सुवर्णप्रभाससूत्र · अध्याय 5
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे देशनापरिवर्तो नाम चतुर्थः ॥
॥ कमलाकरसर्वतथागतस्तवपरिवर्तः ॥
अथ खलु भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् । तेन खलु पुनः कुलदेवते कालेन तेन समयेन राजा सुवर्णभुजेन्द्रो नामासीत् । एतेन कमलाकरेण सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नान् बुद्धान् भगवतो ऽभ्यस्तावीत् ॥
ये जिन पूर्वक ये च भवन्ति ये च ध्रियन्ति दशोदिशि लोके ।
तेष जिनान करोमि प्रणामं तं जिनसंघमहं प्रशयिष्ये
शान्तप्रशान्तविशुद्धमुनीन्द्रं सुवर्णवर्णप्रभासितगात्रम् ।
सर्वसुरासुरसुस्वरबुद्धं ब्रह्मरुते स्वरगर्जितघोषम्
षट्पदमौलमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् ।
शङ्खतुषारसुपाण्डलदन्तं हेमविराजितभासितनाभम्
नीलविशालविशुद्धसुनेत्रं नीलमिवित्पलप्रच्युतिभासम् ।
पद्मसुवर्णविशालसुजिह्वं पद्मप्रभासितपद्ममुखाभम्
शङ्खमृणालनिभामुखतोर्णं दक्षिणवर्तितवेरुलिवर्णम् ।
सूक्ष्मनिशाकरक्षीणशशीव गात्र मुनेर्म्रमराज्वलनाभम्
काञ्चनकोटि सुवर्णमृदुरं नासमुखोन्नत पीवरघ्राणम् ।
अग्रधराग्रविशिष्टसुनासं मृदुक सर्वजिनांश सततम्
एकसमे चित्तरोममुखाग्रं वालसुरोमप्रदक्षिणवर्तम् ।
नीलनिभा ज्वलकुण्डलजातं नीलविराजितमौलिसुग्रीवम्
जातसमानप्रभासितगात्रं पूजितसर्वि देशोदिशि लोके ।
दुःखमनन्तप्रशान्तत्रिलोके सर्वसुखेन च तर्पितसत्त्वम्
नरकगातिष्वथ तिर्यग्गतीषु प्रेतसुरासुरमनुष्यगतीषु ।
तेषु च सर्वसुखार्पितसत्त्वं सर्वप्रशान्त अपायगतीषु
वर्णसुवर्णकनाकनिभासं काञ्चनतप्तप्रभासितगात्रम् ।
सौम्यशशाङ्कसुविमलवक्रं विकासितराजितसुविमलवदनम्
तरुणतनूरुहकोमलगात्रं सिंहमिवाक्रमविक्रमनागम् ।
लम्बितहस्त प्रलम्बितबाहुं मारुतप्रेरितशाललतेव
व्योमप्रभाज्वलमुञ्चितरश्मिं सूर्यसहस्रमिव प्रतपन्तम् ।
निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासित क्षेत्रमनन्तम्
चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रशतेषु ।
ते ऽपि च निष्ठित सर्वमभूषि बुद्धप्रभासविरोचनतायै
बुद्धदिवाकरलोकप्रदिपं बुद्धदिवाकरशतसहस्रम् ।
क्षेत्रमनन्तसहस्रशतेषु पश्यतु सत्त्व तथागतसूर्यम्
पुण्यसहस्रशताच्चितकायं सर्वगुणेभिरलङ्कृतगात्रम् ।
शौण्डगजेन्द्रनिभं जिनबाहुं विमलसुलक्षणमण्डितहस्तम्
भूमितलोपमरजसमतुल्यं सूक्ष्मरजोपम ये गतबुद्धाः ॥
सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये च स्थिहन्ति
तेष जिनान करोमि प्रणामं कायतु वाचमनेन प्रसन्नः ।
पुष्पप्रदानसुगन्धप्रदानैर्वर्णशतेन सुचेतसि चापि
जिह्वशतैरपि बुद्धगुणानि कल्पसहस्रशते न हि वक्तुम् ।
ये गुणसाधुनिवृत्ति जिनानां सा च वराग्रविचित्र अनेकैः
एकजिनस्य गुणा न हि शक्या जिह्वशतैरपि भाषितु कश्चित् ।
काममशक्ति हि सर्वजिनानां एकगुणस्य हि विस्तर वक्तुम्
सर्वसदेवकुलोक्तसमूहः सर्वभवाग्रभवे जलपूर्णा ।
केशग्रहणेन तु शक्य प्रमातुं नैव च एकगुणा सुगतानाम्
वर्णित संस्तुत मे जिनसर्वं कायतु वाच प्रसन्नमनेन ।
यन्मम सञ्चितपुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम्
एवं स्तवित्व नरपति बुद्धं एवं करोति नृपः प्रणिधानम् ।
यत्र च कुत्रचि मह्य भवेत जाति अनागतकल्पमनन्ता
ईदृशि भेरि मि पश्यमि स्वप्ने ईदृश देशन तत्र शृणोमि ।
ईदृश जीनस्तुतिकमलाकर जातिषु तत्र लभे स्मरणत्वम्
बुद्धगुणानि अनन्तमतुल्या ये ऽपि च दुर्लभ कल्पसहस्रैः ।
अमु श्रुणेय च स्वप्नगतो ऽपि तेषु च देशयि दिवसगतो ऽपि
दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभि पि पारमिताभिः ।
बोधिमनुत्तर पश्च लभेयं क्षेत्र भवेत ममा असमर्थ्यम्
भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः ।
संमुख पश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम्
ये इम दारक द्वौ मम पुत्रौ कनकेन्द्र कनकप्रभास्वरः ।
ते उभि दारक तत्र लभेयं बोधिमनुत्तर व्याकरणं च
ये ऽपि च सत्त्व अरक्ष अत्राणा शरणविहीन वियासगताश्च ।
तेषु भवेय अनागत सर्व त्राणपरायणशरणेभिश्च
दुःखसमुद्भवसंक्षयकर्ता सर्वसुखस्य च आकरभूतः ।
कल्प अनागत बोधि चरेयं यत्तक पूर्वककोटिगताश्च
स्वर्णप्रभोत्तमदेशनताय पापसमुद्र शोषतु मह्यम् ।
कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विच्छिद्यतु मह्यम्
पुण्यसमुद्र प्रपूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् ।
विमलज्ञानप्रभासबलेन सर्वगुणान समुद्र भवेया
बोधिगुणैर्गुणरत्न प्रपूर्णा देशनस्वर्ण प्रभासबलेन ।
पुण्यप्रभास भविष्यति मह्यं बोधिप्रभास विशोध्यतु मह्यम्
कायप्रभास भविष्यति मह्यं पुण्यप्रभास विरोचनता च ।
सर्वत्रिलोकि विशिष्ट भवेयं पूण्यबलेन समन्वित नित्यम्
दुःखसमुद्र उत्तारयिता सर्वसुखस्य च सागरकल्प्य ।
कल्पमनागत बोधि चरेयं यत्तकपूर्वककोटिगताश्च
यादृशक्षेत्रविशिष्ट त्रिलोके सर्वजिनानमनन्त गुणेन ।
तादृशक्षेत्रमनन्तगुणं भेष्यति मह्यमनागतसर्वम्
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0