भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 10

10.1

अध्वायं तु महादेव सूचितो न तु वर्णितः
कथयस्व प्रसादेन साधकानां हिताय तम् ॥

10.2

अध्वानं संप्रवक्ष्यामि साधकानां हिताय वै
अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः ॥

10.3

कोटियोजनबाहुल्यः तस्योर्ध्वे भुवनानि तु
नवनवतिकोट्यश्चाप्य् अण्डानां तु सहस्रकम् ॥

10.4

कोटीनां सप्ततिर्लक्षाण्य् अयुतानां सहस्रकम्
अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च ॥

10.5

पद्मानि चाप्यसंख्यानीत्य् एवमादीन्यनेकशः
तेषां वै नायको ह्यत्र त्व् अनन्तः परमेश्वरः ॥

10.6

तेन शुद्धेन शुद्धानि त्व् अण्डान्यत्रोहकैः सह
शक्त्याधाराश्रयैरेव द्वात्रिंशत्परिसंख्यया ॥

10.7

कोटिकोटिपरीवारास् त्व् अनौपम्यगुणान्विताः
दिव्याङ्गानौघसंकीर्णा भ्रूभङ्गललितेक्षणैः ॥

10.8

सूर्यायुतप्रतीकाशास् तोरणाट्टालमण्डिताः
न तत्र दिःखितः कश्चिन् मुक्त्वा दिःखमनङ्गजम् ॥

10.9

रमन्ते तत्र वै वीरा नारीभिः सह लीलया
भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ॥

10.10

भुवनान्येवमुक्तानि भुवनान्तरवासिनाम्
सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते ॥

10.11

अथोपरिष्टात्कालाग्निः श्रीकण्ठेन निवेशितः
अधिकारं प्रकुरुते तदाज्ञानुविधायकः ॥

10.12

अनेकरुद्रकोटीभिर् उपेतस्तिष्ठति प्रिये
अधुना संप्रवक्ष्यामि प्रमाणं शिवनिर्मितम् ॥

10.13

योजनानां वरारोहे यथा भवति तच्छृणु
अव्यक्ताद्दशभिर्भागैर् महान्स्थूलो विभाव्यते ॥

10.14

द्विपञ्चभागो महतो भूतादिः स्थूल उच्यते
भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषम् ॥

10.15

भूतादेर्यद्दशगुणम् अणीयो दृश्यते रजः
जालान्तरगते भानौ परमाणुः स उच्यते ॥

10.16

अष्टानां परमाणूनां समवायस्तु यो भवेत्
त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते ॥

10.17

त्रसरेणवश्च येत्वष्टौ वालाग्रं तु विधीयते
वालाग्राणि तथात्वष्टौ लिक्षेति परिकीर्तिता ॥

10.18

लिक्षाश्चाष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेत्
अष्टौ यवा वरारोहे पर्वाङ्गुष्ठमथाङ्गुलम् ॥

10.19

द्वादशाङ्गुलमानेन वितस्तिस्ताल उच्यते
तालद्वयं भवेद्धस्तश् चतुर्विंशतिकाङ्गुलः ॥

10.20

चतुर्हस्तो धनुर्दण्डो नालिका यूप एव च
धनुः सहस्रे द्वे पूर्णे क्रोशः समभिधीयते ॥

10.21

क्रोशद्वयेन गव्यूतिर् गव्यूती द्वे तु योजनम्
अनेन परिमाणेन योजनानां यशस्विनि ॥

10.22

सिंहासनं महादीप्तं सहस्रद्वयविस्तृतम्
सहस्रमुच्छ्रितं तस्य महापीठेषु सुव्रते ॥

10.23

तिष्ठते तत्र देवेशः कालो द्वादशलोचनः
सितरक्तपीतकृष्णश् चतुर्वक्त्रो महाबलः ॥

10.24

रक्ताङ्गो ऽथ करालश्च पिङ्गभ्रूश्मश्रुलोचनः
वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः ॥

10.25

ज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः
ज्वलत्पर्वतवद्दीप्तो ज्वलज्ज्वालाभिराजितः ॥

10.26

दशबाहुर्महात्मा वै खड्गखेटकधारकः
शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा ॥

10.27

कपालखट्वाङ्गधरो वरदाभयपाणिभृत्
दशयोजनलक्षाणि शरीरं भाति भास्वरम् ॥

10.28

कोटियोजनमानेन भुवनं चास्य जाज्वलम्
संभृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः ॥

10.29

नानारूपविमानैश्च प्रज्वलद्भिः समावृतम्
ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दशचोर्ध्वतः ॥

10.30

तस्योपरिष्टाद्देवेशि पञ्चकोट्यो वरानने
न कश्चिन्नवसत्यत्र धूमोष्मपरिवारितः ॥

10.31

अतः परं वरारोहे नरकाः परिकीर्तिताः
पञ्चाशत्कोटयो देवि कथिताह्यनुपूर्वशः ॥

10.32

प्रधानं संप्रवक्ष्यामि शतं तत्र वरानने
चत्वारिंशत्समोपेतं कथितं नामतः शृणु ॥

10.33

अवीची रौरवश्चैव महारौरव एव च
तामिस्रश्चान्धतामिस्रः संजीवनसुजीवनौ ॥

10.34

पद्मश्चैव महापद्मः कालसूत्रस्तथैव च
सूचीमुखः महाकायः क्षुरधारो ऽसिपर्वतः ॥

10.35

असिस्तालो द्रुमश्चैव द्रुममस्तक एव च
द्रुमारामश्च विख्यातः कुम्भीपाकस्तथैव च ॥

10.36

अम्बरेषो ऽङ्गारराशिः तीक्ष्णतुण्डस्तथैव च
वज्रतुण्डश्च शकुनिः मीनोदरखरोदरौ ॥

10.37

सन्दंशः वज्रकायश्च मेदकश्च वरानने
उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः ॥

10.38

असृक्पूयह्रदश्चैव भ्रमरो मषकस्तथा
संग्रहश्च कपालश्च तप्तकवच एव च ॥

10.39

गजपादो महावक्त्रः कूर्माख्योनकुलस्तथा
पीडनश्चैवकुम्भीरः क्रकचः शूलमेव च ॥

10.40

अनङ्गश्चाङ्गारोद्गारः प्रदीप्तस्त्रिमुखस्तथा
पञ्चवक्त्रः शतास्यश्च जलौको बिलधूमकः ॥

10.41

सुतप्तो जतुपङ्कश्च घोररूपो ऽतिदारुणः
अस्थिभङ्गः पूतिमांसः द्रव्यश्चैव त्वमेध्यकः ॥

10.42

उलूकः परशुर्दण्डः काकाख्यश्च तथैव च
सोच्छ्वासश्च निरुच्छ्वासः वृकास्यश्च तथैव च ॥

10.43

अश्वास्यो गोपलादश्च अलोको दहनस्तथा
श्ववक्त्रो ऽथ दवाग्निश्च क्षारकूपस्तथा तमः ॥

10.44

अहीनां निचयश्चैव तप्तपाषाण एव च
विरूपो रूपवांश्चैव चित्री चित्रधरस्तथा ॥

10.45

कृष्णपिङ्गलरक्तास्यः महिषो राक्षसस्तथा
कुब्जः उत्तप्ततैलाख्यः अशनी वृष्टिमुद्गरौ ॥

10.46

मुसलः अनातपश्चैव यमलाद्रिस्तथैव च
क्रिमिकूटः बहुशाखः शल्मलिश्च फडिस्तथा ॥

10.47

निगडो लोहरज्जुश्च लोहपञ्जर एव च
तनुभेदश्चोरगश्च वृश्चिकः काल एव च ॥

10.48

वज्रकणः कटाहश्च पट्टः संकुल एव च
घोरश्चाजगरश्चैव महावैतरणी तथा ॥

10.49

गृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः
कर्दमः दुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः ॥

10.50

चिपिटः खञ्जरीटश्च शवलो नील एव च
काकः कङ्कुममुखश्चैव शिवारावस्ततः परः ॥

10.51

गजनादो महानादः सिंहनादस्तथैव च
महाग्राहस्तथा नक्रो मूषिकाकीटसागरः ॥

10.52

अवाक्शिराः त्रिरावर्तः चक्रपीडनकस्तथा
त्रपुलेपस्त्रपुकूपः इक्षुयन्त्रः गिरेर्लता ॥

10.53

कटङ्कटश्चविख्यातः तप्तवालुक एव च
एते ऽतिघोरा नरकास् त्रिकोणाः परिकीर्तिताः ॥

10.54

असत्कर्मरतानां च प्राणिनां पातनाय तु
निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा ॥

10.55

निर्दयाधमजातीनां परहिंसारतात्मनाम्
परदाररतानां च शिवशास्त्रस्य दूषिणाम् ॥

10.56

देवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनाम्
गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनाम् ॥

10.57

सुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनाम्
दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसाम् ॥

10.58

नरकास्तु समाख्यातास् त्व् अकर्मपथवर्तिनाम्
शुभकर्मरता लोका नरके न पतन्ति हि ॥

10.59

तत्समासेन वक्ष्यामि यथावदनुपूर्वशः
सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता ॥

10.60

दयालौल्यं च यस्यासौ नरकान्नाधिगच्छति
शान्तो दान्तः सुहृष्टात्मा त्व् अनहंकारवान्समः ॥

10.61

अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः
अमात्सर्यममानित्वं शिवभक्तिरचापलम् ॥

10.62

जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनम्
व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिदंध्यता ॥

10.63

सर्वत्र श्रद्दधानत्वम् आर्जवं ह्रीर्मनस्विता
तेजः प्रशान्तिः संतोषो ऽप्रियवाक्यविवर्जनम् ॥

10.64

समीक्ष्यकारिता नित्यं मनोहंकारनिग्रहः
अदम्भित्वममायित्वम् अकल्को ज्ञानशीलता ॥

10.65

पितृदेवार्चने भक्तिर् गोब्राह्मण शरण्यता
अग्नौ होमो गुरुर्दानं ज्ञानिनां पर्युपासनम् ॥

10.66

एकान्ते च रतिर्ध्यानम् आत्मन्येव च तुष्टता
अव्यापारः परार्थेषु औदासीन्यमनागसः ॥

10.67

अक्रोधित्वमनालस्याम् एते धर्माः प्रकीर्तिताः
यस्त्वेतान्भजते भावान् सो ऽमृतत्वाय कल्पते ॥

10.68

नश्यन्ति पौरुषाः पाशा ये ऽप्यनन्ताः प्रकीर्तिताः
शिवाचाररतानां तु धार्मिकाणां हि देहिनाम् ॥

10.69

तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेत्
यस्य चित्तमसंभ्रान्तं निर्विकल्पमकल्मषम् ॥

10.70

स याति परमांल्लोकान् नरकांश्च न पश्यति
यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी ॥

10.71

अकल्कवान्सत्त्ववान्यो नरकान्स न पश्यति
जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितम् ॥

10.72

तज्जयेन जितं सर्वं त्रैलोक्यं सचराचरम्
स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेत् ॥

10.73

एतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः
इत्येष तान्त्रिको न्यायः कथितस्तु समासतः ॥

10.74

अतान्त्रिकाणामन्येषां परिसंख्या न विद्यते
शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः ॥

10.75

परतत्त्वविदो ये तु न तेषां दुरितं भवेत्
एतेषां नरकाणां तु प्रधानानि निबोध मे ॥

10.76

पञ्चत्रिंशत्तु नरकाः चतुर्भेदाः प्रकीर्तिताः
चत्वारिंशच्छतंह्येतत् समासात्परिकीर्तितम् ॥

10.77

तैर्विशुद्धैर्विशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः
पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः ॥

10.78

चत्वारिंशच्छतं शुद्धं तदेतत्स्याद्वरानने
त्रिभिः शुद्धैस्तु द्वात्रिंशच् छुद्धा एव भवन्ति हि ॥

10.79

तेषां नामानि वक्ष्यामि त्रयाणां वरवर्णिनि
अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः ॥

10.80

महारौरवराजश्च स्थानं तेषां निबोध मे
अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमम् ॥

10.81

व्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः
नरकैकादशगतम् अवीचिं शोधयेत्प्रिये ॥

10.82

आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेत्
महारौरवसंज्ञं चाप्य् एवमेव न संशयः ॥

10.83

पञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने
अवीचिः क्रिमिनिचयो नदी वैतरणी तथा ॥

10.84

लोहश्च शल्मलिश्चैवाप्य् असिपर्वत एव च
सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा ॥

10.85

तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च
अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयताम् ॥

10.86

अस्थिभङ्गः क्रकचछेदः कूपश्चापि कटङ्कटः
वसामिश्रोह्ययस्तुण्डस् त्रपुलेपः प्रकीर्तितः ॥

10.87

कुम्भीपाकश्च विज्ञेयस् तीक्ष्णासिश्च तथैव च
तप्रलोहश्च विज्ञेयः क्षुरधारपथस्तथा ॥

10.88

अशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः
एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः ॥

10.89

महारौरवराजे च अत ऊर्ध्वं निबोध मे
कालसूत्रो महापद्मः कुम्भः संजीवनेक्षुकौ ॥

10.90

पाशो ऽम्बरेषकश्चैव अयःपट्टस्तथैव च
दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः ॥

10.91

महारौरव एतेषाम् उपरिष्टाद्व्यवस्थितः
अवीचौ कृमिनरकान् कुम्भीपाके सुदारुणान् ॥

10.92

महारौरवके ऽमेध्यान् अन्तर्भूतान्विचिन्तयेत्
द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे ॥

10.93

नवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः
लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमात् ॥

10.94

एतेषामुपरिष्टात्तु प्रभुत्वेन वरानने
योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः ॥

10.95

नवनवतिर्लक्षाणि पुरं तस्य प्रकीर्तितम्
तस्योपरिष्टात्पातालान् कथयामि समासतः ॥

10.96

आभासं वरतालं च शर्करं च गभस्तिमत्
महातलं च सुतलं रसातलमतः परम् ॥

10.97

सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितम्
आभासाद्यावत्सौवर्णं प्रमाणं कथयामि ते ॥

10.98

सहस्रनवकोत्सेधम् एकैकं तु पुरोत्तमम्
एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया ॥

10.99

छत्राकाराणि सर्वाणि तेषां वै भुवनानि तु
सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु ॥

10.100

हेमप्राकारशिखरैश् छत्रध्वजसमाकुलैः
किङ्किणीजालमुखरैस् तोरणाट्टालमण्डितैः ॥

10.101

निर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः
तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः ॥

10.102

नानाभुवनपङ्क्त्योघैः सर्वरत्नसमुज्ज्वलैः
प्रासादैस्तुङ्गशिखरैश् चन्द्रातपसमप्रभैः ॥

10.103

रथ्यामार्गवरारामैः सदापुष्पफलान्वितैः
कोकिलारावमधुरैः शिखिषट्पदसेवितैः ॥

10.104

हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः
सारसारावसंघुष्ट पद्मिनीषण्डमण्डितैः ॥

10.105

तडागैः स्वच्छतोयाढ्यैर् दीर्घिकाभिर्युतानि तु
पुरुषैश्च महाकायैर् महाबलपराक्रमैः ॥

10.106

सर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः
दिव्यवस्त्रैः सुताम्बूलैर् दिव्यगन्धानुलेपनैः ॥

10.107

दिव्याभरणसंयुक्तैर् मुकुटै रत्नमण्डितैः
शिवाराधनसक्ता ये तत्प्रसादेन साधकाः ॥

10.108

ते विशन्ति महादेवि पातालं सिद्धसेवितम्
रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते ॥

10.109

क्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः
कामिनः कामरूपैस्तु मत्तमातङ्गगामिभिः ॥

10.110

सर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः
दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः ॥

10.111

मध्यक्षामैः प्रसन्नास्यैस् तरलायतलोचनैः
सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः ॥

10.112

सुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः
एवं ते कथिता देवि पातालान्तरवासिनः ॥

10.113

त्रयो ऽसुरास्तथा नागा राक्षसाश्च विभागतः
एकैकत्र च पाताले कथितास्ते वरानने ॥

10.114

पातालसप्तके ज्ञेयास् तथान्ये भुवनाधिपाः
बलोह्यतिबलश्चैव बलवान्बलविक्रमः ॥

10.115

सुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः
एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः ॥

10.116

यदूर्ध्वे चैव सौवर्णं पातालं परिकीर्तितम्
तत्र वसत्यसौ देवो हाटकः परमेश्वरः ॥

10.117

पुरकोटिसहस्रैस्तु समन्तात्परिवारितः
सिद्धैरुद्रगणैर्दिव्यैर् भगिनीमातृभिर्वृतः ॥

10.118

योगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः
सिद्धद्रव्यसमैर्मन्त्रैश् चिन्तामणिरसायनैः ॥

10.119

सिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरम्
हठत्प्रवेशयेल्लोकां स्तद्भावगतमानसान् ॥

10.120

तेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः
तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः ॥

10.121

भूकटाहः समुद्दिष्टः समन्तात्तु वरानने
अतो भगवती पृथ्वी नानाजनपदाकुला ॥

10.122

तस्या मध्ये महामेरुः सौवर्णश्च वरानने
तस्याचलस्य विस्तारम् ऊर्ध्वाधः कथयामि ते ॥

10.123

योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः
षोडशैव सहस्राणि अधोभागे प्ररोपितः ॥

10.124

तान्येव मूलविस्तारः द्विगुणो मूर्धविस्तरः
तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती ॥

10.125

चतुर्दशसहस्राणि योजनानां प्रमाणतः
सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता ॥

10.126

सर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः
सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता ॥

10.127

तस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतम्
सूर्यकोटिप्रतीकाशं गणप्रथमसेवितम् ॥

10.128

सर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितम्
स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितम् ॥

10.129

तत्रास्ते भगवान्देवस् त्र्यम्बकः परमेश्वरः
लोकपालैर्वृतो ऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः ॥

10.130

ममांशं तं विजानीयाः सुरसिद्धनमस्कृतम्
अधिकारं प्रकुरुते परेच्छासंप्रचोदितः ॥

10.131

सभाया ब्रह्मणो ऽधस्तात् सहस्राणि चतुर्दश
योजनानां परित्यज्य चक्रवाटः समन्ततः ॥

10.132

स्वर्गाष्टकं समुद्दिष्टं तत्र तिष्टन्ति लोकपाः
पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती ॥

10.133

तेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता
दक्षिणे यमराजस्य नाम्ना संयमनी पुरी ॥

10.134

कृष्णाङ्गारा तु नैऋत्यां राक्षसेशस्य कीर्तिता
पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता ॥

10.135

वायव्यां तु पुरी वायोर् नाम्ना गन्धवहा प्रिये
उत्तरेणापि सोमस्य पुरी नाम्ना महोदया ॥

10.136

ऐशान्यामीशराजस्य पुरी नाम्ना यशोवती
एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः ॥

10.137

दक्षिणेनामरावत्याः कामवत्यप्सरः पुरी
सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु ॥

10.138

तस्या वै दक्षिणेनान्या पद्मरागोपशोभिता
आदित्यानां पुरीख्याता नाम्नाचांशुमती शुभा ॥

10.139

साध्यानां राजती दिव्या ख्याता वै कुसुमावती
वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी ॥

10.140

तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः
पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता ॥

10.141

क्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः
रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी ॥

10.142

तत्र शूलधरा रुद्रा यमस्य परिचारकाः
तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी ॥

10.143

एकादशानां रुद्राणां वज्रप्राकारतोरणा
निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी ॥

10.144

स्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः
नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता ॥

10.145

निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा
तस्या अप्युत्तरे भागे पुरी हैमी सुखावती ॥

10.146

मित्रो वसति तत्रैव बहुभृत्यजनावृतः
तस्या अप्युत्तरे हैमी गान्धर्वी नाम विशृता ॥

10.147

वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः
दशकोटिसहस्राणि तेषां संख्या प्रकीर्तिता ॥

