भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 9

9.1

अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्
यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते ॥

9.2

महाभैरवदेवस्य क्रीडमानस्य भामिनि
सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः ॥

9.3

कल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनम्
तडित्पुञ्जनिभोद्दंष्ट्रं जटाज्वालासमप्रभम् ॥

9.4

चन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणम्
बृहद्वक्षः स्थलाभोगं नागयज्ञोपवीतिनम् ॥

9.5

स्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितम्
सर्पहारकृताटोपं सर्पकङ्कणनूपुरम् ॥

9.6

सिंहचर्मपरीधानं सर्पमेखलमण्डितम्
गजचर्मावृतपटं शशाङ्ककृतशेखरम् ॥

9.7

पञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनम्
कपालमालाभरणं खड्गखेटकधारिणम् ॥

9.8

पाशाङ्कुशधरं देवं शरशार्ङ्गावतानितम्
कपालखट्वाङ्गधरं वरदाभयपाणिकम् ॥

9.9

भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरम्
ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभम् ॥

9.10

एवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेत्
स्मरणान्नाशयेद्देवः पापसंघातमुल्बणम् ॥

9.11

अस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः
पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुम् ॥

9.12

तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तरात्
पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे ॥

9.13

पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते
तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः ॥

9.14

एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकम्
सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः ॥

9.15

पूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने
चतुर्द्वारसमोपेतम् अष्टपत्रं सकर्णिकम्
मध्ये पद्मं समालिख्य केसरैरुपलक्षितम् ॥

9.16

द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनम्
एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलम् ॥

9.17

चतुरस्रं तदासन्नं बाह्ये वीथिं प्रकल्पयेत्
मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववत् ॥

9.18

भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः
केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः ॥

9.19

शङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः
परितो ऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये ॥

9.20

प्रणवासनसंस्थं तु मूर्तिं हंसाक्षरेण तु
तमेव सकलं देवं स्वच्छन्दं परमेश्वरम् ॥

9.21

यत्तत्परमनिर्भासम् अनामयमरूपकम्
तेन चावाहयेद्देवि हृच्छिरश्च शिखां तथा ॥

9.22

वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेत्
स्थापनं संनिधानं च निरोधार्धादिपूजनम् ॥

9.23

सर्वं तेनैव कर्तव्यम् उक्तानुक्तं वरानने
मध्यस्थं भैरवं पूज्यम् अङ्गषट्कसमन्वितम् ॥

9.24

ततः पत्रस्थिता देवीर् द्वात्रिंशार्णैर्निवेशयेत्
पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः ॥

9.25

तासां नामानि वक्ष्यामि द्वत्रिंशत्परिसंख्यया
अरुणा घोषा देवी च रेवती भोगदायिका ॥

9.26

स्थापनी घोरसंज्ञा च रक्षा भारभरेति च
घोररूपा रवा घोणा रतिस्ताराथ रूपिणी ॥

9.27

भयहानिस्तु चण्डा वै सर्वदा च तथा वरा
तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा ॥

9.28

रौद्री च भ्रामणी चैव नागिनी च मनोहरा
स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी ॥

9.29

भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमात्
प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा ॥

9.30

सर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना
हेमाभं प्राक्चतुष्कं तद् इन्द्रचापसमप्रभम् ॥

9.31

चतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितम्
कपालमालाभरणं प्रहसत्तु विचिन्तयेत् ॥

9.32

आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेत्
दण्डहस्तं स्मरेद्याम्यां कृष्णवर्णं सुभीषणम् ॥

9.33

नीलमिन्दीवराभासं नैरृतं खड्गहस्तकम्
श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेत् ॥

9.34

धूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलम्
उत्तरं धवलं ज्ञेयं गदाखेटकधारि च ॥

9.35

स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकम्
एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेत् ॥

9.36

वत्सरार्धाद्वरारोहे तस्य सिद्धिस्त्रिधा भवेत्
महेन्द्रे मलये सह्ये पारियात्रे ऽर्बुदे तथा ॥

9.37

विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये
गङ्गायमुनासंबाधे कुरुक्षेत्रे वरानने ॥

9.38

गङ्गाद्वारे प्रयोगे च ब्रह्मावर्ते समास्थितः
अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च ॥

9.39

सुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे
येषु येषु प्रदेशेषु स्वयंभूर्भगवाञ्छिवः ॥

9.40

तेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः
वाङ्निरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः ॥

