सुवर्णप्रभाससूत्र · अध्याय 4
अथ खलु रुचिरकेतुर्बोधिसत्त्वस्तेषां बुद्धानां भगवतां तयोश्च द्वयोः सत्पुरुषयोरन्तिकाद्भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातश्चोदारेण प्रीतिप्रामोद्येन स्फुटो ऽभूत् । अस्मिंस्तथागतायुःप्रमाणनिर्देशे निर्दिश्यमाने ऽप्रमेयाणामसंख्येयानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । ते च तथागता अन्तरिता इति ।
इति श्रीसुवर्णप्रभासोओत्तमसूत्रेन्द्रराजे तथागतायुःप्रमाण निर्देशपरिवर्तो नाम द्वितीयः ॥
॥ स्वप्नपरिवर्तः ॥
अथ खलु रुचिरकेतुर्नाम बोधिसत्त्वः स्वुप्तः स्वप्नान्तरगतः सुवर्णां सुवर्णमयीं भेरीमद्राक्षीत् । समन्तादवभासमानां तद्यथापि नाम सूर्यमण्डलं सर्वासु दिक्ष्वप्रमेयानसंख्येयान्बुद्धानद्राक्षीद्रत्नवृक्षमूले सिंहासने वैडूर्यमये प्रतिनिषण्णाननेकशतसहस्रिकायां परिषदायां परिवृतायां पुरस्कृतायां धर्मदेशयमानान् । तत्र च ब्राह्मणरूपेण पुरुषमद्राक्षीत् तां भेरीं पराहन्तम् । तत्र भेरीशब्दादिमामेवंरूपां गाथां निश्चरमाणामश्रौषीत् ।
अथ खलु रुचिरकेतुर्बोधिसत्त्वः प्रतिविबुद्धः समनन्तरं तां धर्मदेशनागाथामनुस्मरति स्म । अनुस्मरमाणस्तस्या रात्र्या अत्ययेन राजगृहान्महानगरान्निष्क्रम्यानेकैः प्राणिसहस्रैः सार्धं येन गृध्रकूटः पर्वतराजो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्ते न्यषीदत् ।
अथ खलु रुचिरकेतुर्बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य याश्चैव ताः स्वप्नान्तरे दुन्दुभिशब्देन देशनागाथाः श्रुतास्ता उवाच ।
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे स्वप्नपरिवर्तो नाम तृतीयः ॥
॥ देशनापरिवर्तः ॥
एकरात्रमतन्द्रेण स्वप्नान्तरगतं मया ।
दुन्दुभी रुचिरा दृष्टा समन्तकनकप्रभा
ज्वलमानं यथा सूर्यं समन्तेन विरोचितम् ।
प्रभासिता दश दिशो दृष्टा बुद्धाः समन्ततः
निषण्णा रत्नवृक्षेषु वैडूर्ये च प्रभास्वरे ।
अनेकशतसाहस्र्या परिषदा प्रभास्कृताः
दृष्टा ब्राह्मणरूपेण पराहन्यन्ती दुन्दुभी ।
तेनास्यास्ताड्यमानाया इमे श्लोका अभिश्रुताः
सुवर्णप्रभासोत्तमदुन्दुभेन शाम्यन्तु दुःखा त्रिसहस्रलोके ।
अपायदुःखा यमलोकदुःखा दारिद्रदुःखानि तथैव लोके
अनेन चो दुन्दुभिशब्दनादिना शाम्यन्तु सर्वव्यसनानि लोके ।
समन्तसत्त्वा हृदयाहता तथा तथाभया शान्तभया मुनीन्द्र
यथैव सर्वार्यगुणोपपन्नः संसारसर्वज्ञमहामुनीन्द्रः ।
तथैव भोन्तु गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैरुपेताः
अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्त्वाः ।
स्पृशन्तु बुद्धत्ववराङ्गबोधिं प्रवर्तयन्तू शुभधर्मचक्रम्
तिष्ठन्तु कल्पानि अचिन्तियानि देशेन्तु धर्मं जगतो हिताय ।
हनन्तु क्लेशान्विधमन्तु दुःखां शमेन्तु रागं तथ दोषमोहम्
ये सत्त्व तिष्ठिन्ति अपायभूमौ आदीप्तसंप्रज्वलिताग्निगात्राः ।
शृण्वन्तु ते दुन्दुभिसंप्रवादितां नमो ऽस्तु बुद्धाय वचो लभन्तु
जातिस्मराः सत्त्व भवन्तु सर्वे जातीशता जातिसहस्रकोट्यः ।
अनुस्मरन्तः सततं मुनीन्द्रं शृण्वन्तु तेषां वचनं ह्युदारम्
अनेन चो दुन्दिभि घोषनादिना लभन्तु बुद्धेहि सदा समागमम् ।
विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि
नरासुराणामपि सर्वप्राणीनां याचन्तु तां देशनप्रार्थनाय ।
अनेन चो दुन्दुभिघोषनादिना तत्सर्वि तेषां परिपूरयेयम्
ये घोरनरके उपपन्नसत्त्वा आदीप्तसंप्रज्वलिताग्निगात्राः ।
निस्तीर्णशोकाश्च परिभ्रमन्ति निर्वापणं भेष्यति तेषु चामुना
ये दुःखसत्त्वाः सुदारुणार्श्च घोरा नरकेषु प्रेतेषु मनुष्यलोके ।
अनेन च दुन्दुभिघोषनादिना सर्वे च तेषां प्रशमन्तु दुःखाः
निस्राणमपरित्राणमशरण्यं कृतानि च ।
त्राता तेषां भवेयं च शरण्यः शरणोत्तमः
समन्वाहरन्तु मां बुद्धां कृपाकारुण्यचेतसः ।
अत्ययं प्रतिगृह्णन्तु दशदिक्षु व्यवस्थिताः
यच्च मे पापकं कर्म कृतपूर्वं सुदारुणम् ।
तत्सर्वं देशयिष्यामि स्थितो दशबलाग्रतः
मातापितॄनवजानन्ता बुद्धानामप्रजानता ।
कुशलं चाप्रजानन्ता यत्तु पापं कृतं मया
एश्चर्यमदमत्तेन कुलरूपमदेन च ।
तारुण्यमदमत्तेन यत्तु पापं कृतं मया
दुश्चिन्तितं दरुक्तं च दुष्कृतेनापि कर्मणा ।
अनादीनवदृष्टेन यत्तु पापं कृतं मया
बालबुद्धिप्रचारेण अज्ञानावृतचेतसा ।
पापमित्रवशाच्चैव क्लेशव्याकुलचेतसा
क्रीडारतिशाच्चैव शोकरोगवशेन च ।
अतृप्तधनदोषेण यत्तु पापं कृतं मया
अनार्यजनसंसर्गादीर्ष्यामात्सर्यहेतुना ।
शाठ्यदारिद्रदोषेण यत्तु पापं कृतं मया
व्यसनागमकाले ऽस्मिन्कामानां भयहेतुना ।
अनैश्वर्यगतेनापि यत्तु पापं कृतं मया
चलचित्तवशेनैव कामक्रोधवशेन वा ।
क्षुप्तिपासार्दितेनापि यत्तु पापं कृतं मया
पानर्थां भोजनार्थं च वस्त्रार्थं स्त्रीप्सुहेतुना ।
विविधक्लेशसंतापैर्यत्तु पापं कृतं मया
कायवाङ्भानसं पापं त्रिधातुचरितं च तत् ।
यत्कृत्मीदृशैः रूपैस्तत्सर्वं देशयाम्यहम्
यत्तद्बुद्धेषु धर्मेषु श्रावकेषु तथैव च ।
अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्
यत्तत्प्रत्येकबुद्धेषु बोधिसत्त्वेषु वा पुनः ।
अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्
सद्धर्मः प्रतिक्षिप्तः स्यादजानन्तेन मे सदा ।
मातापितृष्वगौरवं तत्सर्वं देशयाम्यहम्
मूर्खत्वेनापि बालत्वान्मानदर्पावृतेन च ।
रागद्वेषेण मोहेन तत्सर्वं देशयाम्यहम्
पूजयित्वा दशदिशि लोके दशबलाञ्जिनान् ।
उद्धरिष्याम्यहं सत्त्वान्सर्वदुःखाद्दशद्दिशि
स्थापयिष्ये दशभुवि सर्वसत्त्वानचिन्तियान् ।
दशभूमौ हि स्थित्वा च सर्वे भोन्तु तथागताः
एकैकस्य हि सत्त्वस्य चरेयं कल्पकोटयः ।
यावच्छक्यं हि तत्सर्वं मोक्षितुं दुःखसागरात्