10.148

भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे
हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे ॥

10.149

तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी
सर्वविद्याधराणां तु सा पुरी परिकीर्तिता ॥

10.150

वायोर्दक्षिणतो देवि सिद्धा नाम्ना पुरी स्मृता
वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः ॥

10.151

वायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु
गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता ॥

10.152

आस्ते भगवती साक्षात् सप्रस्वरविभूषिता
ग्रामत्रयपरीधाना जातिमेखलमण्डिता ॥

10.153

मूर्च्छनातानचित्राङ्गी नानातालकलोदया
लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता ॥

10.154

गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती
नारदाद्यैश्च ऋषिभिर् नागकिन्नरसेविता ॥

10.155

तस्याःपूर्वेण चित्रा वै तुम्बुरुर्नारदस्य च
सोमस्य पश्चात्प्रमदा गुह्यकानां पुरी स्मृता ॥

10.156

पूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी
सर्वधातुमयी चित्रा कुबेरस्य महात्मनः ॥

10.157

षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः
यक्षाणामुत्तमः श्रीमान् आस्ते भोगैरनुत्तमैः ॥

10.158

तस्या पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी
तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः ॥

10.159

पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी
तत्रास्ते श्रीपतिः श्रीमान् अतसीपुष्पसन्निभः ॥

10.160

शङ्खचक्रगदापाणिः पीतवासा जनार्दनः
ईशस्य दक्षिणेभागे नाम्ना पद्मवती पुरी ॥

10.161

महापद्मोपविष्टस्य पद्ममालाधरस्य तु
पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः ॥

10.162

तस्या दक्षिणतो देवि नाम्ना कामसुखावती
अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्थितः ॥

10.163

उत्तरेत्वमरावत्या महामेघेति विश्रुता
विनायकानां सा दिव्या वसतिस्तत्र कल्पिता ॥

10.164

दशकोटिसहस्राणि वीर्यवन्तः शुभास्तथा
विनायका महादीप्ता अग्निज्वलिततेजसः ॥

10.165

असुराणां वधार्थाय अङ्गुष्ठान्निर्मिता मया
एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः ॥

10.166

पुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः
पुरकोटिसहस्रैस्तु सर्वास्ताः संभृताः प्रिये ॥

10.167

सर्वैश्वर्यसुसंपूर्णाः सर्वरत्नसमुज्ज्वलाः
दिव्यस्त्रीभिः समाकीर्णा दिव्यपुंभिः समाकुलाः ॥

10.168

आनन्दः सततं देवि देवानां च पुरे पुरे
विमाननगरारामैश् चतुरोद्यानमण्डपैः ॥

10.169

छत्रध्वजपताकाभिर् गजवाजिसमाकुलैः
द्वन्द्वभीनन्दिशब्दैश्च शङ्खकाहलनिःस्वनैः ॥

10.170

गीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा
इष्टापूर्तरता देवि ये नरा पुण्यभारते ॥

10.171

त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः
गङ्गातोयसुसंसिक्ताः क्रीडन्ति सुरसत्तमाः ॥

10.172

कथं गङ्गासमुत्पन्ना सुरसिद्धनमस्कृता
कथयस्व प्रसादेन समासात्सुरसत्तम ॥

10.173

गङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते
जगन्माता महादेवि मम पत्नी पुरा हि सा ॥

10.174

ममनेत्रोदकं चैव करजैश्छादिते मम
पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया ॥

10.175

मन्नेत्रेभ्यो ऽस्रवत्तोयं त्वदीयाङ्गुलिभिः प्रिये
दशधा निःसृता गङ्गा कपालावरणे मम ॥

10.176

सप्तैव संस्थितास्तत्र एका विष्णुपुरे स्थिता
द्वितीया ब्रह्मलोकोर्ध्वे तृतीया सत्यलोकगा ॥

10.177

स्वर्गे चैवपुनः सा वै संस्थिता सोममण्डले
सोमाच्चैव विनिः सृत्य पुरकाशे व्यवस्थिता ॥

10.178

ततो ऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः
गङ्गानदीं महापुण्यां मर्त्यानां हितकाम्यया ॥

10.179

अवतार्य महादेव मर्त्यलोकं विसर्जय
ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता ॥

10.180

लोकानां तु हितार्थाय आगच्छ सुरसुन्दरि
आगत्य मम मूर्धानं मेरुमूर्ध्नि पुनर्गता ॥

10.181

तस्मान्निर्गत्य देवेशि चतुर्दिक्षूदधिं गता
पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु ॥

10.182

सुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे
मन्दरस्तु महादेवि गन्धमादनसंज्ञकः ॥

10.183

विपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः
विष्कम्भाश्च समाख्याताः वर्णांश्चैव निबोध मे ॥

10.184

सितं चैव हरिद्राभं नीलं दाडिमसप्रभम्
प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनम् ॥

10.185

तत्रारुणोदकं नाम तडागं पद्ममण्डितम्
गन्धमादनसामीप्ये नन्दनं तु महावनम् ॥

10.186

तस्यमध्ये ऽम्बुजच्छन्नं मानसं तु सरोवरम्
विपुलस्य समीपे तु वैभ्राजं तु महावनम् ॥

10.187

सितोदं तस्य मध्ये तु तडागं विमलोदकम्
वनं पितृवनं नाम स्वपार्श्वस्य समीपतः ॥

10.188

तस्यान्तस्तु महाभद्रं तडागं च मनोरमम्
कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् ॥

10.189

मन्दरे ऽथ कदम्बं स्यान् मस्तके तु व्यवस्थितम्
सहस्रयोजनायामं शाखापञ्चशतोच्छ्रितम् ॥

10.190

पुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितम्
तत्प्रमाणा स्मृता जम्बूर् गन्धमादनमूर्धनि ॥

10.191

तस्याः फलसमूहोत्थो रसो ज्ञेयो ऽमृतोपमः
तेन जम्बूनदी जाता प्रिये वेगवती भृशम् ॥

10.192

मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकम्
तत्संपर्कात्समुत्पन्नं कनकं देवभूषणम् ॥

10.193

तेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमम्
तत्र वृक्षालतागुल्माः पक्षिणः श्वापदादयः ॥

10.194

जाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः
विपुले ऽपि तथाश्वत्थः केतुमाल इति श्रुतः ॥

10.195

तस्येन्द्रेणासुराञ्जित्वा रत्नमाला प्रलम्बिता
तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः ॥

10.196

न्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीर्तितः
अनेकगुणसंपन्नो मेरुः ख्यातः समासतः ॥

10.197

तत्पार्श्वस्थान्प्रिये देशान् काथयामि समासतः
मेरुमध्याच्चतुर्दिक्षु लक्षार्धं तु समासतः ॥

10.198

लवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः
पर्वतान्तरितास्तत्र नव भागा भवन्ति हि ॥

10.199

दक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः
निषधो हेमकूटश्च हिमवानिति ते त्रयः ॥

10.200

उत्तरे चापि मेरुस्तु नीलः श्वेतो ऽथ शृङ्गवान्
प्राक् पश्चिमायाता ह्येते षडेव तु महीधराः ॥

10.201

नीलश्च निषधश्चैव लक्षयामौ प्रकीर्तितौ
श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ ॥

10.202

हिमवान् शृङ्गवांश्चैव सहस्राशीतिरेव तु
लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः ॥

10.203

कैलासयुक्तो हिमवांस् त्रिशृङ्गश्च सजारुधिः
शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते ॥

10.204

नीलरत्नमयो नीलो निषधः पद्मरागभः
सौवर्णो हेमकूटश्च हिमाभो हिमवानिति ॥

10.205

पूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते
चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि ॥

10.206

याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः
तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः ॥

10.207

नीलश्च निषधश्चैव माल्यवान्गन्धमादनः
चत्वारिंशत्सहस्राणि योजनानां समुच्छ्रिताः ॥

10.208

चतुर्दिक्षु गतौ मेरोर् द्वौ द्वौ सीमान्तपर्वतौ
जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ ॥

10.209

कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ
निषधः पारियात्रश्च अपरेण महीधरौ ॥

10.210

जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ
मेरोः समन्ततो रम्यम् इलावृतमुदाहृतम् ॥

10.211

अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतम्
योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः ॥

10.212

नातपो भानुजस्तत्र न च सोमस्य रश्मयः
प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितम् ॥

10.213

प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः
जम्बूरसफलाहारा जरामृत्युविवर्जिताः ॥

10.214

त्रयोदशाब्दसाहस्रं तेषामायुः प्रकीर्तितम्
देवगन्धर्वसिद्धाश्च ऋषयो ऽथ विनायकाः ॥

10.215

गणमातृभगिन्यश्च वेताला राक्षसादयः
एवमाद्यैरसंख्यातैर् वृतं चैतदिलावृतम् ॥

10.216

गन्धमादनवारुण्यां समुद्रस्य च पूर्वतः
केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमम् ॥

10.217

नीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः
पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च ॥

10.218

जयन्तो वर्धमानश्च अशोको हरिपर्वतः
विशालः कम्बलः कृष्णस् तत्र सप्त कुलाद्रयः ॥

10.219

माल्यवत्पूर्वभागेन समुद्रस्यापरेण तु
वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः ॥

10.220

जनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः
कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा ॥

10.221

पद्मश्चैव समाख्यातास् तत्र पञ्च कुलाद्रयः
द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते ॥

10.222

चतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते
वर्षे द्वे तु समाख्याते कुरुवर्षनिवासिनः ॥

10.223

कुरवोनामलोकास्ते कुरुवृक्षफलाशिनः
त्रयोदशसहराणि जीवन्ति स्थिरयौवनाः ॥

10.224

युग्मं युग्मं प्रसूयन्ते वियोगभयवर्जिताः
श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः ॥

10.225

सर्वरत्नमयी भूमिर् हिमवालुकया चिता
नवयोजनसाहस्रं धन्वाकारं प्रकीर्तितम् ॥

10.226

सूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ
कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः ॥

10.227

तस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनम्
तस्यचोत्तरदिग्भागे प्रविश्य लवणोदधिम् ॥

10.228

पञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीर्तितम्
तथा वायव्यदिग्भागे प्रविश्य लवणोदधिम् ॥

10.229

योजनानां सहस्राणि चत्वार्येव वरानने
दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितम् ॥

10.230

भद्राकारमिति ज्ञेयं सर्वकामफलप्रदम्
अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः ॥

10.231

चन्द्राख्ये ऽप्ययुतं चायुर् जीवन्ति फलभोजिनः
श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयम् ॥

10.232

लकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः
जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश ॥

10.233

नीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे
रम्यकं नाम वर्षं तु न्यग्रोधफलभोजनाः ॥

10.234

नीलोत्पलदलश्यामा जरारोगविवर्जिताः
द्वादशाब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥

10.235

नवसाहस्रविस्तारं रम्यकं च हिरण्मयम्
हेमकूटस्य सौम्येन दक्षिणे निषधस्य तु ॥

10.236

हरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः
द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः ॥

10.237

अतीव शोभनं तच्च नवसाहस्रविस्तृतम्
हेमकूटस्य याम्येन हिमवतस्त्वथोत्तरे ॥

10.238

वर्षं किंपुरुषं नाम तत्रहेमनिभा जनाः
नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥

10.239

नवैव तु सहस्राणि विस्तारस्तत्र कीरितः
याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः ॥

10.240

भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतम्
जना रोगभयत्रस्ता दुःखिता मन्दसंपदः ॥

10.241

सुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे
भोगिनो मन्दभोगाश्च तथान्ये ऽत्यन्तदुःखिताः ॥

10.242

गौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः
वर्णजातिप्रभेदेन नानाकर्मानुरूपतः ॥

10.243

चतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये
स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च ॥

10.244

पण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा
योगिनो ज्ञानिनश्चैव धर्मिष्ठाः पापिनो ऽपरे ॥

10.245

याचकाश्चापि जायन्ते दातारश्चापरे जनाः
प्रेष्या दासाश्च बहवो मानवाः सततं प्रिये ॥

10.246

गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनम्
नष्टासु विद्यते काचिद् युगत्रयमयी स्थितिः ॥

10.247

चतुर्युगवती ज्ञेया भारताख्ये वरानने
तत्रैव यत्कृतं कर्म शुभं वा यदि वाशुभम् ॥

10.248

वसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः
महाकालस्तथैकाम्रम् एवमादि वरानने ॥

10.249

तीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया
गङ्गादीनां नदीनां च तत्र पञ्च शतानि च ॥

10.250

नवयोजनसाहस्रं धन्वाकारं निबोध तम्
नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये ॥

10.251

एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितम्
शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा ॥

10.252

परस्परमगम्यास्ते तेषां नामानि मे शृणु
इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमत् ॥

10.253

नागद्वीपं च सौम्यं च गान्धर्वं वारुणं तथा
द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितम् ॥

10.254

बिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितम्
योजनानां सहस्रं तु नानावर्णाश्रमान्वितम् ॥

10.255

ये पूर्वोक्ता गुणा लोके भारते वरवर्णिनि
ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये ॥

10.256

भूधराः सप्त विज्ञेयास् तत्रैव तु सुशोभनाः
महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ॥

10.257

विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः
दक्षसागरमध्यस्थान्य् उपद्वीपानि षट् प्रिये ॥

10.258

अङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकम्
कुमुदं च वराहं च इत्येवं परिकीर्तितम् ॥

10.259

कथितो मलयद्वीपे मलयो नाम पर्वतः
तस्यपादे त्रिकूटो वै लङ्का तस्योपरिस्थिता ॥

10.260

चामीकरमयी शुभ्रा चत्वारोद्यानमण्डिता
चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता ॥

10.261

अनन्तविभवास्तत्र राक्षसा देवकन्यकाः
रमन्ते कन्यकासक्ता महाबलपराक्रमाः ॥

10.262

अगस्त्यशिखरं तत्र मलये भूधरोत्तमे
तत्राश्रमो महापुण्य आगस्त्यः स्फाटिकप्रभः ॥

10.263

तत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः
न तत्र जायते मारी नाकालः संप्रवर्तते ॥

10.264

न जरा न च शोकश्च नोपसर्गभयं क्वचित्
न वदत्यनृतं कश्चिद् रागद्वेषौ न कुत्रचित् ॥

10.265

अगस्त्यस्य प्रभावेण त्व् अज्ञानं दूरतो गतम्
तत्र वै ऋषयो वीरा ज्ञानयोगकृताश्रमाः ॥

10.266

जपाध्ययन होमादि पूजास्तुतिपरायणाः
त्र्यम्बकस्य महादेवि नित्यमाराधने रताः ॥

10.267

अगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः
तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः ॥

10.268

लक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः
लक्षयोजनविस्तीर्णं लवणाम्भः स्थितं बहिः ॥

10.269

त्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति
वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः ॥

10.270

द्वादशैव महावीर्यास् तान्ब्रवीमि समासतः
वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः ॥

10.271

चन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु
अशोको ऽथ वराहश्च नन्दनश्च तृतीयकः ॥

10.272

अपरेण नगास्तत्र प्रविष्टा लवणोदधिम्
चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः ॥

10.273

दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः
चक्रमैनाकयोर्मध्ये तिष्ठेद्वे वडवामुखः ॥

10.274

जम्बूद्वीपं समाख्यातं प्रभवस्त्वधुनोच्यते
स्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः ॥

10.275

तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः
अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः ॥

10.276

ज्योतिष्मान् द्युतिमान् हव्यः सवनः सत्र एव च
मेधाः सत्रो ऽग्निबाहुश्च एते प्रव्रजितास्त्रयः ॥

10.277

सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः
जम्बुद्वीपे तथाग्नीध्राः तस्य पुत्रा नव स्मृताः ॥

10.278

नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः
भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः ॥

10.279

नवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः
अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः ॥

10.280

तेषां नामाङ्कितानीह नववर्षाणि पार्वति
नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः ॥

10.281

तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान्
तन्नम्नैव तु विज्ञेयं भारतं वर्षमुत्तमम् ॥

10.282

तस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये
भारते त्वष्टद्वीपे ऽत्र अष्टौ पुत्रा निवेशिताः ॥

10.283

नवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः
तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः ॥

10.284

जम्बुद्वीपं च शाकं च कुशं क्रौञ्चं च शाल्मलिम्
गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति ॥

10.285

अधुना संप्रवक्ष्यामि समुद्रांस्तव सुव्रते
क्षारः क्षीरं दधि घृतं तथा इक्षुरसो ऽपि च ॥

10.286

मदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः
जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः ॥

10.287

परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः
एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः ॥

10.288

अग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने
शाके मेधातिथिर्नाम वपुष्मान् कुशसंज्ञके ॥

10.289

राजा क्रौञ्चे ऽथ ज्योतिष्मान् शाल्मलौ द्युतिमान्स्मृतः
गोमेदे हव्यनामा तु सवनः पुष्करे तथा ॥

10.290

त्रेतायुगसमः कालः शाकगोमेदवासिनाम्
तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनाम् ॥

10.291

मेधातिथेः सप्त पुत्राः शाकद्वीपे ऽभिषेचिताः
शान्तो ऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः ॥

10.292

क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु ते ऽङ्किताः
वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे ॥

10.293

गोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा
सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः ॥

10.294

सुकृता चानसूया च सुमुखी च तृतीयका
विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका ॥

10.295

एता एव महानद्यो गिरिष्वेतेषु निर्गताः
पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरम् ॥

10.296

शाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः
चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः ॥

10.297

क्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः
कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः ॥

10.298

श्वेतलोहितजीमूता हरितो वैद्युतस्तथा
मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः ॥

10.299

कुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ
महिषः कुसुमश्चैव सप्त सीमन्तपर्वताः ॥

10.300

श्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी
वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः ॥

10.301

दध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः
जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः ॥

10.302

दिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः
ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः ॥

10.303

उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च
रथकारश्च लवणो धृतिमान्सुप्रभाकरः ॥

10.304

कपिलश्चेति राजानो वर्षनाम्ना च ते ऽङ्किताः
वैद्रुमो हेमनाभश्च द्युतिमान् पुष्पदन्तकः ॥

10.305

कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः
मही धाता शिवापापा पवित्रा संततद्युतिः ॥

10.306

दम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः
घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये ॥

10.307

जनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः
घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः ॥

10.308

क्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः
सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः ॥

10.309

मनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः
मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः ॥

10.310

वर्षनामानि तेषां वै सप्तानां सप्त तु क्रमात्
क्रौञ्चो ऽथ वामनश्चैवाप्य् अन्धकारो दिवाकृतिः ॥

10.311

द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः
पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती ॥

10.312

सन्ध्या रात्री च विख्याता समासात्परिकीर्तिताः
नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवम् ॥

10.313

पिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः
दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः ॥

10.314

नानानारीसमाकीर्णाः सर्वकामसुखोदयाः
हव्यराजः सुतान्सप्त गोमोदे चाभ्यषेचयत् ॥

10.315

जलदश्च कुमारश्च सुकुमारो मरीचकः
कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः ॥

10.316

तेषां नाम्ना च वर्षाणि अङ्कितानि स्वमानतः
उदयः केसरश्चैव जठरो ऽथ सुरैवतः ॥

10.317

श्यामो ऽम्बिकेयो मेरुश्च शैलाः सीमन्तगास्त्विमे
गभस्ती सुकुमारी च कुमारी नालिनी तथा ॥

10.318

वेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः
मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः ॥

10.319

अमृतोपमानि स्वादूनि फलान्यत्र वरानने
भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतम् ॥

