्वये
बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः ॥
बिन्दुं चैवार्धचन्द्रं तु भित्त्वा चैव निरोधिकाम्
नादतत्त्वे लयं याति गृहीत्वा सचराचरम् ॥
नादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये
शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये ॥
परार्धः स तु विज्ञेयः कालस्तु वरवर्णिनि
तच्च शिवतत्त्वस्थस्य व्यापीशस्याप्यहर्मुखम् ॥
ततश्च संसृजेद्भूयो व्यापी व्योमस्वरूपिणि
लीयते सो ऽप्यनन्तेशे सो ऽनाथे सो ऽप्यनाश्रिते ॥
शक्तिकालपरार्धस्य कोटिधागुणितस्य च
अनाश्रितस्य देवस्य दिनमेतत् प्रकीर्तितम् ॥
अनेन परिमाणेन परार्धगुणितेन तु
सो ऽपि याति परं स्थानं कारणं स्वमनाश्रयम् ॥
स कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः
ततो ऽप्यूर्ध्वममेयस्तु कालः स्यात् परमावधिः ॥
नित्यो नित्योदितो देवि अकल्यश्च न कल्यते
स चाधः कलयेत् सर्वं व्यापिन्यादिं धरावधिम् ॥
तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम्
ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते ॥
न कल्यः कल्यते कश्चिन् निष्कलः कालवर्जितः
यः शाङ्कर्युन्मनातीतः स नित्यो व्यापको ऽव्ययः ॥
तस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशम्
अरूपा रूपनिर्मुक्तः सो ऽनादिर्भववर्जितः ॥
सर्वज्ञः सर्वकर्ता च दानादिगुणवर्जितः
स एवापररूपेण उन्मन्या मूर्ध्नि संस्थितः ॥
देवदेवो जगन्नाथः परमात्मा शिवो ऽव्ययः
पर्यानुक्रमयोगेन सो ऽकामात् सृजते जगत् ॥
अकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत् कथम्
एवं प्रश्नवरं गुह्यं कथयस्व प्रसादतः ॥
आदित्यस्य मणेर्यद्वत् तापिताद्रविरश्मिभिः
वह्निः संजायते तस्माद् रवेस्तत्र न कामिता ॥
मणेरपि न कामित्वं तद्वद्देवस्य चेष्टितम्
आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता ॥
ऋतुकालमिताद्वृक्षात् कालो ऽङ्कुरनियोजकः
यद्वच्छिवसमायोगात् तद्वच्छक्तेर्जगत्स्थितिः ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0