तेषां सत्त्वानां देशेयं गम्भीरां देशनामिमाम् ।
स्वर्णप्रभोत्तमां नाम सर्वकर्मक्षयंकरीं
येन कल्पसहस्रेषु कृतं पापं सुदारुणम् ।
एकवेलं प्रकाशन्तु सर्वे व्रजन्तु संक्षयम्
देशयिष्ये इमां धर्मां स्वर्णप्रभामनुत्तराम् ।
ये शृण्वन्ति शुभां तेषां संयान्तु पापसंक्षयम्
स्थास्यामि दशभूमौ तान्दशरत्नाकरे वरे ।
आभासयन्बुद्धगुणैस्तरेयं भवसागरात्
यच्च बुद्धसमुदौघं गम्भीरं गुणसागरम् ।
अचिन्तियबुधगुणैः सर्वज्ञत्वं प्रपूरये
समाधिशतसाहस्रैर्धारणीभिरचिन्तितैः ।
इन्द्रियबलबोध्यङ्गैर्भवे दशबलोत्तमः
व्यवलोकय मां बुद्ध समन्वाहृतचेतसा ।
अत्ययं प्रतिगृह्णातु विमोचयतु मां भयात्
यत्तु पापं कृतं पूर्वं मया कल्पशतेषु च ।
तस्यार्थे शोकचित्तो ऽहं कृपणस्तृष्णयार्दितः
विभेमि पापकर्मो ऽहं सततं हीनमानसः ।
यत्र यत्र चरिष्यामि न चास्ति मङ्गलं क्वचित्
सर्वे कारुणिका बुद्धाः सत्त्वभयहराः जिनाः ।
अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात्
क्लेशकर्मफलं मह्यं प्रवाहन्तु तथागताः ।
स्नापयन्तु च मां बुद्धाः कारुण्यविमलोदकैः
सर्वपापं देशयामि यत्तु पूर्वं कृतं मया ।
यच्च ह्येतर्हि मे पापं तत्सर्वं देशयाम्यहम्
आयत्या सर्वमापद्यन्सर्वदुष्कृतकर्मणा ।
न च्छादयामि तत्पापं यद्भवेन्मम दुष्कृतम्
त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम् ।
मानसं त्रिप्रकारं च तत्सर्वं देशयाम्यहम्
कायकृतं च वाक्कृतं मनसा च विचिन्तितम् ।
कृतं दशविधं कर्म तत्सर्वं देशयाम्यहम्
दशाकुशल वर्जित्वा सेवित्वा कुशलान्दश ।
स्थास्यामि दशभूमौ च पश्ये दशबलोत्तमम्
यच्च मे पापकं कर्म अनिष्टफलवाहकम् ।
तत्सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः
ये चापि जम्बुद्वीपे ऽस्मिन्ये चान्यलोकधातुषु ।
कुर्वन्ति कुशलं कर्म तत्सर्वमनुमोदये
यच्च पुण्यार्जितं मह्यं कायवाङ्भनसापि च ।
तेन कुशलमूलेन स्पृशेयं बोधिमुक्तमाम्
भवगतिसंकटबालबुद्धिना पापं ह्यपि यच्च कृतं सुदारुणम् ।
दशबलसंमुखमग्रतः स्थितस्तत्सर्वपापं प्रतिदेशयामि च
तत्पापं समुच्चितं जन्मसंकटे विविधकामप्रचारसंकटे ।
लोकसंकटे भवसंकटे च सर्वमूर्खकृतक्लेशसंकटे
चापल्यमदनचित्तसंकटे पापमित्रागमसंकटैरपि ।
संसारसंकटरागसंकटे द्वेषमोहतमसंकटैरपि
अक्षयसंकटकालसंकटे पुण्यमपार्जनसंकटैरपि ।
अतुलियजिनसंमुखस्थितः तत्सर्वपापं प्रतिदेशयामि च
वन्दामि बुद्धान् गुणसागरोपमान् सुवर्णवर्णानवभासितदिगन्तान् ।
तेषां जिनानां शरणं व्रजामि मूर्ध्रा च तान्सर्वजिनान्नमामि
सुवर्णवर्णं ---- कनकाचलाभम् वैडूर्यनिर्मलविशुद्धसुलोचनाङ्गम् ।
श्रीतेजकीर्तिज्वलनाकरबुद्धसूर्यं करुणाप्रभं विधमकं तमसान्धकानाम्
सुनिर्मलं सुरुचिरं सुविराजिताङ्गं संबुद्धसूर्यकनकामलनिःसृताङ्गम् ।
क्लेशाग्नितप्तमनसां ज्वलनाग्निकल्पं प्रह्लादनं मुनिनिशाकररश्मिजालम्