10.320

सर्वकामसमृद्धाश्च सुरूपा व्याधिवर्जिताः
नानायुवतिवृन्दैश्च रूपयौवनगर्वितैः ॥

10.321

मदालसैः पानमत्तैर् अमन्ते सततं प्रिये
अतश्च पुष्कराख्ये च सवनस्तत्र नायकः ॥

10.322

द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ
पर्वतो वलयाकारो मानसोत्तरसंज्ञितः ॥

10.323

पञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविंशतिः
योजनानां वरारोहे सर्वरत्नसमन्वितः ॥

10.324

धातकी मध्यमे राजा महवीतो बहिर्नृपः
ईर्ष्यया रागतृष्णाभिर् ईतिभिश्च विवर्जिताः ॥

10.325

सर्वे ते सुखिनस्तत्र तस्मिन्वर्षद्वये जनाः
चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने ॥

10.326

चतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते
हरेर्वस्वेकसाराख्या याम्या संयमिनी पुरी ॥

10.327

सुखाह्वा वारुणी चैव सोमस्य तु विभावरी
पुष्करद्वीपगुणितः स्वादूदो ऽन्ते व्यवस्थितः ॥

10.328

पञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च
योजनानां तु लक्षाणि कोटिद्वितयमेव च ॥

10.329

मेर्वर्धाद्यावत्स्वादूदं प्रमाणं परिकीर्तितम्
ततो हेममयी भूमिर् दशकोट्यो वरानने ॥

10.330

देवानां क्रीडनार्थाय लोकालोकस्त्वतः परम्
पर्वतो वलयाकारो योजनायुतविस्तृतः ॥

10.331

लक्षमात्रसमुत्सेधो योजनानां वरानने
सर्वरत्नसमोपेतो हेमवर्णः प्रकीर्तितः ॥

10.332

तस्यान्तर्भासयेद्भानुर् न बहिः सुरसुन्दरि
लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः ॥

10.333

विरुजो वसुधामा च शंखपात् कर्दमस्तथा
हिरण्यरोमा पर्जन्यः केतुमान् भाजनस्तथा ॥

10.334

जाम्बूनदमये शुभ्रे सिद्धामरनिवेशने
पूर्वादारभ्य क्रमशो यावदीशानगोचरः ॥

10.335

लोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः
अस्य मध्ये वरारोहे योनयस्तु चतुर्दश ॥

10.336

चेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः
लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनम् ॥

10.337

तथोत्तरायणं तत्र उत्तरेण प्रकीर्तितम्
अर्धरात्रो ऽमरावत्याम् अस्तमेति यमस्य च ॥

10.338

मध्याह्नश्चैव वारुण्यां सौम्ये सूर्योदयः स्मृतः
यदैव चामरावत्याम् उदयस्तस्य दृश्यते ॥

10.339

तदास्तमेति वारुण्याम् इत्यादित्यगतागतम्
सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे ॥

10.340

पितृदेवपथोह्येष कथितस्तु मया तव
अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववर्जितम् ॥

10.341

पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाणेकोनविंशतिः
चत्वारिंशत्सहस्राणि योजनानां वरानने ॥

10.342

सप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः
ब्रह्मणो ऽण्डकटाहेन युक्ता वै मेरुमध्यतः ॥

10.343

पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः
एवमेतच्छतं ज्ञेयं कोटीनां पार्थिवं महत् ॥

10.344

अत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवर्णिनि
अथ वात्र महादेवि परिपाट्या समन्ततः ॥

10.345

दीक्षाकाले तु संस्काराः क्रमं तेषां निबोध मे
शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेत् ॥

10.346

तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमम्
अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमम् ॥

10.347

पातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः
उपस्थानं ततः कुर्याद् भुवर्लोकस्य वरानने ॥

10.348

ततो वागीश्वरी देवी संपूज्य कुसुमादिभिः
ततः पशुस्तु संप्रोक्ष्य स्ताड्यो विश्लेष्य एव च ॥

10.349

छेदनं च तथाकर्षो ग्रहणं योजनं ततः
गर्भधारित्वजनने अधिकारं तथैव च ॥

10.350

योगं भोगं लयं चैव ततो योनिविशोधनम्
चतुर्दश समासेन कथयाम्यनुपूर्वशः ॥

10.351

पैशाचं राक्षसं याक्षं गान्धर्वंत्वैन्द्रमेव च
सौम्यं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः ॥

10.352

संहारक्रमयोगेन शोधनीयाः शिवाध्वरे
पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः ॥

10.353

स्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकम्
देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम् ॥

10.354

चतुर्दशविधं चैव भूर्लोके तु विशोधयेत्
आत्मा संसरतिह्यत्र मायाद्यवनिगोचरे ॥

10.355

संसारः प्रोच्यते तस्मात् पर्यटेत्स यतस्ततः
सुखं दुःखं तथा मोहं भुङ्क्ते चैवाध्वमध्यगः ॥

10.356

बन्धत्रयसमायुक्तो वामशक्त्यात्वधिष्ठितः
ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि ॥

10.357

पुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः
अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः ॥

10.358

प्रधानगुणभेदेन यावच्चानाश्रितं पदम्
तस्मादेवं विजानीयात् अध्वा बन्धस्य कारणम् ॥

10.359

चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम्
तस्य भेदाह्यनन्ताश्च भिद्यन्ते कर्मभेदतः ॥

10.360

कर्मवल्ल्योह्यनन्ताश्च कर्मेशानादिकारकाः
आत्मना बध्यतेह्यात्मा मुञ्चेन्नात्मानमात्मना ॥

10.361

कोशकारो यथा कीट आत्मानं वेष्टयेद्दृढम्
नचोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा ॥

10.362

तथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः
न च मोचयितुं शक्ताः पशवः पाशबन्धनाः ॥

10.363

स्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः
शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनात् ॥

10.364

अन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलम्
यत्तत्स्वाभिजनं शुद्धम् अनौपम्यमनामयम् ॥

10.365

मोहिता मलमोहेन बद्धाः कर्मकलादिना
निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा ॥

10.366

उद्धृतस्तु यथा वह्निर् मन्थकस्य वशात्स्फुटम्
स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलम् ॥

10.367

अन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषाम्
प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः ॥

10.368

तथात्मा तु विजानाति यत्स्वरूपमनादिमत्
मन्थकस्य वशाद्देवि नान्यथा तु कथंचन ॥

10.369

मन्थकस्त्विह देवेशि स्वयमेव सदाशिवः
आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः ॥

10.370

मन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा
वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवत् ॥

10.371

आत्मा वै वह्निवज्ञेयो बोधकस्तु परः शिवः
उद्बोधितो यथा वह्निर् निर्मलो ऽतीव भास्वरः ॥

10.372

न भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः
मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः ॥

10.373

तत्रस्थो ऽपि न बध्येत यतो ऽतीव सुनिर्मलः
रसवह्निसमायोगात् ताम्रं कालिकया यथा ॥

10.374

विश्लेषितं तु तत्त्वज्ञैर् हेमत्वं प्रतिपद्यते
न भूयस्ताम्रतां याति तथात्मा न कदाचन ॥

10.375

रसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवत्
तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः ॥

10.376

आत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका
मन्त्रद्रव्यक्रियायोगाद् वह्न्याधारे तथा प्रिये ॥

10.377

गुरुणा तन्त्रविदुषा ह्य् आत्मा वै निर्मलीकृतः
न भूयो मलतां याति शिवत्वं याति निर्मलम् ॥

10.378

एवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा
शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा ॥

10.379

गुणभूतास्तु ये पाशास् ते ऽपि शुद्ध्यन्ति तद्वशात्
चतुर्दशविधं चैव यदुक्तं तु मया पुरा ॥

10.380

संसारमण्डलं देवि शोद्ध्यं तदवनीतले
तद्वक्ष्यामि क्रमात्सर्वं यथा शोध्यं शिवाध्वरे ॥

10.381

ब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेत्
ब्राह्मं चैव तु प्राजेशं सौम्यमैन्द्रं तथैव च ॥

10.382

गान्धर्वं चापरं याक्षं राक्षसं च तथापरम्
पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा ॥

10.383

सप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा
पक्षिणां गरुडं चैव मृगाणां सिंहमेव च ॥

10.384

पशूनां चैव गोयोनिं मनुष्यांश्च विशोधयेत्
अन्त्यजाञ्छूद्रविट् क्षत्र ब्राह्मणांश्च विशोधयेत् ॥

10.385

पञ्चभिर्ब्रह्मभिर्देवित् वधिकारान्विशोधयेत्
दशाहुतिप्रयोगेण अन्त्यजान् ब्राह्मणावधि ॥

10.386

ब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च
गर्भः पुंसवनं चैव सीमन्तो जातकर्म च ॥

10.387

नाम निष्क्रमणं चैव अन्नप्राशनचूडकम्
अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीर्तिताः ॥

10.388

एतैर्निवर्तितैर्देवि ततो ऽसौ जायते द्विजः
नवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः ॥

10.389

अङ्गानि संप्रवक्ष्यामि यथावदनुपूर्वशः
मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा ॥

10.390

संध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः
नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने ॥

10.391

भौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा
उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः ॥

10.392

सप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणाम्
चर्याव्रतानि बोध्यानि अङ्गत्वे कीर्तितानि तु ॥

10.393

एभिस्तु सहितं ह्येकं नवमं व्रतबन्धनम्
तस्यान्तर्भूतमेवैतत् कथितं व्रतसप्तकम् ॥

10.394

चतुर्दश व्रतान्येवं होतव्यानि वरानने
वेदव्रतानि चत्वारि होतव्यानि न संशयः ॥

10.395

ऐष्टिकं पार्विकं चैव भौतिकं सौमिकं तथा
व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः ॥

10.396

त्रयोदशविजानीयात् ततो वै वेदभाजनम्
ततो भवति गोदानं तच्चतुर्दशकं प्रिये ॥

10.397

स्नात उद्वाहयेद्भार्यां ज्ञानसिद्धः कुमारिकाम्
कृत्वा दर्भमयीं पत्नीं तया सह यजेत्क्रतून् ॥

10.398

तज्ज्ञेयं पञ्चदशमं ततः पाकमखाः क्रमात्
नैमित्तिकांश तानाहुः प्रवक्ष्यम्यनुपूर्वशः ॥

10.399

अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा
चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमात् ॥

10.400

एतैः सह विजानीयाद् द्वाविंशत्परिसंख्यया
आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परम् ॥

10.401

पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च
पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परम् ॥

10.402

हविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये
एभिः सह विजानीयात् संस्कारैकोनत्रिंशकम् ॥

10.403

अग्निष्टोमात्यग्निष्टोमौ उक्थः षोडशिका तथा
वाजपेयो ऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः ॥

10.404

सोमसंस्थाः समाख्याताः षट्त्रिंशत्परिसंख्यया
हिरण्यपादः प्रथमस् तथा गुह्यहिरण्यधृत् ॥

10.405

हिरण्यमेढ्रो हिरण्यनाभिर् हिरण्यगर्भ एव च
हिरण्यश्रोत्रो हिरण्यत्वग् घिरण्याक्षस्तथैव च ॥

10.406

हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः
शतेन तु घृतं चात्र एकैकं तु विजायते ॥

10.407

एते सर्वे सहस्रेण शुद्ध्यन्ते सप्तत्रिंशकः
अश्वमेधं ततः पश्चाज् जुहुयात्तु यथाक्रमम् ॥

10.408

एवं कृतैस्तु तैः सर्वैस् ततश्चैव गृही भवेत्
अष्टात्रिंशत्तमं तं तु वानप्रस्थं ततो भवेत् ॥

10.409

पारिव्राज्यं ततो ऽन्तेष्टिम् एवं ब्राह्मण्यमाप्नुयात्
अत आत्मगुणानष्टौ कथयामि समासतः ॥

10.410

दया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता
शौचं चैवमनायासो मङ्गलं चाप्यतः परम् ॥

10.411

अकार्पण्यं चास्पृहा चेत्य् अष्टावात्मगुणाः स्मृताः
चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः ॥

10.412

एतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या ये ऽपि सुव्रते
अतो ऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः ॥

10.413

पञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमात्
तिलैर्घृतेन वातांश्च ऊर्ध्वे तु विनियोजयेत् ॥

10.414

ऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीर्तितम्
तस्मिन् संयोजनं कार्यं नचान्यत्र विधीयते ॥

10.415

तस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचित्
यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेत् ॥

10.416

ततो ऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमात्
पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः ॥

10.417

ऊर्ध्वशब्देन तज्ञेयं यद्भूर्लोकं समाश्रितम्
तस्मिन्युक्तस्य कर्तव्यं नचान्यस्मिन्कदाचन ॥

10.418

अनुद्धृते कथं योगः यावत् कर्म न भुज्यते
तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना ॥

10.419

निवर्त्यते महादेवि निष्कृतिं जुहुयात्ततः
शिवेनाष्टशताहुत्या ततस्तु भुवनाधिपान् ॥

10.420

भुवनान्तर्निवासांश्च भुवनानां यथाक्रमम्
होमेनैव तु संशोध्य विश्लेषं छेदनं तथा ॥

10.421

पूर्णं चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमात्
प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः ॥

10.422

एवमादिक्रमेणैव धामान्तं च विशोधयेत्
भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे ॥

10.423

भूपृष्ठद्यावदादित्यं लक्षमेकं प्रमाणतः
दश वायुपथा मध्ये त्व् अयुतायुतसंख्यया ॥

10.424

आद्ये वायुपथे मेघान् कथयामि यथास्थितान्
पञ्चाशद्योजनादूर्ध्वम् ऋतर्द्धिर्नाम मारुतः ॥

10.425

यो विवर्धयते पुष्टिम् ओषधीनां बलं तथा
बृंहयेच्च महीं सर्वाम् आप्याययति चाव्ययः ॥

10.426

दिवा हंसः स वै वायुर् मनुजानां सुखावहः
यतो गृद्ध्रान्धारयति तेन गृद्ध्रधरः स्मृतः ॥

10.427

प्राचेतसो नाम वायुः प्रचेतोभिविनिर्मितः
स वै नाशयते वृक्षान् कदाचित्संप्रवर्तयेत् ॥

10.428

अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति
यदा दहति वेश्मानि तदासौ समुदाहृतः ॥

10.429

सुखी समुद्रे वसति स जलान्नोपशाम्यति
योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते ॥

10.430

विद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते
ते भुवः क्रोशमात्रेण तिष्ठन्तो ऽपसृजन्त्यपः ॥

10.431

योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः
मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुर्दिने ॥

10.432

योजनानां शतादूर्ध्वं वायुरोघः प्रकीर्तितः
तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकम् ॥

10.433

तेनोपसर्गा जायन्ते मारकाः सर्वदेहिनाम्
तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुत् ॥

10.434

तस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः
वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः ॥

10.435

तस्मिंस्तूपलका नाम मेघास्तूपलवर्षिणः
तावद्भिर्योजनैरेव ततो वै वैद्युतो ऽनिलः ॥

10.436

मेघाश्च वैद्युतास्तस्मिन् निवसन्ति तु वैद्युते
अशनिर्वायुसंक्षोभात् तेष्वसौ जायते महान् ॥

10.437

तदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः
तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनाम् ॥

10.438

संवर्ते रोगदा मेघास् ते रोगोदकवर्षिणः
पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः ॥

10.439

विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः
तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः ॥

10.440

ते क्रोधरागबहुलं संग्रामबहुलं तथा
राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा ॥

10.441

वर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः
अघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा ॥

10.442

संवर्तश्च विषावर्तो वायवो घोरवेगिनः
अघो वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः ॥

10.443

त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः
ते वै दिव्यैश्च कुसुमैर् अर्चयन्ति हरात्मजम् ॥

10.444

अमोघे विनायका घोरा महादेवसमुद्भवाः
त्रिंशत्कोटिसहस्राणि तस्मिन् वायौ प्रतिष्ठिताः ॥

10.445

ये हरन्ति कृतं कर्म नराणामकृतात्मनाम्
वज्राङ्गे ऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः ॥

10.446

भिन्नाञ्जननिभा घोरास् तापना नाम विश्रुताः
विद्याधराणामधमा मनः पवनगामिनः ॥

10.447

ये विद्यापौरुषे ये च वैतालादीञ्श्मशानतः
साधयित्वा ततः सिद्धास् ते ऽस्मिन् वायौ प्रतिष्ठिताः ॥

10.448

वैद्युते ऽप्सरसस्तस्मिन् वासवेन प्रयोजिताः
तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने ॥

10.449

भृगो वह्नौ जले वापि संग्रामेष्वनिवर्तकाः
गोग्रहे बन्दिमोक्षे वा म्रियन्ते पुरुषोत्तमाः ॥

10.450

ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः
पताकादीर्घिकाकीर्णैर् दिव्यघण्टानिनादितैः ॥

10.451

स्त्रीसहस्रपरीवारैर् विमानैस्तान्नयन्ति ताः
रैवते तु महात्मानः सिद्धा वै संप्रतिष्ठिताः ॥

10.452

गोरोचनाञ्जने भस्म पादुके अजिनादि च
साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः ॥

10.453

ते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः
संवर्ते ऽपि महावायौ विद्याधरगणाः स्मृताः ॥

10.454

दश त्रिंशच्च कोट्यस्ते दिव्याभरण भूषिताः
दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः ॥

10.455

आग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः
विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः ॥

10.456

तत्र गन्धर्वकुशला गन्धर्वसहधर्मिणः
वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः ॥

10.457

ब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससंभवाः
उपरिष्टाद्योजनशताद् दुर्जयस्योपरि स्थिताः ॥

10.458

तत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः
परावहाभिधं वायुं ते समाश्रित्य संस्थिताः ॥

10.459

महावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः
पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः ॥

10.460

शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनाम्
परावहस्तान्वहति मनुजानिव वारणः ॥

10.461

तस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः
एकादश तु वै कोट्यस् तेषां तु समुदाहृताः ॥

10.462

जीमूता नाम ये मेघा देवेभ्यो जीवसंभवाः
द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः ॥

10.463

तस्मिञ्जीमूतका नाम विद्याधरगणा दश
आवहस्तु ततो वायुर् यत्र द्रोणाः समाश्रिताः ॥

10.464

तस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः
हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा ॥

10.465

उपरिष्टात्कपालोत्थाः संवर्तानाम वै घनाः
महापरिवहो नाम वायुस्तेषां समाश्रयः ॥

10.466

आद्ये वायुपथेह्येवं मेघा वै वायुभिः सह
सिद्धाश्च पतयश्चैव कथिता मेघचारिणः ॥

10.467

द्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः
ता वसन्ति गुणोपेता रुद्रशक्त्यात्वधिष्ठिताः ॥

10.468

तृतीये वायुपथे चैव वसन्ते सिद्धचारणाः
स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः ॥

10.469

चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः
नाराचचक्रचापर्ष्टि शूलशक्तीषुमुद्गराः ॥

10.470

पञ्चमे पथि देवेशि वसन्त्यैरावतादयः
ऐरावतो ऽञ्जनश्चैव वामनश्च महागजः ॥

10.471

सुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च
कुमुदः पुण्डरीकश्च सार्वभौमो ऽपि चाष्टमः ॥

10.472

दिग्गजा इति विख्याताः स्वसु दिक्षु व्यवस्थिताः
षष्ठे वायुपथे देवि पक्षिराजो महाबलः ॥

10.473

गरुत्मानिति विख्यातो दुर्जयो ऽतीव वीर्यवान्
सप्तमे व्योमगङ्गा तु नानाजलचरानुगा ॥

10.474

दिव्यामृतजला पुण्या त्रिधा सा परिकीर्तिता
सा भ्रान्ता नभसो मध्ये समन्तात्परिमण्डला ॥

10.475

आकाशगङ्गा प्रथिता देवानां सततोत्सवा
पुष्पमालेव सा भाति नभसः शिरसि स्थिता ॥

10.476

तत्र सिद्धैर्महाभागैर् विद्याधरगणैस्तथा
गन्धर्वैरप्सरोभिश्च साध्यैर्विश्वैर्मरुद्गणैः ॥