9.41

शाकभक्षः फलाहारी नीवाराद्यशने रातः
त्रिकालपूजानिरतो ऽथाग्निकार्यपरायणः ॥

9.42

भावितात्मा महासत्त्वो रक्षायाश्च विधानवीत्
तस्य मन्त्रः प्रसिद्ध्येत्तु साधयेत्सचराचरम् ॥

9.43

कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः
सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परम् ॥

9.44

देवयोन्यष्टकं चैव प्रधानपुरुषान्तकम्
नियतिः कालतत्त्वं च रागो विद्या कला तथा ॥

9.45

माया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरम्
सर्वं सिद्ध्यत्यनायासान् मन्त्रराजप्रब्भावतः ॥

9.46

पूर्वोक्तं कर्म वै क्षिप्रम् अधमं मध्यमोत्तमम्
साधयेन्नात्र संदेहो भैरवस्य वचो यथा ॥

9.47

अथैकवीरमाश्रित्य अङ्गषट्कसमन्वितम्
जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये ॥

9.48

पूजयेत्पूर्वविधिना जपहोमार्चने रतः
ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् ॥

9.49

प्राप्नोति चिन्तितान्कामान् देवि नास्त्यत्र संशयः
अथ रक्षाविधानेषु अघोरं योजयेद्यथा ॥

9.50

तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु
द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि ॥

9.51

नाभिकेसरसंयुक्तं सुसमं तु वरानने
गोरोचनां तु संगृह्य सिद्धालक्तकसंयुताम् ॥

9.52

दूर्वाकाण्डेन देवेशि हरितेन समालिखेत्
विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितम् ॥

9.53

शक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेत्
कषमध्ये वरारोहे नयनाद्यन्तरोधितम् ॥

9.54

ईकारवेष्टितं कृत्वा अरकस्था निवेशयेत्
पूर्वोक्तदेवता देवि तद्गर्भे साध्यमालिखेत् ॥

9.55

भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेत्
त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः ॥

9.56

ऊर्ध्वे चैव तु संरोध्य क्रोंकारेण वरानने
इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेत् ॥

9.57

वेष्टयेच्चैव तद्भूर्जम् अरन्ध्रं निर्व्रणं समम्
पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने ॥

9.58

सिक्थेन मुटयेत्पश्चात् क्षौद्रमध्ये निधापयेत्
यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये ॥

9.59

अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेत्
तस्य मृत्युर्न जायेत इत्येवं भैरवो ऽब्रवीत् ॥

9.60

कपालीशस्य गर्भे तु नाम यस्य समालिखेत्
भूर्जपत्रे वरारोहे रोचनाया रसेन तु ॥

9.61

ओंकारपुटमध्यस्थं रोधितं नयनाक्षरैः
वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते ॥

9.62

शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेत्
अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेत् ॥

9.63

तस्य वै जायते दाहः फट्काराद्यन्तरोधितम्
ज्वलन्तं चिन्तयेत्साध्यं दिनानां सप्तकं यदि ॥

9.64

तत्क्षणाज्जायते दाहो भैरवस्य वचो यथा
क्रोधराजनिरुद्धं तु श्मशानपटमध्यगम् ॥

9.65

श्मशानादलिना लेख्यं विषरक्तान्वितेन तु
यस्य नाम वरारोहे हुंफट्कारविदर्भितम् ॥

9.66

मारयेतिसमायोगात् क्रूरजातिसमन्वितम्
म्रियते सप्तरात्रेण यो रक्षाभिः सुरक्षितः ॥

9.67

विकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः
साध्यनाम्नस्तु देवेशि हुंफट्कारविदर्भिणः ॥

9.68

न क्षामयत्ययत्नेन तस्य शत्रोर्भयं भवेत्
मन्मथेन युतं कृत्वा साध्यनाम वरानने ॥

9.69

ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितम्
अमुको ऽत्र वरारोहे तद्दिशो ऽभिमुखः स्थितः ॥

9.70

अमुकस्य वशं यातु जपहोमौ समाचरेत्
सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः ॥

9.71

मेघनादावसाने तु नाम यस्य समालिखेत्
यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितम् ॥

9.72

प्रेतस्थाने निधाप्यैतद् भैरवं तत्र पूजयेत्
अक्षपुष्पैर्वरारोहे तद्दिशो ऽभिमुखः स्थितः ॥

9.73

तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः
सोमराजेन देवेशि आदिमध्यान्तसंयुतम् ॥

9.74

नाम यस्य समालिख्य वषड्जातिसमन्वितम्
संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि ॥

9.75

सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च
असाध्यं साधयत्याशु धनं च विपुलं लभेत् ॥