द्वात्रिंशलक्षणधरं ललितेन्द्रियाङ्गम् अनुव्यञ्जनः सुरुचिरं सुविराजिताङ्गम् । श्रीपुण्यतेजज्वलनाकुलरश्मिजालं संतिष्ठसे तमसि सूर्य इव त्रिलोके
वैडूर्यनिर्मलविशालविचित्रवर्णस्ताम्रारुणै रजतस्फटिकलोहिताङ्गम् ।
नानाविचित्रसमलङ्कृतरश्मिजालं त्वं संविरोचसि महामुनि सूर्यकल्पः
संसारनद्यपतितव्यसनौघमध्ये शोकाकुले मरणतोयजरातरङ्गे ।
दुःखार्णवे परमकम्पितचण्डवेगे संतारय सुगतभास्कररश्मिजालैः
वन्दामि बुद्धान् कनकोज्वलाङ्गान् सुवर्णवर्णव्यवभासिताङ्गान् ।
ज्ञानाकरान् सर्वत्रिलोकसारान् विचित्ररूपान् शुभलक्षणाङ्गान्
यथा समुद्रे जलमप्रमेयं यथा मही चाणुरजैरनन्ता ।
यथोपलैर्मेरुरनन्ततुल्यो यथैव चाकाशमनन्तपारम्
तथैव बुद्धस्य गुणा अनन्ताः न शक्य ज्ञातुं खलु सर्वसत्त्वैः ।
अनेककल्पानि तु चिन्तयन्ते न शक्य पर्यन्तगुणानि ज्ञातुम्
मही सशैला सगिरिः ससागरा गणं तु कल्पैरपि शक्य जानितुम् ।
जलं च वालाग्रमपि प्रमाणं न शक्य बुद्धस्य गुणाग्रपारम्
एतादृशी सत्त्व भवन्तु सर्वे गुणेन वर्णेन यशेन कोट्या ।
गात्रेण ते शोभितलक्षणेन अशीत्यनुव्यञ्जनमण्डितेन
अनेन चाहं कुशलेन कर्मणा भवेय बुद्धो न चिरेण लोके ।
देशेय धर्मं जगतो हिताय मोचेय सत्त्वान्बहुदुःखपीडितान्
जयेय मारं सबलं ससैन्यं प्रवर्तयेयं शुभधर्मचक्रम् ।
तिष्ठेय कल्पानि अचिन्तियानि तर्पेय सत्त्वानमृतेन पाणिना
पूरेय षट्पारमिता अनुत्तरा यथैव पूर्वं जिनपूर्वकानाम् ।
हनेय क्लेशान्विधमेय दुःखान् शमेय रागांस्तथ द्वेषमोहान्
जातिस्मरो नित्य भवेय चाहं जातिशता जातिसहस्रकोट्यः ।
अनुस्मरेयं सततं मुनीन्द्रं शृण्वीय तेषां वचनं ह्युदारम्
अनेन चाहं कुशलेन कर्मणा लभेय बुद्धेहि सदा समागमम् ।
विवर्जयेयं खलु पापकर्म चरेय पुण्यानि शुभाकराणि
सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च पापाः प्रशमन्तु लोके ।
ये सत्त्वा विकलेन्द्रिय अङ्गहीनाः ते सर्वि कुशलेन्द्रिय भोन्तु सांप्रतम्
ये व्याधिना दुर्बलक्षीणगात्रा निश्राणभूताश्च दशोदिशासु ।
ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्यबलेन्द्रियानि
कुराजचौरसमार्जितबध्यप्राप्ता नानाविधैर्मयशतैर्व्यसनोपपन्नाः ।
ते सर्वि सत्त्वा व्यसनागतदुःखिता हि मुच्यन्तु ते भयशतैः परमैः सुघोरैः
ये पीडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु संस्थिता हि ।
अनेकआयाससहस्रव्याकुला विचित्रभयदारुणशोकप्राप्ताः
ते सर्वे मुच्यन्तु च बन्धनेभ्यः संताडिता मुच्यन्तु च ताडनेभ्यः ।
वध्याश्च मुच्यन्तु जीवितेभ्यो व्यसनागता निर्भया भोन्तु सर्वे
ये सत्त्व क्षुत्तर्षनिपीडिताश्च लभन्तु ते भोजनपानचित्रम् ।
अन्धाश्च पश्यन्तु विचित्ररूपान् वधिराश्च शृण्वन्तु मनोज्ञघोषान्
नग्नाश्च वस्त्राणि लभन्तु चित्रा दरिद्रसत्त्वाश्च धनांल्लभन्तु ।
प्रभूतधनधान्यविचित्ररत्नाः सर्वे च सत्त्वाः सुखिनो भवन्तु
मा कस्यचिद्धावतु दुःखवेदना सुदर्शनाः सत्त्व भवन्तु सर्वे ।
अभिरूपप्रासादिकसौम्यरूपा अनेकसुखसंचित नित्य भोन्तु
मनःशान्तपौराः सुसमृद्धपुण्याः वीणा मृदङ्गा पटहा सुघोषा ।
उत्साः सराः पुष्करिणी तडागाः सुवर्णपद्मोत्पलपद्मिनीभिः
सहचित्तमात्रेण तु तेष भोन्तु अन्नं च पानं च तथैव वस्त्रम् ।
धनं हिरण्यं मणिमुक्तिभूषणं सुवर्णवैडूर्यविचित्ररत्नम्
मा दुःखशब्दाः क्वचि लोकि भोन्तु भा चैकसत्त्वः प्रतिकूलदर्शी ।
सर्वे च ते भोन्तु उदारवर्णाः प्रभाकरा भोन्तु परस्परेण
या काचि संपत्ति मनुष्यलोके सा तेषु भोतू मनसोपपत्तिः ।
सर्वाभिप्राया सहचित्तमात्रैः पुण्येन फलेन परिपूरयन्तु
गन्धं च माल्यं च विलेपनं च धूपं च चूर्णं कुसुमं च पूर्णम् ।
त्रिकाले वृक्षेहि प्रवर्षयन्तु गृह्णन्तु ते सत्त्व भवन्तु तुष्टाः
कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम् ।
सबोधिसत्त्वान् सश्रावकाणां धर्मस्य बोधिप्रतिसंस्थितस्य
नीचां गतिं सर्वि विवर्जयन्तु तरन्तु अष्टाङ्गिकवीचिवृत्ताः ।
आसादयन्तु जिनराजमूर्ति लभन्तु बुद्धेहि सदा समागमम्
उच्चैः कुलीना हि भवन्तु नित्यं प्रभूतधनधान्यसमृद्धकोशाः ।
रूपेण शौर्येण यशेन कीर्त्या समलङ्कृता भोन्तु अनेककल्पान्
सर्वा स्त्रियो नित्य नरा भवन्तु शूराश्च वीराश्च विज्ञपण्डिताश्च ।
ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु
पश्यन्तु बुद्धान् दशसू दिशासु रत्नोत्तमवृक्षसुखोपविष्टान् ।
वैडूर्यसिंहासनि संनिषण्णान् शृण्वन्तु धर्मांश्च प्रकाश्यमानान्
पापानि कर्माणि मया जितानि पूर्वार्जिता यद्भवसंकटेषु ।
ये पापकर्माभिरता वहन्ते ते सर्वि क्षीयन्तु च निर्विशेषाः
ते सर्वसत्त्वा भवबन्धनस्थाः संसारपाशैर्दृढबन्धबद्धाः ।
प्रज्ञाकरैर्भासित भोन्तु बन्धनान्मुच्यन्तु दुःखैरुपजा भवन्तु
ये चापि सत्त्वा इह जाम्बुद्वीपे ये चापि अन्यषु च लोकधातुषु ।
कुर्वन्तु गम्भीरविचित्रपुण्यं तत्सर्वपुण्यं ह्यनुमोदयामि
तेनैव पुण्याभ्यनुमोदनेन कायेन वाचा मनसार्जितेन ।
प्रणिधानसिद्धिः सफला मयास्तु स्पृशेय बोधिं विरजामनुत्तराम्
यो वन्दते तोष्यति दशबलान् सदा च प्रसन्नशुद्धामलमानसेन ।
इमाय परिणामनदेशनाय षष्टिं च कल्पान् जहते अपायान्
एतेभि श्लोकेभि च वर्णितेभिः पुरुषाः स्त्रियो ब्रह्मणक्षत्रिया च ।
यस्तोष्यते मुनिं स कृताञ्जलिभिः स्थिहित्व सर्वत्र जातिस्मरु शतजातिषु
सर्वाङ्ग सर्वेन्द्रिय शोभिताङ्गो विचित्रपूर्णेभिर्गुणैरुपेतः ।
नरेन्द्रराजैश्च सुपूजितः सदा एतादृशो भेष्यति तत्र तत्र
न तैरेकस्य बुद्धस्य चान्तिके कुशलं कृतम् ।
न द्वयोरपि त्रयेषु न पञ्चसु न दशसु
तथा बुद्धसहस्राणामान्तिके कुशलं कृतम् ।
येषामिदं कर्णपुटे देशनं प्रविष्यतीति
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0