10.477

रुद्रैर्वसुभिरादित्यैः पितृदेवमहर्षिभिः
रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः ॥

10.478

स्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः
नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः ॥

10.479

भेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः
वंशवादित्रनादैश्च मनोवायुसमीरितैः ॥

10.480

वैदूर्यनालैः कमलैर् हेमपत्रैः सुगन्धिभिः
केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः ॥

10.481

नृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता
मण्डिता च वनैर्दिव्यैर् धर्माधारा महानदी ॥

10.482

मम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा
महामन्दाकिनी देवी त्रिदशैः पर्युपासिता ॥

10.483

महाविमानकोटीभिर् निरन्तरमवस्थितैः
शोभितासौ भगवती नित्यमास्ते नभस्तले ॥

10.484

तत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता
पपात धरणीपृष्ठे लोकानां हितकाम्यया ॥

10.485

अक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता
योजनानां शतं पूर्णं विस्तारो ऽस्याः प्रकीर्तितः ॥

10.486

परिणाहस्ततः कोट्यः महावेगवती शुभा
सा भ्रमन्तीव संतिष्ठेत् समन्तात्परिमण्डला ॥

10.487

ध्रुवमापूर्य सा देवी त्व् अत्यद्भुतमवस्थिता
दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी ॥

10.488

अष्टमे वृषराजस्तु सपत्नीकः सनन्दनः
वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः ॥

10.489

नवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः
ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः ॥

10.490

दशमे वायुपथे देवि वसुरुद्रदिवाकराः
अत्र चाङ्गारकः सर्पिर् नैरृतः सदसत्पतिः ॥

10.491

बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा
अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा ॥

10.492

एकादश स्मृता रुद्राः सर्वकामफलोदयाः
धाता ध्रुवश्च सोमश्च वरुणश्चानिलो ऽनलः ॥

10.493

प्रत्यूषश्च प्रदोषश्च वसवो ऽष्टौ प्रकीर्तिताः
वसवः कथिताह्येते आदित्यांश्च निबोध मे ॥

10.494

अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान्
मित्रश्चैव समाख्यातस् त्व् अजघन्यो जघन्यकः ॥

10.495

विवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः
काश्यपेयान्विदुस्त्वेतान् तेषां तेजोनिधेरथ ॥

10.496

अमृतोद्भवो ऽर्थो दिव्यः सर्वदेवसमन्वितः
यज्ञश्चक्रं रथे तस्मिन् सर्वज्ञानमयी च धूः ॥

10.497

सप्ताश्वाश्च स्वराः सप्त वेदहूंकारनिःस्वनाः
नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः ॥

10.498

सत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु
नवयोजनसाहस्रो विग्रहो भास्करस्य तु ॥

10.499

त्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरम्
ज्ञानशक्तिः पराह्येषा तपत्यादित्यविग्रहा ॥

10.500

मासवारप्रयोगेण संचरन्ति शिवेच्छया
अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः ॥

10.501

ततः सोमस्तु लक्षेण आदित्योपरिसंस्थितः
आप्याययञ्जगत्सर्वं सुधाधाराप्रवर्षणैः ॥

10.502

चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु
इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥

10.503

लक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः
लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः ॥

10.504

सुराचार्यो ऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः
तस्योर्ध्वे ऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः ॥

10.505

तस्योपरि द्विलक्षेण सौरिः सर्पति लीलया
लक्षमात्रेण तु ऋषीन् कथयामि समासतः ॥

10.506

अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः
भृग्वङ्गिरामरीचिश्च ऋषयः संप्रकीर्तिताः ॥

10.507

यमनियमतोह्येते शापानुग्रहकारकाः
भीताश्च परपीडायाः शूराः शास्त्रविचारणे ॥

10.508

ज्ञानखड्गोद्यताः सर्वे त्व् अज्ञानपटलापहाः
मन्त्रयोगक्रियाचार्या संनद्धा दुरतिक्रमाः ॥

10.509

योगैश्वर्यगुणोपेताः शिवाराधनतत्पराः
तेभ्यो लक्षाध्रुवो देवि तारकाः स चतुर्दश ॥

10.510

शरीरं घटितं ताभिर् ध्रुवस्य वरवर्णिनि
ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः ॥

10.511

तस्यज्योतिर्गणो देवि निबद्धोभ्रमते सदा
निश्चलः स तु विज्ञेयः शिवशक्त्यात्वधिष्ठितः ॥

10.512

दशपञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलात्
वायुस्कन्धान्स्थितांस्त्वत्र कथयामि समासतः ॥

10.513

आमेघाद्भास्करात्सोमान् नक्षत्राद्ग्रहमण्डलात्
ऋषिसप्तकनिर्देशाद् आध्रुवान्तं च सप्तमः ॥

10.514

आदित्यादिघ्रुवान्तश्च स्वर्लोकः परिकीर्तितः
अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः ॥

10.515

ऋषिदेवैः सगन्धर्वैर् वृतश्चाप्सरसां गणैः
अग्निहोत्रं क्रतून्वापि कृत्वा ज्ञानविवर्जिताः ॥

10.516

स्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषम्
स्वर्लोकस्योपरिस्टात्तु द्वे कोटी योजनानि तु ॥

10.517

पञ्चाशीतिश्च लक्षाणि महर्लोको वरानने
ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै ॥

10.518

कोट्यष्टकं महादेवि योजनानां वरानने
महर्लोकोपरिष्टात्तु जनलोकोव्यवस्थितः ॥

10.519

एकपादो ऽथ जह्नुश्च कपिलश्चासुरिस्तथा
भौतिको वाड्वलिश्चैव जनलोकनिवासिनः ॥

10.520

द्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये
तपोलोकः समाख्यात ऋषियोगेश्वराकुलः ॥

10.521

सनकश्चसनन्दश्च सनत्कुमारः सनन्दनः
शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः ॥

10.522

पद्माः षट्पञ्चपञ्चाशत् कोट्यो लक्षाणि विंशतिः
भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने ॥

10.523

इयं संख्या समाख्याता भुवनानां वरानने
कोट्यः षोडशमानेन तपोलोकोर्ध्वतः प्रिये ॥

10.524

सत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः
क्रीडते भगवान्देवो वृत आत्मसमैर्द्विजैः ॥

10.525

कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः
आनन्दपदसंप्राप्ता आनन्दपदमागताः ॥

10.526

ऋग्वेदोमूर्तिमांस्तस्मिन्न् इन्द्रनीलसमद्युतिः
दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः ॥

10.527

संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा
उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः ॥

10.528

दिव्यकुण्डलधारी च महाकायोमहाभुजः
स्थितः पश्चिमदिग्भागे सामवेदः सनातनः ॥

10.529

रक्ताम्बरधरः श्रीमान् पद्मरागसमप्रभः
स्रग्दामधारकश्चित्रम् आलाभूषणभूषितः ॥

10.530

अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा
पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥

10.531

षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु
वेदोपनिषदश्चैव मीमांसारण्यकं तथा ॥

10.532

स्वाहाकारवषट्कारौ रहस्यानि तथैव च
गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः ॥

10.533

भोगस्थानं ब्रह्मणः स्यात् परं ब्रह्म ततो व्रजेत्
कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये ॥

10.534

ब्रह्मासनमितिख्यातं जपासिन्दूरसप्रभम्
रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः ॥

10.535

चतुर्मुखश्चतुर्वेदश् चतुर्युगवशानुगः
ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः ॥

10.536

ऐश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः
धर्मादिफलसंबन्ध प्रदाता च युगे युगे ॥

10.537

तिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह
स्रष्टा च सर्वभूतानां सदेवासुरमानुषे ॥

10.538

कोटिद्वयं तदूर्ध्वे तु योजनानां वरानने
नीलेन्दीवरसंकाशा इन्द्रनीलसमप्रभा ॥

10.539

ब्रह्मलोकात्परत्वेन विष्णोश्चैव पुरीस्मृता
सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला ॥

10.540

मरकतस्तम्भसोपाना नीलध्वजसमाकुला
घण्टावितानविस्तीर्णा चारुचामरशोभिता ॥

10.541

नीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता
कामकार्मुकनिर्घोष वित्रस्तमृगलोचनैः ॥

10.542

नूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः
मनोभवशरायास निपातशतजर्जरैः ॥

10.543

सुघूर्णितमदायास विलोलधवलेक्षणैः
संसेव्यते स भगवान् विष्णुः कमललोचनः ॥

10.544

इन्द्रनीलसमाकारो निलोत्पलदलप्रभः
चतुर्भुजो महाकायः पीनवक्षा गदाधरः ॥

10.545

किरीटीकुण्डलीशङ्खी प्रजापालनतत्परः
संसेव्यते स भगवान् निकायैरात्मविक्रमैः ॥

10.546

विष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः
ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः ॥

10.547

सप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः
शुद्धस्फटिकसंकाशश् चत्वरोद्यानमण्डितः ॥

10.548

सहस्रभूमिकाभिश्च हर्म्यमालाभिरूर्जितः
विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः ॥

10.549

वनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः
मारुताःसुखसंस्पर्शा वर्तिकर्पूरगन्धयः ॥

10.550

नदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः
वरेण्यावरदाचैव वरिष्ठा वरवर्णिनी ॥

10.551

वसिष्ठा च वराहा च वरारोहा च सप्तमी
गङ्गाह्येताः समाख्याता रुद्रलोकवहाः सदा ॥

10.552

लक्षपत्रदलाढ्यैश्च सितपद्मैर्विभूषिताः
इन्द्रनीलनिभैर्नालैर् योजनायतगन्धिभिः ॥

10.553

स्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः
शरदिन्दुनिभानार्यो नवनीतसुकोमलाः ॥

10.554

सुभ्रूललाटवदनाः कृशोदर्यो मदालसाः
अलिपुञ्जनिभैः केशैर् मृगामोदसुगन्धिभिः ॥

10.555

प्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः
दाडिमीपुष्पसंकाशैर् ओष्ठैरुत्पलगन्धिभिः ॥

10.556

रम्भानिभाभिर्जङ्घाभिर् बाहुभिर्बिसकोमलैः
अशोकपल्लवाकारैः पादैः पद्मदलोपमैः ॥

10.557

नखैश्च केतकीप्रख्यैर् दशनैर्मौक्तिकोज्ज्वलैः
स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतम् ॥

10.558

हारकेयूरकटकैः सीमन्तमणिजालकैः
काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिताः सदा ॥

10.559

तारकुम्भनिभाकारैर् उन्नतैश्च पयोधरैः
सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः ॥

10.560

गुरुश्रेणीभराक्रान्ता मुक्तावलिविराजिताः
राजहंसगतिस्पर्धि मत्तमातङ्गविभ्रमाः ॥

10.561

नूपुरारावमुखर प्रस्खलन्मृदुविक्रमाः
हास्यलास्यविलासाढ्य भ्रूभङ्गतरलेक्षणाः ॥

10.562

ह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनाम्
कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः ॥

10.563

परिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान्
यद्यप्येवंविधानार्यः निजभर्तृभयातुराः ॥

10.564

वित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः
अवगूह्य च सर्वाङ्गैर् आपीय वदनैर्मुखम् ॥

10.565

क्रीडन्तिरुद्रभवने रुद्रकन्याः सरुद्रकाः
रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः ॥

10.566

मुकुटैः कुण्डलैश्चित्रैर् महारत्नसमुज्ज्वलैः
केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः ॥

10.567

मुक्ताफलावलीहारैर् ब्रह्मसूत्रोत्तरीयकैः
महाकाया महोरस्कास् त्रिनेत्राः शूलपाणयः ॥

10.568

चन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः
सुरसिद्धनुताःसर्वे सुप्रसन्न वरप्रदाः ॥

10.569

हरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः
न तत्र मृत्युर्न जरा न शोको ऽस्ति वियोगजः ॥

10.570

क्रीडन्तिसार्धंकन्याभिः संसारभयवर्जिताः
अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः ॥

10.571

श्रीकण्ठस्येच्छया सर्वे शिवंयान्तितनुक्षये
गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि ॥

10.572

एवंविधैरसंख्यातैर् विमानरथगामिभिः
महावृषगजारूढैः सिंहवाजिसुवाहनैः ॥

10.573

लक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतम्
तन्मध्येसर्वतोभद्रं सिंहद्वारैः सुतोरणैः ॥

10.574

स्वच्छमौक्तिकसंकाश प्राकारशिखरावृतम्
नन्दीश्वरमहाकाल द्वारपालगणैर्वृतम् ॥

10.575

किंकिणीजालमुखरैः पताकाध्वजसंकुलैः
वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः ॥

10.576

घण्टाचामरशोभाड्यं दर्पणैश्चोपशोभितम्
कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः ॥

10.577

रचितैश्चित्रशास्त्रज्ञैर् अत्नचूर्णसमुज्ज्वलैः
स्वस्तिकैः पत्रवल्याढ्यैश् चित्रितं भुवनाजिरम् ॥

10.578

शतसिंहासनाकीर्णं वेदिकारत्नभूषितम्
गोपुराट्टालरथकैर् वीथीभिश्च भ्रमान्त्रकैः ॥

10.579

सर्वरत्नविचित्राढ्यैर् द्वारबद्धैः सुशोभनम्
निर्गमैःसुगवाक्षैश्च विटङ्कैःस्फटिकप्रभैः ॥

10.580

स्तम्भैःसोपानबद्धैश्च वज्रवैडूर्यसप्रभैः
पूर्णचन्द्रनिभाकारैर् अण्डैः शिखरमण्डितैः ॥

10.581

मुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः
नाट्यशालैः सुशोभाढ्यैर् नृत्तगीतरवाकुलैः ॥

10.582

मण्डपैरत्नचित्राढ्यैः सभामण्डलनिर्भरैः
आसीनैरुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः ॥

10.583

मत्तवारणकै रम्यैश् चन्द्रशालासुशोभनैः
धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितम् ॥

10.584

चित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलम्
तूर्यशब्दजयध्वान काहलाकूजितेन च ॥

10.585

वंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः
पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च ॥

10.586

दुन्दुभीनादशब्देन मुरजस्फालनेन च
करस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः ॥

10.587

गर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिःस्वनैः
वन्दिनांस्तोत्रशब्देन सामवेदरवेण च ॥

10.588

हुडुङ्काराट्टहासैश्च गेयझंकारयोजितैः
वृषनन्दितशब्देन गजवाजिरवेण च ॥

10.589

काञ्चीनूपुरशब्देन नदतीव महत्पुरम्
सर्वसंपत्करं श्रीमच् छङ्करस्य तु मन्दिरम् ॥

10.590

अत्रासौभगवान्रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः
गङ्गायास्नपितोनित्यं दिव्यवस्त्राम्बरच्छदः ॥

10.591

पृथिव्यागन्धलिप्ताङ्गः श्रियापुष्पैः सुपूजितः
सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः ॥

10.592

पूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः
गङ्गातूत्तरिकाच्छत्रे सर्वादित्याश्च दीपकाः ॥

10.593

पुष्पदन्तगणेशाद्यैर् आसनं तस्य संवृतम्
कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा ॥

10.594

विक्रमश्चदृढश्चैव निष्कम्पो निष्कलस्तथा
अष्टौ ते हरयःप्रोक्तास् त्रिनेत्रा भूरिविक्रमाः ॥

10.595

सिंहरूपाःसुतेजस्काः सटाविकटभास्वराः
शक्तिरूपधरैर्मन्त्रैर् योगैश्वर्यसमन्वितैः ॥

10.596

आसनंविवृतंतैस्तु महोत्साहैर्बलोत्कटैः
तत्रभद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः ॥

10.597

सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः
त्र्यक्षोदशभुजोदेवो जटामुकुटमण्डितः ॥

10.598

पीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः
बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः ॥

10.599

वरदाभयपाणिश्च सर्वायुधधरस्तथा
शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः ॥

10.600

चन्द्रबिम्बनखाभाभिर् अङ्गुलीभिरलंकृतैः
सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः ॥

10.601

पूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः
चामरव्यजनोक्षेपै रुद्रस्त्रीभिः समन्ततः ॥

10.602

वीजतस्तु सदा श्रीमांश् चन्द्रकोटिसमप्रभः
ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः ॥

10.603

ध्यातो वै योगिभिर्नित्यं प्रसन्नवदनेक्षणः
प्रहसन्स इवाभाति निर्मलज्ञानरश्मिभिः ॥

10.604

अज्ञानतिमिरं हत्वा दर्शयेत्परमं वपुः
सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः ॥

10.605

तस्योत्सङ्गगता देवी तप्तकाञ्चनसुप्रभा
पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥

10.606

सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका ॥

10.607

देवस्याभिमुखी नित्यम् उमा तु ललितेक्षणा
शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा ॥

10.608

ब्रह्माण्डे सृष्टिसंहारौ करोति च शिवेच्छया
दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥

10.609

ते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहम्
जरामरणनिर्मुक्ता व्याधिशोकविवर्जिताः ॥

10.610

नाधोयान्ति पुनर्देवि संसारे दुःखसागरे
शिवंयान्ति ततश्चोर्ध्वं श्रीकण्ठेनसमीक्षिताः ॥

10.611

रुद्रलोकः समाख्यातस् ततश्चोर्ध्वमुमे शृणु
उत्तरोत्तरवृद्ध्या च भुवनं भुवनंस्थितम् ॥

10.612

ब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्यचोर्ध्वतः
दण्डपाणेः पुरंज्ञेयं नानारुद्रगणावृतम् ॥

10.613

दण्डपाणिस्तु भगवान् योगैश्वर्यबलान्वितः
दण्डः पाणितलेनैव धृतोयेन शिवेच्छया ॥

10.614

विवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुर्भिदम्
विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया ॥

10.615

सप्तलोकेषु ये रुद्रा कथयामि समासतः
शर्वोरुद्रस्तथा भीमो भव उग्रस्तथैव च ॥

10.616

महादेवस्तथेशानो रुद्रलोकाधिपस्त्वमी
ब्रह्मलोकेस्थितोब्रह्मा विष्णुर्वै वैष्णवे पुरे ॥

10.617

रुद्रलोकेस्थितोरुद्रः सर्वेषां नायकः स्मृतः
कालाग्नेर् दण्डपाण्यन्तम् अष्टानवतिकोटयः ॥

10.618

योजनानांवरारोहे त्व् अध्वायमुपवर्णितः
कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने ॥

10.619

कोटियोजनमानेन घनाकारेणसंस्थितः
पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने ॥

10.620

पञ्चाशच्च अधोज्ञेया योजनानां समन्ततः
एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते ॥

10.621

शतरुद्रावधिज्ञेयं सौवर्णं परिवर्तुलम्
वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि ॥

10.622

हुंफट्कारप्रयोगेण भेदयेत्तु वरानने
शतरुद्रानतो वक्ष्ये समासेन कृशोदरि ॥

10.623

दश दशक्रमेणैव दशदिक्षु समन्ततः
पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः ॥

10.624

कपालीशोह्यजोबध्नो वज्रदेहः प्रमर्दनः
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥

10.625

इन्द्रस्यबलमाक्रम्य प्रभुशक्तिसमन्विताः
विचरन्तिमहादेवा इन्द्रेण च सुपूजिताः ॥

10.626

अग्निरुद्रोहुताशी च पिङ्गलः खादको हरः
ज्वलनोदहनोबभ्रुर् भस्मान्तकक्षयान्तकौ ॥

10.627

अग्नेर्बलंसमाक्रम्य प्रभुशक्तिसमन्विताः
विचरन्तिमहादेवा अग्निराजसुपूजिताः ॥

10.628

याम्योमृत्युर्हरोधाता विधाताकर्तृसंज्ञकः
संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥

10.629

यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः
विचरन्तिमहादेवा यमराजसुपूजिताः ॥

10.630

नैरृतोमरुतोहन्ता क्रूरदृष्टिर्भयानकः
ऊर्ध्वकेशोविरूपाक्षो धूमलोहितदंष्ट्रकौ ॥

10.631

नैरृतंबलमाक्रम्य प्रभुशक्तिसमन्विताः
विचरन्तिमहादेवा नैरृतेन्द्रसुपूजिताः ॥

10.632

बलोह्यतिबलश्चैव पाशहस्तो महाबलः
श्वेतो ऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥

10.633

मेघनादी सुनादी च समासात्परिकीर्तिताः
वारुणंबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥

10.634

विचरन्तिमहादेवा वरुणेन्द्रसुपूजिताः
शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥

10.635

पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः
वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥

10.636

विचरन्तिमहादेवा वायुराजसुपूजिताः
निधीशोरूपवान्धन्यः सौ,यदेहो जटाधरः ॥

10.637

लक्ष्मीरत्नधरःकामी प्रसादश्च प्रभासकः
सौम्यस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥

10.638

विचरन्तिमहादेवाः सोमराजसुपूजिताः
विद्याधिपो ऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः ॥

10.639

शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिःप्रियः
ईशानानुमता देवाश् चेष्टन्ते सुरपूजिताः ॥

10.640

विचरन्तिमहादेवा ईशशक्त्यात्वधिष्ठिताः
वृषोवृषधरो ऽनन्तः क्रोधनो मारुताह्वयः ॥

10.641

ग्रसनोडम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः
विष्णोस्तुबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥

10.642

विचरन्तिमहादेवा अनन्तेन सुपूजिताः
शंभुर्विभुर्गणाध्यक्षस् त्र्यक्षश्च त्रिदशेश्वरः ॥

10.643

संवाहश्चविवाहश्च नलोलिप्सुस्त्रिलोचनः
ब्रह्मणोबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥

10.644

विचरन्तिमहादेवा ब्रह्मणैव सुपूजिताः
एकैकस्य सहस्रं तु परिवारो ऽभिधीयते ॥

10.645

शतरुद्रा इति ख्याता ब्रह्माण्डंव्याप्यसंस्थिताः
असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः ॥

10.646

स्वच्छन्दाविश्वगा देवाः कल्पमन्वन्तरेष्वपि
पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु ॥

10.647

एकैकमधिपंचैव कथयामि वरानने
स्थितो वै पूर्वतो ऽण्डस्य श्वेतो वै नाम नामतः ॥

10.648

रुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः
दीप्तिमद्भिर्महातीव्रैर् मयूखैरिव भास्करः ॥

10.649

आग्नेय्यामग्निसंकाशो वैद्युतो नाम विश्रुतः
सो ऽपि विद्युत्प्रभैरुद्र शतैस्तु परिवारितः ॥

10.650

याम्ये ऽण्डस्य महाकालो युगान्तानलसंनिभः
शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः ॥

10.651

नैरृतो विकटोनाम शतेनपरिवारितः
संतिष्ठते महातेजा द्वितीय इव भास्करः ॥

10.652

पश्चिमे ऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः
शतरुद्रैर्वृतः सो ऽपि तिष्ठत्यमितविक्रमः ॥

10.653

वायव्यदिशिचाण्डस्य वायुवेगो महाबलः
शतेन च वृतः श्रीमांस् तिष्ठत्यत्र महाबलः ॥

10.654

सुभद्रनामोत्तरतः शतेनपरिवारितः
महावीर्यबलोपेतस् तिष्ठत्यत्र महाबलः ॥

10.655

परिविष्टो मरीचीभिस् तत्रतिष्ठति वीर्यवान्
विद्याधरो नाम रुद्र ऐशान्यां वै प्रतिष्ठितः ॥

10.656

शतरुद्रैर्वृतः सो ऽपि परिविष्ट इवोडुराट्
महावीर्यबलोपेतस् तिष्ठते ऽनन्तविक्रमः ॥

10.657

अधः कालाग्निरुद्रो ऽन्यः स्थितस्त्वत्र द्वितीयकः
समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने ॥

10.658

शतैः समावृतो रुद्र मयूखैरिव भास्करः
वीरभद्रो वृतोरुद्रैर् उपर्यण्डस्य संस्थितः ॥

10.659

एकादशो महाकायै रुद्रक्रोधसमुद्भवैः
एवंते ऽत्रमहात्मान एकैकं तु शतेन च ॥

10.660

दशैते वेष्टितादेवि शतरुद्रैश्च सुव्रते
एषामपरिसंख्येयः परिवारो महात्मनाम् ॥

10.661

आवृत्याण्डं स्थिताह्येते मधु यद्वन्मधुव्रताः
कदम्बकुसुमंयद्वत् केसरैः परिवारितम् ॥

10.662

परिवारितं तथाह्यण्डं रुद्रैरमितविक्रमैः
गृहैः सतोरणाट्टालैर् नानारत्नविचित्रितैः ॥

10.663

जाम्बूनदमयैश्चित्रैः समन्तात्समलंकृतम्
दिव्यनारीभिराकीर्णं सर्वकामसमन्वितम् ॥

10.664

ब्रह्माण्डमेतदाख्यातं पाशजालावतारितम्
जन्मव्याधिजरामृत्यु महोदधिपरिप्लुतम् ॥

10.665

गुणत्रयमलच्छन्नं नानाजातिसमाकुलम्
पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलम् ॥

10.666

अनित्या एव गतयः सर्वेषामेव वादिनाम्
परापरविभागं तु नैवजानन्ति मोहिताः ॥

10.667

हेमाण्डं तु पुरासृष्टं क्षयात्म भुवनाकृति
ईशमायासमाविष्टस्य् आत्मवर्गस्य भूतये ॥

10.668

अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकम्
उत्तरोत्तरयोगेन दशधा संस्थितानि तु ॥

10.669

अहंकारः तदूर्ध्वं तु बुद्धिस्तु शतधास्थिता
ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि ॥

10.670

पौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता
तदूर्ध्वं दशलक्षाणि कला यावत्तु सुव्रते ॥

10.671

माया तु कोटिधाव्याप्य स्थिता सर्वं चराचरम्
दशकोटिगुणा विद्या मायांव्याप्य व्यवस्थिता ॥

10.672

शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु
सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः ॥

10.673

योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता
व्यापिनी सर्वमध्वानं व्याप्यदेवि व्यवस्थिता ॥

10.674

अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने
भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमात् ॥

10.675

आकारं विभवं चैव भुवनानेकविस्तरम्
यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः ॥

10.676

यन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः
स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः ॥

10.677

नापि संशयवादैश्च नग्नक्षपणकादिभिः
न भूतवादिभिश्चैव नापि स्याल्लोकिकैरपि ॥

10.678

न चात्मचिन्तकैर्वापि न च तर्कप्रवादिभिः
न च वैशेषिकैर्वा.अपि षट्पदार्थपरायणैः ॥

10.679

न चापि न्यायवादैश्च हेतुदृष्टान्तवादिभिः
नाप्येकजन्मवादैश्च नचाप्येकत्ववादिभिः ॥

10.680

न धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरम्
इत्येवंवादिनां तेषां वादानां तु शतत्रयम् ॥

10.681

त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम्
अज्ञानतिमिराधानाम् उन्मीलनकृदुत्तमम् ॥

10.682

संसारपङ्कमग्नानां नौरिवोत्तारणं परम्
महामोहतमो ऽन्धानां तमोनुदमिदं परम् ॥

10.683

परमेशमुखोद्भूतं यन्मया प्राप्तमद्भुतम्
ज्ञानामृतमिदं दिव्यं ननभुवनविस्तरम् ॥

10.684

शृणुष्वैकमना देवि विचित्राकारमद्भुतम्
अनन्तो भुवनव्रातस् त्व् अव्युच्छेदाद्व्यवस्थितः ॥

10.685

मधुकोशजालकवत् तथा भूरिचयावृतिः
मीनशंखकुलायाभं दाषिमीबीजवत्स्थितम् ॥

10.686

कदम्बकेसरनिभं पुराणां तु समूहकम्
महासेनावासकवद् वने तरुसमूहवत् ॥

10.687

निरन्तरमनन्तानि भुवनानि वरानने
नानाकाराणि चित्राणि सर्वरत्नमयानि च ॥

10.688

परिमण्डलानि दीर्घाण्य् अर्धचन्द्राकृतीनि च
पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च ॥

10.689

पर्वताकृतिरूपाणि गजयुथाकृतीनि च
शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च ॥

10.690

महाविमानरूपाणि त्रिशूलाकृतिमन्ति च
मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च ॥

10.691

महापुरुषरूपाणि शतशृङ्गाकृतीनि च
सहस्रशृङ्गावर्तानि तथान्यानि वरानने ॥

10.692

कोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च
वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च ॥

10.693

दिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च
भेरिनादस्वराढ्यानि दिव्यगीतध्वनीनि च ॥

10.694

दिव्यदुन्दुभिनादानि महावेणुस्वनानि च
नानावादित्रघोषाणि भुवनानि च सर्वदा ॥

10.695

शुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च
चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च ॥

10.696

लाक्षारससवर्णानि कानिचिद्वरवर्णिनि
इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च ॥

10.697

नीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च
बालादित्यसवर्णानि पद्मगर्भनिभानि च ॥

10.698

चन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च
मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च ॥

10.699

अशोकस्तवकाभानि हरितालनिभानि च
शक्रचापसवर्णानि गोक्षीरधवलानि च ॥

10.700

सिन्दूरकुङ्कुमाभानि गोरोचननिभानि च
तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च ॥

10.701

शङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च
नानावर्णानि चान्यानि नानारूपाकृतीनि च ॥

10.702

एतेषां परतो देवि व्यापकं परमं पदम्
अप्रमेयमसंख्येयम् अगम्यं सर्ववादिनाम् ॥

10.703

विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते
नचापि भावो भवति दीक्षामप्राप्य देहिनाम् ॥

10.704

यदा तु कारणाच्छक्तिर् भवेन्निर्वाणकारिका
शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभाम् ॥

10.705

मन्त्रयोगात्मिका दिव्यां ततो मोक्षं व्रजेत्पशुः
नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि ॥

10.706

यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा
स एव मोक्षं व्रजति शिवः सर्वमहेश्वरः ॥

10.707

तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव
संसारार्णवमग्नानां नौरिवोत्तारणं परम् ॥

10.708

महामायाञ्जनातीतं अज्ञातं पशुगोचरे
अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरम् ॥

10.709

परमेशमुखोद्गीर्णं यन् मया प्राप्तमद्भुतम्
वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये ॥

10.710

ऊर्ध्वं वै ब्रह्मणो ऽण्डस्य पुरैकादशकं स्थितम्
एकादशानां रुद्राणां युगान्ताग्निसमत्विषाम् ॥

10.711

अथोर्ध्वे भुवनं देव्याः कथयामि वरानने
इन्द्रनीलमयं दिव्यं समन्तात्परिमण्डलम् ॥

10.712

तस्मिन्भगवती देवी भद्रकाली व्यवस्थिता
वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा ॥

10.713

सूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता
पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते ॥

10.714

राजते च महाहारः स्तनाभ्यामन्तरे स्थितः
असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा ॥

10.715

चतुर्भिश्च धृतं पीठं सिंहैरमितविक्रमैः
सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते ॥

10.716

आसने सुप्रभे देवी जात्यञ्जनसमप्रभा
शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता ॥

10.717

सर्वरत्नमयी दिव्या रशनास्या विराजते
पीतमाल्यांशुकवती शर्वरीवारुणोदये ॥

10.718

तृतीयं नयनं तस्या ललाटस्थं विराजते
उदयस्थ इवादित्यो रश्मिजालविभूषितः ॥

10.719

उच्छ्रितेनातपत्रेण सा श्वेतेन विराजते
कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी ॥

10.720

कोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता
आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले ॥

10.721

कुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः
प्रियङ्गुकलिकाश्यामाश् चन्द्रगौर्यः सयौवनाः ॥

10.722

पद्मावदातरूपिण्यः पीनश्रोणिपयोधराः
हावभावविधिज्ञास्तु नृत्तगीतविशारदाः ॥

10.723

वीणावेणुमृदङ्गाद्यैर् वंशवादित्रनिःस्वनैः
उपासीनास्तु तां देवीं रमन्ते तत्र योषितः ॥

10.724

एवं विद्धि जयं नाम भुवनं तु वरानने
या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवर्तिनी ॥

10.725

विष्णुना तपसा पूर्वम् आराध्य परमेश्वरम्
अवतारिता वधार्ताय महिषस्य महात्मनः ॥

10.726

येन चैकेन शृङ्गेण भगवान् हिमवान् गिरिः
शुष्कपर्णमिव क्षिप्तः भगवत्या विनाशितः ॥

10.727

सा तं विनाशायेद्देवी तमः सूर्य इवोत्थितः
सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति ॥

10.728

योगमायाप्रतिच्छन्ना कुमारी लोकभाविनी
अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते ॥

10.729

विष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः
भगिनीत्वेन चायाति नामरूपविपर्ययैः ॥

10.730

मन्वन्तरे मन्वन्तरे तथा चैव युगे युगे
रक्षणार्थं हि लोकानां मातेव हितकारिणी ॥

10.731

इत्याख्यातं तु भुवनं जयं नाम वरानने
तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः ॥

10.732

नचैतत्तपसा प्राप्यं नयज्ञैर्भूरिदक्षिणैः
न दानैर्विविधैश्चापि शक्यं प्राप्तुं वरानने ॥

10.733

प्रसादाद्देवदेवस्य शशाङ्काङ्कितमौलिनः
दीक्षां प्राप्य प्राप्नुवन्ति मण्डलं चक्रवर्तिनाम् ॥

10.734

निर्बीजदीक्षया मोक्षं ददाति खलु देहिनाम्
सा मुक्तिदीक्षा परमा विधिवत्परिकीर्तिता ॥

10.735

विद्येशावरणे दीक्षा यवती क्रियते नृणाम्
तावतीं गतिमाप्नोति भुवने ऽत्र वरानने ॥

10.736

भुवनानि तदीशांश्च संस्थानानि यथाक्रमम्
कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये ॥

10.737

भद्रकाल्यां परो देवो रुद्रक्रोधसमुद्भवः
कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः ॥

10.738

युगान्ताम्बुदवृन्दोत्थ गर्जितध्वनिनिःस्वनः
शतबाहुर्महातेजा दिव्याभरणभूषितः ॥

10.739

शिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः
शिखिकण्ठनिभः किञ्चित् किञ्चिदापाण्डुलोहितः ॥

10.740

चाषजीमूतवर्णश्च अतसीपुष्पसंनिभः
इन्द्रनीलनिभः किञ्चित् किञ्चिद्भृङ्गनिभाकृतिः ॥

10.741

जात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः
युतं कोटिसहस्रेण रुद्राणां च महात्मनाम् ॥

10.742

भुवनं तस्य देवस्य विजयं नाम विश्रुतम्
इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महत् ॥

10.743

दशकोटिसहस्राणि रुद्राणां वरवर्णिनि
अन्तर्भुवनसंघातैर् अन्यैश्च परिवारितम् ॥

10.744

नीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा
रुद्रैर्दिव्यैर्महावीर्यैः समन्तात्परिवारितम् ॥

10.745

स्तुतिभिर्मङ्गलैर्गीतैर् नृत्तावादित्रवादितैः
पणवैर्वेणुवीणाभिर् भेरीझल्लरि गोमुखैः ॥

10.746

पटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः
मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा ॥

10.747

मौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः
वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः ॥

10.748

भूतैर्भूतगणै रुद्रैर् जल्पितैः पठितैस्तथा
ध्यायाद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा ॥

10.749

मयूरकोकिलारावान् मुञ्चद्भिश्च तथापरैः
नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः ॥

10.750

आवृतस्तैर्महातेजा मयूखैरिव भास्करः
गजवक्त्रैः सिंहवक्त्रैर् अश्ववक्त्रैः शुभाननैः ॥

10.751

गोकर्णैर्गोमुखैश्चान्यैर् द्वीपिऋक्षमुखैस्तथा
व्याघ्रवानरवकैश् च भगवान्पर्युपास्यते ॥

10.752

वीरभद्रो महातेजा युगान्ताग्निसमप्रभः
आसनं तस्य देवस्य सर्ववज्रमयं महत् ॥

10.753

दशयोजनविस्तीर्णं चतुरस्रानलप्रभम्
राजते ऽत्राष्टभिः सिंहैर् वृतं भीमपराक्रमैः ॥

10.754

अत्र ते पुण्यकर्माणः ये स्मरन्ति महेश्वरम्
जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः ॥

10.755

ते यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिम्
भुवनस्यास्य देवेशि ह्य् उपर्यावरणं महत् ॥

10.756

अम्मयं तु घनं चापि शक्रचापमिव स्थितम्
वितानमिव तद्भद्रम् अन्तरे समवस्थितम् ॥

10.757

तत्र चास्ते महात्मासाव् अङ्गुष्ठाग्रप्रमाणकः
तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते ॥

10.758

तिर्यक्त्रिगुणविस्तारम् आप्यमावरणं प्रिये
आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा ॥

10.759

रुद्राण्ड इति विख्यातं रुद्रालोक इति प्रिये
वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा ॥

10.760

त्रयोदशभिरन्यैश्च भुवानैरुपशोभितम्
नानारुद्रगणैर्दिव्यैर् निरन्तरमलंकृतम् ॥

10.761

अण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये
अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महत् ॥

10.762

धात्री यस्मिन्भगवती धरालोके सनातनी
हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता ॥

10.763

चक्रवर्तिविमानैश्च बहुभिः परिवारितम्
आवृतं भूतसंघातैर् आचार्यैस्तत्परायणैः ॥

10.764

दिव्यगीतनिनादाढ्यैर् वादित्रशतनिःस्वनैः
अन्तर्भुवनसंघातै रुद्राणां परिवारितम् ॥

10.765

भुवनस्यास्य मध्ये तु उदयादित्यसंनिभः
रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः ॥

10.766

पद्मरागमयो दिव्यः प्रासादो बहुभूमिकः
तस्य मध्ये भगवती धरित्री लोकधारिणी ॥

10.767

मालया रक्तपुष्पस्य लम्बया नित्यभूषिता
चन्द्रार्कमण्डलाकार कपोलतलभूषिता ॥

10.768

पीतहेमांशुकवती महाहारविभूषिता
शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता ॥

10.769

चतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता
रूपयौवनसंपन्ना नृत्तगीतविशारदाः ॥

10.770

परिवार्योपासते तां दिव्या वै मानसाः स्त्रियः
त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः ॥

10.771

उत्पादितास्तु शर्वेण तदर्थं हितमिच्छता
तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः ॥

10.772

उच्छ्रितेनातपत्रेण ध्रियमाणेन शोभिताः
पुरःस्थितो महातेजा यो ऽसौ मेरुर्महागिरिः ॥

10.773

उपासीनस्तु तां देवीं तत्रास्ते स नगाधिपः
नीलोत्पलदलश्यामो नीलजीमूतसंनिभः ॥

10.774

नीलो नाम महाशैलः पीतवासा महाद्युतिः
अतिकान्तेन रूपेण कैटभारिरिवापरः ॥

10.775

उपास्यमानो दिव्याभिर् नगरीभिर्नगाधिपः
तस्योत्तरे चन्द्रनिभो नानालंकारभूषितः ॥

10.776

श्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः
तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः ॥

10.777

पीताम्बरधरः श्रीमान् शृङ्गवानिति विश्रुतः
अतिकान्तेन रूपेण कुसुमास्त्र इवापरः ॥

10.778

दक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये
चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः ॥