9.76

पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकाम्
संज्ञां समुच्चरेद्देवि क्रूरजातिसमन्विताम् ॥

9.77

उन्मत्तो जायते साद्यो होमेन च जपेन च
मृत्युन्ञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु ॥

9.78

भूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समम्
तस्मिन्समालिखेत्पद्मम् अष्टपत्रं सकर्णिकम् ॥

9.79

तस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेत्
संवेष्टयाष्टौ दिशो देवि स्वच्छन्देन कृशोदरि ॥

9.80

प्रणवेन तु संवेष्ट्य पत्रेष्वेवं समालिखेत्
पत्राष्टके ऽप्यघोरस्य नामाधस्तात्समालिखेत् ॥

9.81

वक्तव्यं देव संरक्ष शरणं त्वामुपागतम्
आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरम् ॥

9.82

जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेत्
पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेत् ॥

9.83

मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेत्
जायते परमा शान्तिः पुनरन्यन्निबोध मे ॥

9.84

जुंसः संपुटमध्यस्थं प्रणवोभयसंयुतम्
नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये ॥

9.85

परां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते
भूर्जपत्रं समादाय रोचनाया वरानने ॥

9.86

मातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेत्
तदभ्यन्तरगर्भे तु स्वरैरन्तरीतं कुरु ॥

9.87

पुनर्गर्भे समालिख्य साध्यनाम वरानने
ध्रुवेण वेष्टयेत्पश्चाद् वकारेण ततः प्रिये ॥

9.88

सकारं च क्षकारं च लिखेच्च तदनन्तरम्
पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते ॥

9.89

अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीम्
स्वच्छन्दसहितां देवि प्रणवेनादियोजिताम् ॥

9.90

वषड्जातिसमोपेतां कर्पूरक्षोदचर्चिताम्
गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये ॥

9.91

जायते परमा शान्तिर् नात्र कार्या विचारणा
अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेत् ॥

9.92

तस्य व्याधिर्न जायेत इत्येवं भैरवो ऽब्रवीत्
त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितम् ॥

9.93

भोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा
न तस्य जायते मृत्युर् भैरवस्य वचो यथा ॥

9.94

अथा हिना महादेवि दूषितः साधको यदा
मूलमन्त्रसमोपेतम् अघोरं तत्र योजयेत् ॥

9.95

आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणम्
दंष्ट्राकरालविकटं ज्वालामालोपशोभितम् ॥

9.96

सर्पैर्ललल्लम्बमानैः खड्गहस्तं सुभीषणम्
पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभम् ॥

9.97

तेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेत्
तज्ज्वालाभिः सुदीप्ताभिर् दग्धं संचिन्तयेद्विषम् ॥

9.98

तत्क्षणाद्देवदेवेशि निर्विषः स तु जायते
ग्रहेष्वेवं विधं ध्यानं यः कुर्यान्मोचयेत्क्षणात् ॥

9.99

अथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेत्
तदागदैर्महादेवि निर्विषं कुरुते क्षणात् ॥

9.100

कुमारिद्वितयं गृह्य नागिन्या तु सहैकतः
गोकर्णिकासितं मूलं सोमाह्वामूलसंयुतम् ॥

9.101

आमगोक्षीरसंपिष्टं भक्षयेन्निर्विषो भवेत्
गोनिम्बस्य च मूलेन निर्विषत्वं प्रजायते ॥

9.102

अश्वमारस्य मूलं तु उदकेन तु पेषयेत्
पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥

9.103

आरग्वधस्य मूलं तु उदकेन च पेषयेत्
पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥

9.104

मधुकस्य तु सारं यन् नस्ये पाने प्रयोजयेत्
निर्विषस्तु प्रजायेत भैरवस्य वचो यथा ॥

9.105

जम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेत्
निर्विषस्तु भवेद्देवि नात्र कार्या विचारणा ॥

9.106

षड्बिन्दुपटखर्जूर सूक्ष्मचूर्णं तु कारयेत्
मयूरपित्तसंयुक्तं गुटिकां कारयेत्प्रिये ॥

9.107

त्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेत्
न विषं क्रमते तस्य यश्च दष्टो महोरगैः ॥

9.108

अगदान्घृतसंयुक्तान् पिबेद्वै विषदूषितः
न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः ॥

9.109

एवमन्ये ऽपि ये योगाः स्वच्छन्देन विनिर्मिताः
कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ॥

9.110

[प्रदद्याद्भावितात्मा च सिद्ध्यन्ते नात्र संशयः
स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवर्तितम्] ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc