Svacchandatantra · अध्याय 13
सारं यदस्य तन्त्रस्य यागं तु परमेश्वर
तमाख्याहि समासेन साधकानां हिताय वै ॥
मूलबीजाक्षरं मन्त्र नायकं परमीश्वरम्
प्रणवासनमारूढम् अङ्गवक्त्रैः समन्वितम् ॥
पूर्वोक्तद्रव्यसंघातैः पूजयेत् परमेश्वरम्
स एव होमविन्यासः दीक्षा सैव प्रकीर्तितः ॥
दशलक्षं जपेद्यस्तु एकचित्तः समाहितः
समुद्रगसरित्तीरे सहायैः परिवर्जितः ॥
होमयेन्नरमांसस्य लक्षमेकं सगुग्गुलम्
जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः ॥
असाध्यं साधयेद्देवि नात्र कार्या विचारणा
यानि कानीह कर्माणि चतुष्पीठस्थितानि च ॥
अधमान्यथ मध्यानि ह्य् उत्तमानि वरानने
तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा ॥
अथातः सम्प्रवक्ष्यामि कारिकाकोशमुत्तमम्
यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः ॥
अभिमुखखड्गनि पातितशूरशिरः शोषितं समादाय ।
रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् ॥
प्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति ।
असुरेन्द्रचक्रवर्तिनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् ॥
प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् ।
यमलोकादप्यचिरादानयति बलेन पूर्ववत् साध्यम् ॥
मृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय ।
रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्ताम् ॥
खदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन ।
आनयति शचीमहल्यामथवा दिवसस्य शतभागात् ॥
उद्बद्धस्त्रीतनुवामाङ्घ्रेः पांसुलीं समादाय ।
प्रेतालक्तकनिजरुधिररोचनाभिर्विलिख्य साध्यतनुम् ॥
प्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुताम् ।
कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु ॥
निजवामकरे ऽलक्तकरोचनया साध्यनाम परिलिखितम् ।
मन्त्रविदर्भितमेतज्जपशतयुक्तं सुतापितं रात्रौ ॥
खदिरानले विधूमे ऽसुरगुरुमप्यानयत्यनिलवेगात् ।
साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन ॥
गन्धोद्वर्तितवामहस्तेन तु तत्त्वबीजयुक्तेन ।
आक्रम्य भूमिलिखितं साध्याभिमुखो ऽर्धरात्रकाले तु ॥
क्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् ।
नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम् ॥
नाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य ।
गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय ॥
कृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत् सम्यक् ।
खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा ॥
यावत् सिक्थकमेतत् कपाललग्नं विलीयते तावत् ।
सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण ॥
भित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानम् ।
साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन् क्रुद्धः ॥
क्रोङ्काराङ्कुशयोगादानयति सुरासुरान् क्षिप्रम् ।
रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात् ॥
विपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये ।
सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा ॥
आनयति महापुरुषं क्षितिपतिमपि दिवसशतभागात् ।
शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्षमयुतम् ॥
तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु ।
तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः ॥
विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः ।
व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकम् ॥
धामचाराधयेत् सम्यक् तत्र यस्तु विचक्षणः
जायते त्रिविधा सिद्धिर् गिरिराजतनूद्भवे ॥
सुनिश्चितमतेः सम्यग् गिरिराजस्य तस्य वै
रक्तचन्दनधूलिं तु राजिकां लवणं तथा ॥
पादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेत्
जपन् स्वच्छन्ददेवं तु निर्मथ्नंश्च करद्वयम् ॥
चिताग्नौ जुहुयाच्चूर्णं चाण्डालाग्नावथापि वा
साध्यस्याभिमुखो भूत्वा प्रयोगमिममाचरेत् ॥
शतमेकं जपेद्यावत् तावदाकर्षयेन्नृपम्
वशमायाति भूनाथ आत्मना च धनेन च ॥
सिद्ध एष प्रयोगस्तु नान्यथा ते वदाम्यहम्
तामेव धूलिं संगृह्य लोहचूर्णविमिश्रिताम् ॥
श्मशानचीरके बद्ध्वा सप्तजप्तां चतुष्पथे
निखन्याष्टाङ्गुलं भूमौ रिपुनामसमन्विताम् ॥
निक्षिपेद्यस्य नाम्ना तां स क्षणात् स्तम्भितो भवेत्
तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुताम् ॥
बद्ध्वा तां प्रेतवस्त्रेण रिपुनामसमन्विताम्
शतजप्तां तु तां कृत्वा श्मशाने निखनेद् द्रुतम् ॥
भवत्युन्मत्तकः साध्य उद्धृतायां तु मुच्यते
उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेत् ॥
प्रत्यानयनमेतद्धि सिद्धमेव न संशयः
अथ रक्ताश्वमारस्य कुसुमानि समाहरेत् ॥
शतमष्टोत्तरं तेषां शतजप्तं तु कारयेत्
सकृज्जप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेत् ॥
एवं दिने दिने कुर्याद् दशाहं सुसमाहितः
ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु ॥
महानदीं ततो गत्वा तत्रैकैकं प्रवाहयेत्
आनुपूर्व्येण सर्वाणि सकृज्जप्त्वा तु मन्त्रवित् ॥
यत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि
तद्गृहीत्वाम्बुसम्मिश्रं दन्तैरस्पृष्टमापिबेत् ॥
ततो ऽश्वमारकुसुमं रक्तं वै शतमन्त्रितम्
तर्जन्यग्रे तु तत्कृत्वा अङ्गुष्ठेनाक्रमेद् बुधः ॥
भ्रामयेत् सव्यतः पुष्पं यस्य नाम्ना तु मन्त्रवित्
स्वच्छन्दं जपमानस्तु तमाकर्षयते द्रुतम्
अपसव्यं भ्रामयित्वा पुनस्तस्य विसर्जनम् ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0