10.779

शुक्लाम्बरधरः श्रीमान् निषधो नाम विश्रुतः
तप्तहेमप्रतीकाशो दिव्याभरणभूषितः ॥

10.780

अतिशुभ्रेण देहेन पितामह इवापरः
पीताम्बरधरः श्रीमान् पीतमाल्यानुलेपनः ॥

10.781

हेमकूटो महातेजास् तेजसामिव सङ्ग्रहः
राजते भगवान् शैलः सन्ध्यावृत इवांशुमान् ॥

10.782

पाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसंनिभः
शुक्लाम्बरधरः श्रीमान् दिव्यकुण्डलभूषितः ॥

10.783

आतपत्रेण महता ध्रियमाणेन मूर्धनि
हिमवानिति विख्यातो द्वितीय इव भास्करः ॥

10.784

इन्द्रगोपकसंकाशः पश्चिमे गन्धमादनः
रक्ताम्बरधरः श्रीमान् अस्ताद्रिस्थ इवांशुमान् ॥

10.785

शुद्धस्फटिकसंकाशः शुक्लाम्बरधरः शुभः
किरीटी कुण्डली श्रीमान् माल्यवान्नाम पर्वतः ॥

10.786

इत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता
लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः ॥

10.787

दिव्यरूपधरा देवी तनुर्वै पारमेश्वरी
धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः ॥

10.788

ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम्
अतः परतरं देवि सामुद्रं भुवनं महत् ॥

10.789

सर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितम्
नीलोत्पलसमच्छायं सर्वतः परिमण्डलम् ॥

10.790

मध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभम्
शतयोजनसाहस्रं समन्तात्परिमण्डलम् ॥

10.791

तस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः
किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः ॥

10.792

अपां निधेर्भगवतो वरुणस्य परा तनुः
तं तु देवं महात्मानं परिवार्य समन्ततः ॥

10.793

रूपयौवनसंपन्नाः सततं पर्युपासते
शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना ॥

10.794

शुक्लयज्ञोपवीता च शुक्लहारोपशोभिता
शुक्लैनैवातपत्रेण ध्रियमाणेन मूर्धनि ॥

10.795

गङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः
नीलाम्बरधरा देवी नीलगन्धानुलेपना ॥

10.796

नीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे
एवमाद्या महानद्यः परिवार्य महाद्युतिम् ॥

10.797

समुद्राष्टकं च देवेशि स्वनदीभिः समावृतम्
उपासते सदा भक्त्या वारुणीं परमां तनुम् ॥

10.798

नानासरांसि तीर्थानि तद्भक्ताश्चापि संस्थिताः
रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणाम् ॥

10.799

अपां योनिं परां प्राप्ताः वारुणी सा परा तनुः
अतः परं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥

10.800

श्रीनिकेत इति ख्यातं पद्मगर्भ इति श्रुतम्
विमानशतसंघातैर् निरन्तरमवस्थितैः ॥

10.801

शोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा
सरोभिर्मानसैर्दिव्यैर् दीर्घिकाभिश्च शोभितम् ॥

10.804

रथचक्रप्रमाणैश्च मणिकाञ्चनमण्डितैः
वैदूर्यनालैः कमलैर् दिव्यगन्धसुगन्धिभिः ॥

10.803

मृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः
संशोभितं विचित्रैस्तैर् विकचैर्वज्रकेसरैः ॥

10.804

उद्यानैर्विविधैश्चापि नानाविहगकूजितैः
नानाकामप्रदैर्वृक्षैः समन्तात्समलङ्कृतम् ॥

10.805

नानामणिमयैर्दिव्यैः क्रीडाशैलैश्च मानसैः
मानसीभिश्च नारीभिर् दिव्ययौवनकान्तिभिः ॥

10.806

हावभावविलासाढ्य दिव्यस्त्रीभिरलंकृतम्
विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते ॥

10.807

विभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः
गायद्भिश्चाथ नृत्यद्भिर् दिव्यस्त्रैणैः समाकुलम् ॥

10.808

तस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे
शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलम् ॥

10.809

तस्य मध्ये भगवती श्री स्वयं लोकभाविनी
चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते ॥

10.810

एकत्र युगपत्तेजस् तेजसां तु विराजते
निर्वाणमिव या शान्ता सर्वानन्दमनोहरा ॥

10.811

रूपिणी परमा देवी मूर्तिरव्यभिचारिणी
शतयोजनविस्तीर्णे उदितादित्यसप्रभे ॥

10.812

चन्द्रकान्तमये पद्मे वज्रकेसरकर्णिके
कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते ॥

10.813

पद्मासने भगवती पद्मगर्भसमप्रभा
उपविष्टात्र सा नित्यं विभूत्या परया युता ॥

10.814

महारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभम्
वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथम् ॥

10.815

स्फुरन्मयूखचलने कपोलतलमण्डले
सूर्यमण्डलसंकाशे धारयन्ती च कुण्डले ॥

10.816

स्फुरन्मयूखसंघातां रशनां सा तु बिभ्रती
हेमाभा पीतवसना महाहारविभूषिता ॥

10.817

चन्द्राब्भेनातपत्रेण ध्रियमाणेन राजिता
उपगीता च गन्धर्वैर् मानसै रुद्रसम्भवैः ॥

10.818

परिवारिता भगवती सा तनुः पारमेश्वरी
या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना ॥

10.819

दत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी
अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठाता ॥

10.820

पादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता
तदर्धेन पुनर्देवि पार्थिवेषु व्यवस्थिता ॥

10.821

तदर्धेन मनुष्येषु या स्थिता व्याप्य मूर्तिभिः
स्वरूपा कामरूपा च द्विधा सा परिकीर्तिता ॥

10.822

अचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति
रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते ॥

10.823

श्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेत्
सत्स्वन्येष्वपि भागेषु त्व् इयं सा गदिता गतिः ॥

10.824

प्राप्य तामीदृशीं देवीम् ऐश्वर्यमणिमादिकम्
भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति ॥

10.825

सिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते
यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः ॥

10.826

कृतो घोरस्त्वसंख्येयः तां श्रियं प्राप्तुमिच्छुभिः
असङ्ख्येयाश्च संग्रामाः कृता वै चक्रवर्तिभिः ॥

10.827

सा बन्ध एवमुक्तानाम् अबुधानां परा स्मृता
श्रीपुरं तु समाख्यातं यथावच्च वरानने ॥

10.828

अत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे
सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतम् ॥

10.829

पद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते
योजनानां समाख्यातं प्रमाणेन समन्ततः ॥

10.830

सार्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितम्
विमानैर्विविधाकारैर् नानारत्नमयैः शुभैः ॥

10.831

गान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा
नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा ॥

10.832

स्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलम्
तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभम् ॥

10.833

रश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलम्
तस्य मध्ये भगवती स्थिता साक्षात्सरस्वती ॥

10.834

शरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते
पीताम्बरधरा देवी पद्मपत्रायतेक्षणा ॥

10.835

नीलोत्पलदलश्यामा दिव्याभरणभूषिता
हेमपट्टपरीधाना दिव्यकुण्डलधारिणी ॥

10.836

उरसा तु महाहारम् उद्वहन्ती शशिप्रभम्
स्फुरन्मयूखसंघात कुण्डलद्वयमण्डिता ॥

10.837

ग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा
तानमूर्धारुहा देवी मूर्च्छनाङ्गरुहोद्वहा ॥

10.838

पदासना तालपादा गीतवर्णप्रभावती
अङ्गुल्यः सन्धयश्चैव लक्षणानि वरानने ॥

10.839

आसने परमे दिव्ये वृता भूतगणेश्वरैः
स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा ॥

10.840

मानसीभिश्च नारीभिर् गन्धर्वैर्मानसैर्वृता
हाहा हूहूश्चित्ररथस् तुम्बुरुर्नारदस्तथा ॥

10.841

विश्वावसुर्विश्वरथः दिव्यगीतविचक्षणाः
संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहाम् ॥

10.842

ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते
ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः ॥

10.843

ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः
एषा सरस्वती देवी मूर्तिर्वै पारमेश्वरी ॥

10.844

या स्थितापरभावेन ब्रह्माण्डोदरवर्तिनाम्
ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति ॥

10.845

शाक्रे चापि तदर्धेन गन्धर्वेषु तदर्धतः
सिद्धेषु च तदर्धेन किन्नरेषु तदर्धतः ॥

10.846

तदर्धेन च नागेषु यक्षेष्वर्धेन वै पुनः
पिशाचेषु तदर्धेन सा वै तिष्ठति भागशः ॥

10.847

पिशाचेभ्यः सहस्रांशान् मानुषेषु च तिष्ठति
तैस्तु तप्त्वा तपो घोरम् आराध्य च पिनाकिनम् ॥

10.848

अवतारिता तु सा देवी रूपिणी स्वरभूषिता
स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मणः पुरा ॥

10.849

स्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती
सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता ॥

10.850

या वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरम्
ऋषीणां चैव सर्वेषां मेधाबुधिविवर्धिनी ॥

10.851

सर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता
मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीर्तितम् ॥

10.852

इदं तु परमं देव्या मया ते परिकीर्तितम्
सारस्वतं तु भुवनं कीर्तितं परमा तनुः ॥

10.853

अत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमम्
अमरेशं प्रभासं च पुष्करं नैमिषं तथा ॥

10.854

आषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलम्
गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये ॥

10.855

तेजस्तत्त्वमतश्चोर्ध्वं कथयामि समासतः
अग्नेस्तु भुवनं तत्र कथयामि वरानने ॥

10.856

अशोकस्तवकानां च सर्वतो दीप्तिमुद्वहत्
उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभम् ॥

10.857

भुवनस्यास्य मध्ये तु उदितार्कसमप्रभम्
परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते ॥

10.858

तस्य मध्ये तु भगवाञ् शिवाग्निः कारणं परम्
यो ऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा ॥

10.859

वक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः
स्थितो जिह्वास्वरूपेण स्वयंभूर्नीललोहितः ॥

10.860

स एव तु महादेवि कालाग्निः परमेश्वरः
तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥

10.861

रक्तपद्मदलच्छायः पद्मरागसमद्युतिः
रक्ताम्बरधरः श्रीमान् रक्तमाल्यानुलेपनः ॥

10.862

अर्कभाभ्यां कुण्डलाभ्याम् अलंकृतशुभाननः
महाहारेण दीप्तेन उरःस्थेन विराजते ॥

10.863

किरीटी कुण्डली दीप्तो देवानामास्यमुच्यते
सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः ॥

10.864

दावाग्निरिव शैलाग्रे वेणुघर्षात्समुत्थितः
दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः ॥

10.865

दक्षिणास्याद्विनिष्क्रान्ताः श्वसतो ऽस्य स्वयम्भुवः
हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः ॥

10.866

तेन ते ऽग्निं महात्मानो नित्यशः पर्युपासते
नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः ॥

10.867

गणा रुद्रा भूतगणाः किङ्कराश्च सहस्रसः
स वै शिवाग्निः पठितः सर्वहोमेश्वरः परः ॥

10.868

अग्निकार्यविधानेषु हूयते तद्विदैः सदा
तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणाम् ॥

10.869

स एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः
स तेजस्तेजसां योनिः तस्माज्जज्ञे दिवाकरः ॥

10.870

बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु
भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले ॥

10.871

तदेवं कीर्तितं सम्यग् आग्नेयं भुवनं महत्
भुवनाधिपांश्च भुवने कथयामि त्वतः परम् ॥

10.872

हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरम्
महाकालं मध्यमं च केदारं भैरवं तथा ॥

10.873

अतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमात्
अथोर्ध्वे वाय्वावरणं तत्रस्थो वायुरव्ययः ॥

10.874

प्राणस्य भुवनं तत्र वायोस्तु वरवर्णिनि
शङ्खगोक्षिरधवलं शरत्कुन्देन्दुसप्रभम् ॥

10.875

तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते
मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभम् ॥

10.876

रश्मिमालाकुलं दिव्यं द्योतयद्वै दिशोदश
तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः ॥

10.877

किरीटी कुण्डली दीप्तो हारकेयूरभूषितः
नानाभरणचित्राङ्गश् चित्रमाल्यानुलेपनः ॥

10.878

चित्राम्बरधरः श्रीमान् महाहारविभूषितः
मारुता नाम वै देवाः शतकोट्यो महाबलाः ॥

10.879

उपासते महात्मानं वायुमूर्तिं महाद्युतिम्
यो व्यापयेच्छरीराणि एकधा पञ्चधा विभुः ॥

10.880

सप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः
स्वमण्डलस्य सा दिव्यैर् विभात्येका परा तनुः ॥

10.881

तमेतमेकं दशधा प्राणात्मानं तु योगिनः
ध्यात्वा त्यक्त्वा तु वै प्राणान् कृत्वा तस्मिन्स्तु धारणाम् ॥

10.882

तं विशन्ति महात्मानो वायुभूताः खमूर्तयः
इति प्राणस्य भुवनम् आख्यातं तव सुव्रते ॥

10.883

भुवनेशांस्तत्र रुद्रान् कथयाम्यनुपूर्वशः
गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा ॥

10.884

विमलं चाट्टहासं च माहेन्द्र भीममष्टमम्
गुह्याद्गुह्यतरं ह्य् एतद् वेदितव्यं प्रयत्नतः ॥

10.885

आकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलम्
सूक्ष्मरूपो ऽव्ययो नित्यो मध्यदेशे व्यवस्थितः ॥

10.886

आकाशधारणायुक्तो योगी युज्यते तत्पदे
अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः ॥

10.887

वस्त्रापदं रुद्रकोटिम् अविमुक्तं महालयम्
गोकीर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमम् ॥

10.888

पवित्राष्टकमेतद्धि समासेन प्रकीर्तितम्
अस्य बाह्ये अहंकारः तत्र रुद्रान्निबोध मे ॥

10.889

छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरम्
कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ ॥

10.890

स्थाण्वष्टकं समाख्यातं पूर्वादीशानगोचरम्
मध्यदेशेस्थितो रुद्रस् त्व् अहंकारेश्वरः प्रभुः ॥

10.891

श्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभम्
पञ्चाष्टकेषु ये वर्णाः समासात्कथितास्तव ॥

10.892

सिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः
पीताः शुक्लाश्च विज्ञेयाः अधस्तु धूम्रवर्चसः ॥

10.893

शतरुद्राः समाख्यातास् त्रिनेत्राः शूलपाणयः
चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः ॥

10.894

पद्माकृतीनि ज्ञेयानि चित्ररत्नयुतानि च
शतरुद्रभुवनानि भोगैश्वर्ययुतानि च ॥

10.895

पञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः
आकाशावरणादूर्ध्वम् अहंकारादधः प्रिये ॥

10.896

भुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः
आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महत् ॥

10.897

स्थितं वितानवद्देवि योजनानेककोटयः
शुक्लरक्तसितापीत हरितं स्फटिकप्रभम् ॥

10.898

वितानमिव देवेशि सर्वतः परिमण्डलम्
शर्वो ह्यधिपतिस्तत्र एक एव वरानने ॥

10.899

तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता
तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलम् ॥

10.900

हरितं मरकतश्यामं चाषपक्षनिभं प्रिये
भवो ह्यधिपतिस्तत्र एक एव वरानने ॥

10.901

तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः
तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलम् ॥

10.902

स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभम्
रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते ॥

10.903

तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया
तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि ॥

10.904

तस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलम्
सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये ॥

10.905

वितानाकारसदृशं समन्तात्परिमण्डलम्
तत्रैव मण्डले देवि त्व् ईशानः संव्यवस्थितः ॥

10.906

तस्माद्वायुर्विनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये
तस्मात्प्राणादयः पञ्च वायोस्तद्व्यापकः परः ॥

10.907

सप्तधा सप्तधा सो ऽपि स एको बहुधा गतः
तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलम् ॥

10.908

नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभम्
वितानसदृशाकारं समन्तात्परिमण्डलम् ॥

10.909

भीमस्तत्राधिपत्येन एक एवावतिष्ठते
तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महत् ॥

10.910

व्यापकं सर्वलोकानां परापरगतं प्रिये
तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते ॥

10.911

सहस्रादित्यसंकाशं दीप्यमानं समन्ततः
वितानवद्रश्मिदीप्तं समन्तात्परिमण्डलम् ॥

10.912

रुद्रो ह्यधिपतिस्तत्र त्व् एक एवावतिष्ठते
सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने ॥

10.913

तस्मात्तु मण्डलादूर्ध्वं सोममण्डलमुच्यते
चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलम् ॥

10.914

अधिपतिस्तु महादेव एक एवावतिष्ठते
तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः ॥

10.915

असंख्याताः सहस्राणि कल्पे कल्पेए विनिर्गताः
तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते ॥

10.916

चन्द्रकोटिसमच्छायं समन्तात्परिमण्डलम्
वितानवत्स्थितं दिव्यम् उग्रेशसमधिष्ठितम् ॥

10.917

संरुद्धं वामया तत्तु तस्माद्वै निर्गतानि तु
यजमानसहस्राणि कल्पे कल्पे स्थितानि हि ॥

10.918

ब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदितात्
वेदयज्ञाश्च विविधा ब्रह्मणो ऽनन्तवर्त्मनः ॥

10.919

तस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च
तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः ॥

10.920

इत्येष्टौ तनवस्त्वेताः परा वै संप्रकीर्तिताः
अपरा ब्रह्मणो ऽण्डं वै व्याप्य सर्वं व्यवस्थिताः ॥

10.921

एभ्यः परतरं चापि मण्डलं करणात्मकम्
शुक्लरक्तासितं पीतं हरितं चापि वर्णतः ॥

10.922

पञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके
कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनाम् ॥

10.923

वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः
एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभम् ॥

10.924

तस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् ॥

10.925

विषयालोचनं वृत्तिः तेजोमण्डलसंस्थिताः
स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः ॥

10.926

एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभम्
विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलम् ॥

10.927

तस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनाम्
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥

10.928

एभ्यः परतरं चापि सौम्यं सोमस्य मण्डलम्
तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दर्शपञ्चभिः ॥

10.929

चित्तं चेतो मनश्चेति शब्दाद्यक्षप्रवर्तकम्
तस्याधिपो महातेजाश् चन्द्रमाः सौम्यतेजसा ॥

10.930

तस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महत्
जपाकुसुमसंकाशम् अरुणादित्यसंनिभम् ॥

10.931

पूर्ववच्च प्रमाणेन्न समन्तात्परिमण्डलम्
तस्मात्तु मण्डलाद्देवि सन्ध्यारुणसमद्युतिः ॥

10.932

सधूमो ऽग्निरिवासौ वै अहंकारः प्रवर्तते
अन्तःकरणमात्मस्थं येनेदं रंजितं जगत् ॥

10.933

मत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति
तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा ॥

10.934

छगलाण्डादयो देवि पूर्वं ते कथिता मया
अहंकारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते ॥

10.935

सूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसम्
अष्टानां देवयोनीनाम् अत्रैव भुवनं शृणु ॥

10.936

ककुभं नाम भुवनं सन्ध्यारुणसमप्रभम्
मानसीभिस्तु तत्स्त्रीभिर् मुदिताभिः समाकुलम् ॥

10.937

स्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्राभाः
दशकोटिसहस्राणि तेषां तत्र निवासिनाम् ॥

10.938

स्वनन्दो नाम विक्रान्तः पिशाचेष्वीश्वरो महान्
सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः ॥

10.939

कुण्डलाभरणोपेतो हारकेयूरभूषितः
किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः ॥

10.940

परिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा
नानारूपधरैर्दिव्यैर् दिव्याभरणभूषितैः ॥

10.941

दिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः
परिवृतो महातेजा गणैरिव महागणः ॥

10.942

अतः परं प्रवक्ष्यामि राक्षासं भुवनं महत्
कोकिलाकण्ठसदृशं नीलजीमुतसंनिभम् ॥

10.943

तस्मिस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते
करालो राक्षसेशो वै जात्यञ्जननिभो महान् ॥

10.944

किरिटी कुण्डली दीप्तः शोभते तु महाद्युतिः
जात्यञ्जननिभः श्रीमान् दावाग्निरिव पर्वते ॥

10.945

दशकोटिसहस्राणि मुदिता नाम राक्षसाः
भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः ॥

10.946

अतः परं प्रवक्ष्यामि याक्षं वै भुवनं महत्
जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलम् ॥

10.947

भोगैश्वर्यसमुत्पन्नं समन्तात्परिमण्डलम्
तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराट् ॥

10.948

तप्तकाञ्चनवर्णाभो मकुटादिविभूषितः
शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः ॥

10.949

तैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव
अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महत् ॥

10.950

पीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि
तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये ॥

10.951

गन्धर्वदेवाधिपति गन्धमादनसन्निभः
तप्तजाम्बूनदनिभस् तरुणादित्यसप्रभः ॥

10.952

दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः
दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः ॥

10.953

मनः शिलाभङ्गनिभैर् हरितालनिभैस्तथा
स्वकान्ता नाम गन्धर्वाश् चित्रमाल्यानुलेपनाः ॥

10.954

चित्राम्बरधराः सर्वे चित्राभरणभूषिताः
तस्मात्परतरं वक्ष्ये स्थानम् ऐन्द्रं च पार्वति ॥

10.955

बृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदम्
शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभम् ॥

10.956

तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते
विभूतिर्नाम भगवान् महेन्द्रो भुवनेश्वरः ॥

10.957

चन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः
शुक्लाम्बरधरः श्रीमाञ्च् छुक्लमाल्यानुलेपनः ॥

10.958

ज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलंकृतः
हारकेयूरवाञ्छ्वेतः श्वेतोष्णीषविभूषितः ॥

10.959

भूतिजा नाम वै देवा विभूत्या परया युताः
किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः ॥

10.960

दशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीर्तिताः
तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः ॥

10.961

मनोजं नाम भुवनं शरच्चन्द्रनिभं शुभम्
शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसम् ॥

10.962

अमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः
शुद्धस्फटिकसंकाशः श्रीमाञ्च्छुक्लाम्बरोद्वहः ॥

10.963

कुण्डलैर्दीप्तिसंकाशैर् भूषितस्तु विराजते
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ॥

10.964

तत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः
दिव्याः सौम्यास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः ॥

10.965

दशकोटिसहस्राणि तेषां वै सौम्यतेजसाम्
अत ऊर्ध्वं तु देवेशि प्राजेशां भुवनं महत् ॥

10.966

तस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः
विश्वरूपो विश्ववर्णो विश्वालंकारभूषितः ॥

10.967

विश्वरूपपरैर्देवैर् विश्वात्मा परिवारितः
दशकोटिसहस्राणि विश्वानां भूरितेजसाम् ॥

10.968

परिवार्य महात्मानं शोभने पर्युपासते
ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभम् ॥

10.969

पितामहो यत्र देवः शुक्लपद्मस्थसौम्यदृक्
शुक्लाम्बरधरः श्रीमाञ् छुक्लमाल्यानुलेपनः ॥

10.970

शुक्लयज्ञोपवीती च महाहारविभूषितः
दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः ॥

10.971

ब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान्
पैशाचं राक्षासं याक्षं गान्धर्वं त्वैन्द्रमेव च ॥

10.972

सौम्यं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये
एतानि सुरयोनीनां स्थानान्येव पुराणि तु ॥

10.973

अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति हि
परमेशनियोगाच्च चोद्यमानाश्च मायया ॥

10.974

नियमिता नियत्या च ब्रह्मणो व्यक्तजन्मनः
व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा ॥

10.975

अंशेनैव वरारोहे न त्यजन्ति निकेतनम्
पुर्यष्टकेन्द्रियैः सार्धम् आत्मा मन्त्रैर्विशोधयेत् ॥

10.976

पञ्चाष्टकं मूर्तयो ऽष्टौ बुद्धितत्त्वमनुक्रमात्
विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परम् ॥

10.977

संवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः
मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः ॥

10.978

नीलोत्पलदलाभानि तेषां वै भुवनानि तु
एकैकस्य परीवारः कोटिर्दशसहस्रकम् ॥

10.979

क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महत्
बलाध्यक्षो गणाध्यक्षस् त्रिदशस्त्रिपुरान्तकः ॥

10.780

सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च
सहस्रैः पञ्चदशभिः परिवारो ऽभिधीयते ॥

10.981

अग्निरुद्राः स्मृता ह्यते तेजसा कृष्णवर्णकाः
कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु ॥

10.982

अत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमम्
अकृतं च कृतं चैव रैभवं ब्राह्ममेव च ॥

10.983

वैष्णवं त्वथ कौमारम् औमं श्रैकण्ठमेव च
क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः ॥

10.984

ततः साक्षाद्भगवती जगन्माता व्यवस्थिता
उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा ॥

10.985

तप्तजाम्बूनदनिभा ह्य् उदयादित्यसप्रभा
महापीठे मणिमये सिंहाष्टकयुते शुभे ॥

10.986

शतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते
दिव्यकुण्डलिनी देवी महाहारविभूषिता ॥

10.987

विजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी
जया च पद्मगर्भाभा सर्वालंकारभूषिता ॥

10.988

नन्दा च पद्मपत्राक्षी हारकेयूरभूषिता
सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा ॥

10.989

परिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः
त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥

10.990

मानस्यो दिव्यनार्यस्तास् तां सदा पर्युपासते
विमानकोटिरेका च रुद्राणां भूरितेजसाम् ॥

10.991

औमा इति समाख्याताः वैमाना इति ते ऽन्यथा
उपासते तु तां देवीं मातरं तनया इव ॥

10.992

सावतीर्याण्डमध्ये तु मया सार्धं वरानने
अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी ॥

10.993

कल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके
तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी ॥

10.994

पञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका
विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा ॥

10.995

आनन्दा नवमे कल्पे दशमे वामलोचना
एकादशे वरारोहा द्वादशे च सुमङ्गला ॥

10.996

कल्पे त्रयोदशे देवि महातनुरुदाहृता
कल्पे चतुर्दशे चैव अनन्ता नाम कीर्तिता ॥

10.997

भूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता
सहस्रधारा सप्तदशे सती चाष्टदशे पुरा ॥

10.998

चाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा
अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुरा ॥

10.999

अमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता
पुनर्हिमवताराध्य दुहिता त्वात्मनः कृता ॥

10.1000

त्वं देवि साद्भुतं तप्त्वा तपः परमदुश्चरम्
मां भर्तारं पुनः प्राप्य जातास्यङ्गरुहा प्रिये ॥

10.1001

कैलासनिलयश्चाहं त्वया सार्धं वरानने
त्वं तनुर्वामभागस्य मत्तो नैव वियुज्यसे ॥

10.1002

दक्षाध्वरे पुनर्जाता भद्रकालीति नामतः
एकानंशापरा मूर्तिः सतीशानाद्विनिःसृता ॥

10.1003

इदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह
महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला ॥

10.1004

कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः
मनुष्याणां तु भक्तानां वरदा भक्तवत्सला ॥

10.1005

पूर्वमवावतीर्णासि विन्ध्यपर्वतमूर्धनि
अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवर्णिनि ॥

10.1006

सुचार्विति तु विख्यातं सहस्रादित्यकान्तिमत्
कैलासशिखराकारं शुद्धस्फटिकसप्रभम् ॥

10.1007

महाविमानकोटीभिर् आवृतं चक्रवर्तिनाम्
तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः ॥

10.1008

सहस्रबाहुचरणः सहस्रवदनेक्षणः
उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः ॥

10.1009

भोगस्थानं समस्तं वै तत्रस्थं वामभागतः
शतयोजनविस्तीर्णे नानारत्नविभूषिते ॥

10.1010

दिव्यास्तरणसंछन्ने आदित्यशतसन्निभे
आसने परमे दिव्ये रत्नपद्मविचित्रिते ॥

10.1011

उपविष्टो महातेजा वृषभैरष्टभिर्वृतः
हेमचीनाम्बरधरो हारकेयूरभूषितः ॥

10.1012

धारयन्सुप्रदीप्ते च सूर्यमण्डलसन्निभे
स्फुरन्मयूखसंघाते कुण्डले रश्मिसंकुले ॥

10.1013

धारयन्मकुटं मूर्ध्नि दिव्यरत्नविचित्रितम्
देदीप्यमानमत्युग्रं कैलासशिखरोपमम् ॥

10.1014

प्रलम्बो ऽस्य महाहारः प्रभवद्रश्मिसंकुलः
गाङ्गो हिमवतः शृङ्गात् पतितो निर्झरो यथा ॥

10.1015

त्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा
शूलिभिर्जटिभिस्त्र्यक्षैर् दिव्याभरणभूषितैः ॥

10.1016

नानारूपधरैर् रुद्रैर् वृतो भूतगणैस्तथा
दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः ॥

10.1017

विमानशतकोटीभिर् आवृतः सर्व एव तु
मातरः सप्त रूपिण्यो नानालंकारभूषिताः ॥

10.1018

परिवार्य महात्मानं समन्तात्पर्यवस्थिताः
ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता ॥

10.1019

आग्नेय्यां दिशि देवेशि स्थिता वै श्रीरिवापरा
शङ्खगोक्षीरसंकाशा त्व् ऐशान्यां तु वरानने ॥

10.1020

माहेश्वरी महातेजास् तिष्ठते सुरपूजिता
कौमारी पद्मगर्भाभा हारकेयूरभूषिता ॥

10.1021

दिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता
स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डैता ॥

10.1022

दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरम्
वैष्णवीति च विख्याता शिवेन परमात्मना ॥

10.1023

नीलजीमूतसंकाशा सर्वाभरणभूषिता
वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता ॥

10.1024

शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता
ऐन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता ॥

10.1025

करालवदना दीप्ता सर्वाभरणभूषिता
नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरम् ॥

10.1026

न त्यजन्ति हि ता देवं सर्वभावसमन्वितम्
अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः ॥

10.1027

असुराणां वधार्थाय मनुष्याणां हिताय च
तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा ॥

10.1028

रुरोश्चैव वधार्थाय मयापि त्ववतारिताः
स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः ॥

10.1029

स्वच्छन्दं पर्युपासीनाः परापरविभागतः
उमैव सप्तधा भूत्वा नामरूपविपर्ययैः ॥

10.1030

एवं स भगवान्देवो मातृभिः परिवारितः
आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगत् ॥

10.1031

अस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः
शर्वो भवश्च भगवान् रुद्रः पशुपतिस्तथा ॥

10.1032

ईशानश्चैव भीमश्च महादेवोग्र एव च
एताभिः कुरुते शर्वो मूर्तिभिः सृष्टिमुत्तमाम् ॥

10.1033

भूमिरापो ऽनलो वायुर् आकाशं सूर्य एव च
सोमश्च यजमानश्चेत्य् अष्टौ सृष्टिरियं स्मृता ॥

10.1034

सर्वात्मना तु ते तस्मिन्न् अन्यत्रैकांशतः स्थिताः
एवमस्मिन्स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा ॥

10.1035

मेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते
श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा ॥

10.1036

शर्वाद्याभिश्च तनुभिर् अष्टाभिर्व्याप्य तिष्ठति
ये तु माहेश्वरं योगं सगुणं पर्युपासते ॥

10.1037

भक्त्या च ब्रह्मचर्येण सत्येन च दमेन च
दृष्ट्वा देहस्थमात्मानं ते ऽत्र यान्ति मनीषिणः ॥

10.1038

दृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशम्
मुक्तद्वैता यतात्मानस् तत्र यान्ति मनीषिणः ॥

10.1039

तेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः
वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च ॥

10.1040

विद्यानामधिपश्चैव एकवीरः प्रचण्डधृत्
ईशानश्चाप्युमाभर्ता अजेशो ऽनन्त एव च ॥

10.1041

तथा एकशिवश्चापि सुशिवा द्वादश स्मृताः
सर्वे कुङ्कुमसंकाशाः सूर्यकोटिसमप्रभाः ॥

10.1042

भुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः
अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ॥

10.1043

तत्सायुज्यमनुप्राप्य तेनैव सह मोदते
अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः ॥

10.1044

महादेवो महातेजा वामदेवभवोद्भवौ
एकपिङ्गेक्षणेशानौ भुवनेशपुरःसराः ॥

10.1045

अङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः
मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः ॥

10.1046

बुद्धितत्त्वे समासने भुवनेशा मयोदिताः
अथोर्ध्वं गुणतत्त्वं तु तस्मिंश्चैव व्यवस्थितम् ॥

10.1047

गुरुपङ्क्तित्रयं दिव्यं गुणैरन्तरितं स्थितम्
प्रथमा तमसः पङ्क्तिर् उपरिष्टाद्व्यवस्थिता ॥

10.1048

तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः
शिवः प्रभुर्वामदेवश् चण्डश्चैव प्रतापवान् ॥

10.1049

प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा
महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च ॥

10.1050

कलेवरश्च विख्यातस् तथा चैव कटङ्कटः
अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च ॥

10.1051

यजुर्वेदः सामवेदस् त्व् अथर्वा सुशिवस्तथा
विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा ॥

10.1052

गण्डो नरो यमो माली गहनेशश्च पीडनः
प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता ॥

10.1053

रजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते
शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च ॥

10.1054

सुहोत्र एकपादश्च गृहश्चैव शिवेश्वरः
गौतमश्चैव योगीशो दधिबाहुस्तथापरः ॥

10.1055

ऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः
गुह्येशानः शिखण्डी च जटी माली तथोग्रकः ॥

10.1056

भृगुः शिखि तथा शूली सुगतिश्च सुपालनः
अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः ॥

10.1057

भवनश्च तथा भव्यो लकुलेशस्तथैव च
त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा ॥

10.1058

सत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते
देवो ऽरुणो दीर्घबाहुर् अतिभूतिश्च स्थाणुकः ॥

10.1059

सद्योजातस्तथा झिण्ठि षण्मुखश्चतुराननः
चक्रपाणिश्च कूर्माख्यस् त्व् अर्धनारीश्वरस्तथा ॥

10.1060

कपाली भूर्भुवश्चैव वषट्कारस्तथैव च
वौषट्कारस्तथा स्वाहा स्वधा च परिकीर्तितः ॥

10.1061

संवर्तकश्च भस्मेशः कामनाशन एव च
एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयका ॥

10.1062

ज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः
संसारपाशनिर्मुक्ताः महामोहविवर्जिताः ॥

10.1063

त्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः
सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहकारकाः ॥

10.1064

गजाकाराणि दिव्यानि सर्वेषां भुवनानि तु
बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे ॥

10.1065

शतद्वयं सप्तकं च भुवनानां वरानने
अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने ॥

10.1066

गुणानामुपरिष्टात्तु प्रधानं परिकीर्तितम्
तत्र ये संस्थिता रुद्राः कथयामि समासतः ॥

10.1067

क्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक्
पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः ॥

10.1068

तत्त्वे तु प्राकृते रुद्र महावीर्याः प्रकीर्तिताः
गुणानां या पराकाष्ठा तत्प्रधानमिहोच्यते ॥

10.1069

अतः पुरुषतत्त्वे तु भुवनानि निबोध मे
अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया ॥

10.1070

सुतारा च सुनेत्रा च कुमारी च ततः परम्
उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः ॥

10.1071

तारा चैव सुतारा च तारयन्ती प्रमोदिका
प्रमोदिता मोदमाना रम्यका च ततः परम् ॥

10.1072

सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतम्
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥

10.1073

प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतम्
यत्रकामावसायित्वम् अणिमाद्यष्टकं स्मृतम् ॥

10.1074

अथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु
मस्करी पूरणः कृत्स्नः कपिलः काश एवच ॥

10.1075

सनत्कुमारगौतमव् असिष्ठाद्यांशकास्तथा
कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा ॥

10.1076

शाकल्यश्च समाख्यातो दुर्वासाः परमस् त्व् ऋषिः
वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः ॥

10.1077

पिप्पलादाश्च सौमित्रिर् वायुपुत्रो भदन्तकः
मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः ॥

10.1078

द्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते
जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च ॥

10.1079

ध्यानाश्रयो ऽथ दीर्घश्च होता जागर एव च
अगस्त्यो वसुभौमश्च उपाध्यायश्च कीर्तितः ॥

10.1080

शुक्रो भृग्वगिरा रामो जमदग्निसुतो ऽध्वगः
स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीर्तितः ॥

10.1081

वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः
जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते ॥

10.1082

हरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः
कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद्वृषकः शिवः ॥

10.1083

यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः
भूतेश्वरः कपालीशः शङ्करश्च तथैव च ॥

10.1084

अर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः
महाकालश्च संवर्तो मण्डली त्वेकवीरकः ॥

10.1085

तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः
जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः ॥

10.1086

हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः
पङ्क्तित्रयं समाख्यातम् ऋषीणां गुरुशिष्ययोः ॥

10.1087

नाडीविद्याष्टकं देवि कथयामि त्वतः परम्
इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा ॥

10.1088

माला च मालिनी चैव स्वाहा चैव स्वधा तथा
अथोपरिष्टाद्देवेशि विग्रहाष्टकमुच्यते ॥

10.1089

कार्यं च करणं चैव सुखदुःखकरं तथा
ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा ॥

10.1090

देहपाशानतो वक्ष्ये धर्मं च दशधोदितम्
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ॥

10.1091

अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम्
एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः ॥

10.1092

विकारान्षोडशाख्यास्ये परभावेन संस्थितान्
रसो गन्धश्च रूपं च स्पर्शः शब्दस्तथैवच ॥

10.1093

तन्मात्रपञ्चकं ख्यातम् इन्द्रियाणि निबोध मे
वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकम् ॥

10.1094

श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता
बुद्धीन्द्रियाणि देवेशि मनः षोडशकं स्मृतम् ॥

10.1095

देहपाशाः समाख्याताः अतोबुद्धिगुणान्विदुः
धर्मोज्ञानं च वैराग्यम् ऐश्वर्यं च ततः परम् ॥

10.1096

अधर्मश्च तथाज्ञानम् अवैराग्यमनीशिता
अहंकारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः ॥

10.1097

वैकारिकं तैजसं च भूतादिं च यथाक्रमम्
दीक्षाकाले यथा शुद्धिस् तथा चैषां निबोध मे ॥

10.1098

तमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥

10.1099

विषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः
कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च ॥

10.1100

जन्ममृत्युजराव्याधिक् षुत्तृट्तृष्णास्तथैव च
विषादश्च भयं चैव मदो हर्षणमेव च ॥

10.1101

रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता
माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता ॥

10.1102

आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे
देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥

10.1103

भृङ्गी चण्डीश्वरश्चैव कार्तिकेयो ऽष्टमः स्मृतः
अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः ॥

10.1104

शिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः
विद्येश्वरात्मकान्पाशान् दीक्षाकाले विशोधयेत् ॥

10.1105

उक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः
पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः ॥

10.1106

अथोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे
वामदेवस्तथा शर्वस् तथा चैव भवोद्भवौ ॥

10.1107

वज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ
सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः ॥

10.1108

यत्तद्धृदि स्थितं पद्मम् आत्मा तत्र व्यवस्थितः
नियतिदलमहङ्कार केसरं बुद्धिकर्णिकम् ॥

10.1109

कालतत्त्वे शिवा ज्ञेया कथयामि समासतः
शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः ॥

10.1110

शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराट्
दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने ॥

10.1111

हेमाभाः शङ्कराः प्रोक्ताः शिवः स्फटिकसन्निभाः
एकैकस्य विनिर्दिष्टा परिवारो यशस्विनि ॥

10.1112

कोटिरेका तथान्यानि सहस्राणि तु षोडश
कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु ॥

10.1113

अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे
सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः ॥

10.1114

मनोन्मनो महाधीरः वीरेशाः परिकीर्तिताः
रागतत्त्वे प्रवक्ष्यामि ये ऽन्ये रुद्रा व्यवस्थिताः ॥

10.1115

कल्याणः पिङ्गलो बभ्रुर् वीरश्च प्रब्भवस्तथा
मेधातिथिश्च्छन्दकश्च दाहकः शास्त्रकारिणः ॥

10.1116

पञ्चशिष्यास्तथाचार्या दशैते संव्यवस्थिताः
विद्यातत्त्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु ॥

10.1117

वामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा
बलविकरणश्चैव बलप्रमथनस्तथा ॥

10.1118

सर्वभूतदमनश्च तथा चैव मनोन्मनः
कलातत्त्वे महादेवि महादेवत्रयं स्थितम् ॥

10.1119

महादेवो महातेजा महाज्योतिः प्रतापवान्
कलातत्त्वं समाख्यातं समासेन वरानने ॥

10.1120

एते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः
रुद्रकोटिसहस्रैस्तु समन्तात्परिवारिताः ॥

10.1121

शुद्धस्फटिकसङ्काशाः योगैश्वर्यबलान्विताः
रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः ॥

10.1122

छत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः
उपरिष्टाद्भवेन्माया कथयामि समासतः ॥

10.1123

व्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिता
तत्र रुद्रा महाभागा द्वादशैव महाबलाः ॥

10.1124

गहनश्च असाध्यश्च तथा हरिहरः प्रभुः
दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा ॥

10.1125

अधःपुटे तु विज्ञेया मायातत्त्वे वरानने
क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च ॥

10.1126

विद्येशश्च शैवश्चैव अनन्तः षष्ठ उच्यते
ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः ॥

10.1127

एषां मध्ये तु भगवान् अनन्तेशो जगत्पतिः
उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः ॥

10.1128

सर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः
प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः ॥

10.1129

अस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः
तथाहं कथयिष्यामि भेदत्रयविभागशः ॥

10.1130

गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः
ग्रन्थ्यूर्ध्वे संस्थितो विश्वस् त्रिकलः क्षेम एव च ॥

10.1131

ब्रह्मणो ऽधिपतिश्चैव शिवश्चेति स पञ्चमः
अध ऊर्ध्वमनन्तस्तु पाशाश्चैवात्र संस्थिताः ॥

10.1132

पूर्वं वै कथिता देवि अतो ऋषिकुलं भवेत्
योनिर्वागीश्वरी चैव यस्यां जातो न जायते ॥

10.1133

ओंकारसाध्यधातारो दमनेशस्ततः परम्
ध्यानं भस्मेशमेवाहुः प्रमाणानि तदूर्ध्वतः ॥

10.1134

पञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परम्
हृदयं लक्षणं चैव व्युहमाकर्षमेव च ॥

10.1135

आदर्शं च तथैवेह अष्टमं परिकीर्तितम्
एते परिवृता देवि रुद्रकोटिसहस्रकैः ॥

10.1136

नानावर्णविचित्राश्च नानाब्भरणभूषिताः
नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया ॥

10.1137

त्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकीरीटिनः
अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः ॥

10.1138

भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः
अतः परं भवेन्माया सर्वजन्तुविमोहिनी ॥

10.1139

निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः
इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ॥

10.1140

सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम्
गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ॥

10.1141

असद्युक्तिविचारज्ञाः शुष्कतर्कावलंबिनः
भ्रमयत्येव तान्माया ह्य् अमोक्षे मोक्षलिप्सया ॥

10.1142

शिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः
अथोपरि महाविद्या सर्वविद्याभवोद्भवा ॥

10.1143

जगतः प्रलयोत्पत्ति विभूतिनिधिरव्यया
सा एव परमा देवी वागीशीति निगद्यते ॥

10.1144

अष्टवर्गविभिन्ना च विद्या सा मातृकैव तु
भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः ॥

10.1145

वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा
बलविकरणी चैव बलप्रमथनी ताथा ॥

10.1146

दमनी सर्वभूतानां तथा चैव मनोन्मनी
तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः ॥

10.1147

अमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः
सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः ॥

10.1148

सर्वलक्षणसम्पन्नः सर्वैश्वर्यसमन्विताः
प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः ॥

10.1149

एकैकस्य परीवारो लक्षायुतसहस्रशः
पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते ॥

10.1150

त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा
रूपिणी मर्दिनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः ॥

10.1151

विद्याराज्ञ्यः समाख्याताः दीक्षाकाले विशोधयेत्
बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु ॥

10.1152

अष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः
स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः ॥

10.1153

तस्यासनं तु विस्तीर्णं सहस्रदलसम्मितम्
तिस्रः कोट्यो ऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः ॥

10.1154

तत्रस्थ ईश्वरो देवो वरदः सार्वतोमुखः
पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः ॥

10.1155

गोक्षीरधवलः सौम्यो नागयज्ञोपवीतवान्
दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥

10.1156

सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः
त्रिशूलपाणीन्दुमौलिर् जटामुकुटमण्डितः ॥

10.1157

प्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः
वरदाभयहस्तश्च ध्येयो ऽसावीशयोगिभिः ॥

10.1158

तस्योत्सङ्गगता विद्या सर्वविद्यासमास्रिता
दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना ॥

10.1159

दिव्यस्रग्दाममालाभिर् मुक्ताहारैर्विभूषिता
मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना ॥

10.1160

आराधिता विधानेन वेदयेज्ज्ञानिनः सदा
प्रहसन्तीव सा भाति महेशवदनेक्षणात् ॥

10.1161

विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमात्
अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः ॥

10.1162

एकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीर्तितः
श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमात् ॥

10.1163

अतो रूपमवस्थानं तत्र रुद्रान्निबोध मे
धर्मो ज्ञानं च वैराग्यम् ऐस्वर्यं च चतुर्थकम् ॥

10.1164

सूक्ष्मावरणमूर्ध्वे ऽतः तत्र शक्तित्रयं विदुः
वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः ॥

10.1165

परिवारस्तु तासां वै कोट्यो ऽनेकास्तु सङ्ख्यया
सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदा ॥

10.1166

शूद्धस्फटिकसङ्काशास् त्रिनेत्राः शूलपाणयः
सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः ॥

10.1167

सर्वैश्वर्यसुसम्पूर्णाश् चारुचन्द्रार्धशेखराः
शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः ॥

10.1168

नानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः
ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते ॥

10.1169

तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु
व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥

10.1170

भस्मनिष्ठा जपध्यानास् ते व्रजन्त्येश्वरं पदम्
तत्रेश्वरस्तु भगवान् देवदेवो निरञ्जनः ॥

10.1171

अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः
दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमात् ॥

10.1172

तालुकोर्ध्वे विजानीयाद् दीक्षाकाले वरानने
शुद्धावरणमूर्ध्वं तु तस्मिञ्च्छक्तिद्वयं स्मृतम् ॥

10.1173

ज्ञानं क्रिया च विख्यातं द्वे विद्ये चाप्यतः परम्
भावसंज्ञाप्यभावाख्या तस्मिञ्च्छक्तिद्वये स्मृते ॥

10.1174

तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम्
प्रमाणावरणे चोर्ध्वे कथयामि च मानतः ॥

10.1175

ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः
सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः ॥

10.1176

एकाक्षः पिङ्गलो हंसः कथितं तु समासतः
शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः ॥

10.1177

संस्थितो रुद्रराजस्य मोक्षावरणमूर्ध्वतः
एकादशैव रुद्रांश्च कथयामि समासतः ॥

10.1178

ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैवच
जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः ॥

10.1179

विजृम्भितः समाख्याता स्तालूर्ध्वे तु व्यवस्थिताः
पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभम् ॥

10.1180

ईशशक्तित्रयं मूर्ध्नि कथितं चानुपूर्वशः
इच्छाशक्त्यभिधानायाः अन्तर्भूताः प्रकीर्तिताः ॥

10.1181

प्रबुद्धावरणं चोर्ध्वे कथयामि समासतः
प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः ॥

10.1182

विष्णुर्मदन एवाथ गहनः प्रथितस्तथा
रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमात् ॥

10.1183

समयावरणं चोर्ध्वे कथयामि समासतः
प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा ॥

10.1184

ततो घनः समाख्यातो निरञ्जनस्ततः परम्
रुद्रोङ्कारस्तु पञ्चैते तालूर्ध्वे तु विजानत ॥

10.1185

एकोनषष्टिर्भुवनं ज्ञानशक्त्यादितः क्रमात्
रुद्रोङ्कारान्तमित्येतद् दीक्षाकाले विशोधयेत् ॥

10.1186

एकैकस्य परीवारः कोट्यो ऽनेकाः सहस्रशः
त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः ॥

10.1187

शुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः
त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः ॥

10.1188

सर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः
सार्वलक्षणसंपूर्णाः सर्वाभरणभूषिताः ॥

10.1189

रुद्रकन्यासमाकीर्णा दिव्यैरूपैर्मनोहरैः
संक्रिडन्ते पुरवरैः शिवेच्छाविधिचोदिताः ॥

10.1190

ईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवात्
सुशिवावरणं चोर्ध्वे तस्मिञ्ज्ञेयः सदाशिवः ॥

10.1191

त्रिपञ्चनयनो देवश् चन्द्रार्धकृतशेखरः
वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः ॥

10.1192

शुद्धस्फटिकसङ्काशः स्फुरन्वै दीप्ततेजसा
सिंहासनोपविष्टस्तु श्वेतपद्मासनस्थितः ॥

10.1193

पञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः
दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः ॥

10.1194

सकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः
क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः ॥

10.1195

भ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः
सकलाद्यैर्वृतो देवः ओंकारेशादिभिः क्रमात् ॥

10.1196

ओंकारेशः शिवो दीप्तः कारणेशो दशेशकः
सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः ॥

10.1197

शर्वश्च दशमः प्रोक्तः ऊर्ध्वान्तं संव्यवस्थिताः
रुद्राश्चाष्टादश बहिः तेषां नामानि वै शृणु ॥

10.1198

विजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराट्
रौरवो मुकुटो विसरश् चन्द्रो बिम्बः प्रगीतवान् ॥

10.1199

ललितः सिद्धरुद्रश्च सन्तानः शर्व एव च
परश्च किरणश्चैव पारमेश्वर एव च ॥

10.1200

सादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः
सर्वकारणमध्यक्षः सृष्टिसंहारकारकः ॥

10.1201

भुक्तिमुक्तिप्रदाता च साधकानां क्रियावताम्
कोटयः सप्तमन्त्राणाम् आसने तस्य संस्थिताः ॥

10.1202

आसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभम्
वामाद्यैर्विभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः ॥

10.1203

ताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितम्
ज्ञानशक्तिः क्रियाशक्तिर् वामे दक्षिणतः स्थिते ॥

10.1204

इच्छाशक्तिः परादेवि यया सर्वमधिष्ठितम्
उत्पत्तिस्थितिसंहारांस् तिरोभावमनुग्रहम् ॥

10.1205

यया करोति देवेशः सर्वदा सर्वमध्वनि
तस्योत्सङ्गगता सा तु नित्यं चैवात्मवर्तिनी ॥

10.1206

सा चेच्छा देवदेवस्य शिवस्य परमात्मनः
स एवापररूपेण पञ्चमन्त्रमहातनुः ॥

10.1207

इच्छारूपधरः श्रीमान् देवदेवः सदाशिवः
शक्तयस्तस्य याः प्रोक्ताः तथा वै मन्त्रनायकाः ॥

10.1208

एकैकं परितो देवि पद्मैरर्बुदकोटिभिः
तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः ॥

10.1209

विद्यारूपैः स्वरूपाढैर् अप्रमेयगुणान्वितैः
सर्वलक्षणसंपन्नैः सर्वाभरणभूषितैः ॥

10.1210

हास्यलास्यविलासाढ्यैर् भ्रूक्षेपोन्मदविभ्रमैः
चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतम् ॥

10.1211

ताभिः सार्धं सदा रुद्राः प्रकीडन्तीच्छया प्रभोः
पुरवरैः सर्वतोभद्रैश् चन्द्रकोटिसमप्रभैः ॥

10.1212

मायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः
अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः ॥

10.1213

अधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः
परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन ॥

10.1214

सुशिवावरणं ख्यातं मन्त्रगर्भं वरानने
बिन्द्वावरणमूर्ध्वे ऽतश् चन्द्रकोटिसमप्रभम् ॥

10.1215

तत्र पद्मं महादीप्तं दशकोटिसमन्वितम्
तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः ॥

10.1216

पञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रीलोचनः
तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः ॥

10.1217

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च
परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते ॥

10.1218

तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता
पञ्चवक्त्राः स्मृताः सर्वा दशबाह्विन्दुशेखराः ॥

10.1219

बिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतम्
अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका ॥

10.1220

एते द्वे तु महास्थाने पञ्चपञ्चकलान्विते
ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा ॥

10.1221

अर्धचन्द्रे स्थिताह्येता निरोधिन्यां शृणु प्रिये
रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा ॥

10.1222

अर्धमात्रः स्मृतो बिन्दुः स्वरूपश्च चतुष्कलः
तस्याप्यर्धमर्धचन्द्रस् त्व् अष्टांशश्च निरोधिका ॥

10.1223

निरोधयति देवान्सा ब्रह्माद्यांस्तु वरानने
निरोधिनीति विख्याता तां भित्त्वा तु वरानने ॥

10.1224

सादाख्यपरभावेन पञ्चमन्त्रकहातनुः
तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजः प्रभः ॥

10.1225

महद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः
तेषां वै नायिका वक्स्ये भुवने पञ्चसङ्ख्यया ॥

10.1226

इन्धिका दीपिका चैव रोचिका मोचिका तथा
ऊर्ध्वगा तु समाख्याता कलात्वेषा तु पञ्चमी ॥

10.1227

तस्मिन्पद्मं सुविस्तीर्णं ऊर्ध्वगेशः स्थितः प्रभुः
चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः ॥

10.1228

चन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः
इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः ॥

10.1229

ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी
ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता ॥

10.1230

सुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः
दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः ॥

10.1231

शशाङ्कशेखरः श्रीमान् पञ्चवक्त्रो महातनुः
इडा च पिङ्गला चैव वामदक्षिणतः स्थिते ॥

10.1232

सुषुम्णा तु वरारोहे तुषारकणधूसरा
श्वेतपद्मकरा देवी पद्ममालाविभूषिता ॥

10.1233

पञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी
तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः ॥

10.1234

ग्रथितस्तु तया सर्वस् त्व् अध्वायमध ऊर्ध्वगः
नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् ॥

10.1235

अधःशक्त्या विनिर्गतय यावद्ब्रह्माणमूर्ध्वतः
नाड्या ब्रह्मबिले लीनस् त्व् अव्यक्तध्वनिरक्षरः ॥

10.1236

नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः
एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे ॥

10.1237

ततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितम्
तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रब्भः ॥

10.1238

दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः
त्रिशूलपाणिर्भगवाञ् जटामुकुटमण्डितः ॥

10.1239

ब्रह्माणि तु परा शक्तिर् या सा मोक्षपथे स्थिता
द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥

10.1240

मोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता
तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये ॥

10.1241

अत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः
आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते ॥

10.1242

सूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता
व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमात् ॥

10.1243

पञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः
शक्तितत्त्वं समाख्यातं शिवतत्त्वं शृणु प्रिये ॥

10.1244

पुरश्रेष्ठैरनेकैस्तु समन्तात्परिवारितम्
हेमप्राकाररचितं रत्नमाणिक्यमण्डितम् ॥

10.1245

अशेषभोगसम्पन्नं सर्वकामगुणोदयम्
भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु ॥

10.1246

व्यापकं व्योमरूपं च अनन्तानाथनाश्रितम्
कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितम् ॥

10.1247

तत्र पद्मं सुविस्थीर्णम् अनन्तानन्तसम्भवम्
तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः ॥

10.1248

पञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः
दशबाहुर्महादीप्तः सृष्टिसंहारकारकः ॥

10.1249

सर्वानुग्रहकर्ता च प्रणतार्तिविनाशनः
भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः ॥

10.1250

स्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः
दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥

10.1251

पद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः
आबद्धमणिपर्यङ्कश् चामरोत्क्षेपवीजितः ॥

10.1252

रुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः
व्यापिनी व्योमरूपा चा नन्तानाथात्वनाश्रिता ॥

10.1253

पञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः
त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः ॥

10.1254

पूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः
अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः ॥

10.1255

अनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता
एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि ॥

10.1256

शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता
समना नाम सा ज्ञेया मनश्चोर्ध्वं न जायते ॥

10.1257

परिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ
सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता ॥

10.1258

बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता
तत्रारुढस्तु कुरुते शिवः परमकारणम् ॥

10.1259

सृष्टिस्थितिसमाहारं तिरोभावमनुग्रहम्
हेतुकर्ता महेशानः सर्वकारणकारणम् ॥

10.1260

समना नाम या शक्तिः सा तस्य करणं स्मृतम्
तयाधितिष्ठेद्देवेशो ह्य् अधःकारणपञ्चकम् ॥

10.1261

अनाश्रितस्य देवस्य कारणं सेयमाश्रिता
स वै प्रेरयते भूयस् त्व् अनाथं तु जगत्पतिम् ॥

10.1262

अनाथश्चाप्यनन्तेशम् अनन्तो व्योमरूपिणम्
व्योमव्यापी महादेवो व्यापिनं बोधयेत्प्रभुम् ॥

10.1263

व्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः
कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥

10.1264

नादबिन्द्वात्मकं कार्यम् इत्यादिजगदुद्भवः
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ॥

10.1265

तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम्
या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि ॥

10.1266

स्फुरत्सूर्यसहस्राभ किरणानन्तभास्वरा
ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानवित् ॥

10.1267

उपचारं ततः कृत्वा वागीश्यावाहनं तथा
स्थापनं पूजनं चैव पशोर्यागं तथैव च ॥

10.1268

गर्भधारित्वजनने अधिकारं तथैव च
योगं भोगं लयं चैव निष्कृतिं तदनन्तरम् ॥

10.1269

भुवनाधिपहोमं च भुवनाधिपवासिनाम्
भुवनानां यथायोगं होमं कृत्वा वरानने ॥

10.1270

त्रितत्त्वं शधयेच्चातो ऽवयवांश्च यथाक्रमम्
विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेत् ॥

10.1271

प्रायश्चित्तं ततो हुत्वा कर्तरीमभिमन्त्रयेत्
शिखां च्छित्वा समर्प्यैतां शिशुं संस्नापयेद्गुरुः ॥

10.1272

आचार्यः प्रयतो भूत्वा सकलीकरणादिकम्
स्रुचो ऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरम् ॥

10.1273

सकलीकरणं कृत्वा आचार्यस्तु वरानने
शिशोरपि विधिं कृत्वा शिवकुम्भं समर्चयेत् ॥

10.1274

भैरवं मध्यदेशस्थं भैरवाग्निं समर्चयेत्
पूर्णां सम्पूर्य विधिवद् वाममन्त्रमनुस्मरन् ॥

10.1275

पूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः
हेयाध्वानमधः कुर्वन् नेचयेत्तं वरानने ॥

10.1276

यावत्सा समना शक्तिः तदूर्ध्वे चोन्मना स्मृता
नात्र कालः कलाश्चारो न तत्त्वं न च देवताः ॥

10.1277

सुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते
तदतीतं वरारोहे परं तत्त्वमनामयम् ॥

10.1278

गुरुवक्त्रप्रयोगेण तस्मिन्योज्येत शाश्वते
निष्कम्पे कारणातीते विरजे निर्मले शुभे ॥

10.1279

सर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये
इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे ॥

10.1280

ज्ञात्वा चैवं महादेवि प्रयाति परमं पदम्
देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः
एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc