भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 2

2.1

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे निदानपरिवर्त्तो नाम प्रथमः ॥
॥ तथागतायुःप्रमाणनिर्देशपरिवर्तः ॥
तेन खलु पुनः कालेन तेन समयेन राजगृहे महानगरे रुचिरकेतुर्नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धकोटिनियुतशतसहस्रपर्युपासितः । तस्यैतदभवत्, को हेतु कः प्रत्ययो यद्भगवतः शाक्यमुनेरेवं परीत्तमायुः प्रमाणं यदुताशीतिवर्षाणीति ।
पुनस्तस्यैतदभवत्, उक्तं चैव भगवता द्वौ हेतू द्वौ च प्रत्ययौ दीर्घायुष्कतायाम् । कतमौ द्वौ प्राणातिपातविरमणं भोजनप्रदानं च । अथ बहुन्यसंख्येयकल्पकोटिनियुतशतसहस्राणि भगवाञ्छाक्यमुनिः प्राणातिपातविरतो बभूव । यावद्दशकुशलकर्मपथं समादापयेत्, तावद्भगवता भोजनमाध्यात्मिकं बाह्यानि च वस्तूनि सत्त्वानां परित्यक्तानि । अन्तशः स्वशरीरमांसरुधिरास्थिमज्जया बुभुक्षिताः सत्त्वाः संतर्पिताः प्रागेवान्येन भोजनेन ।
अथ तस्य पुरुषस्य बुद्धानुस्मृतिमनसिकारस्येमामेवंरूपां चिन्तां चिन्तयमानस्य गृहं विपुलं विस्तीर्णं संप्रवृत्तमभवत् । वैडूर्यमयमनेकदिव्यरत्नप्रत्युप्तं तथागतविग्रहं दिव्यातिक्रान्तेन गन्धेन स्फुटम् । तस्मिंश्च गृहे चतुर्दिशि चत्वारि दिव्यरत्नमयान्यासनानि प्रादुर्भुतान्यभूवन् । तेषु चासनेषु दिव्यानि पर्यङ्कानि दिव्यरत्नपुष्पपत्रैः प्रज्ञप्तानि प्रादुर्भूतानि बभूवः । तेषु पर्यङ्केषु दिव्यान्यनेकरत्नप्रत्युप्तानि तथागतविग्रहाणि पद्मानि प्रादुर्भूतानि । तेषु च पद्मेषु चत्वारो बुद्धा भगवन्तः प्रादुर्भूताः बभुवुः । पुरान्तिकेन त्वक्षोभ्यस्तथागतः प्रादुर्भूतो दक्षिणेन रत्नकेतुस्तथागतः प्रादुर्भूतः पश्चिमेनामितायुस्तथागतः प्रादुर्भूत उत्तरेण दुन्दुभिस्वरस्तथागतः प्रादुर्भूतः । समनन्तरप्रादुर्भूताश्च ते बुद्धा भगवन्तस्तेषु सिंहासनेषु ।
अथ तावदेव राजगृहं महानगरं महतावभासेनावभासितं स्फुटं बभूवु । यावत्रिसाहस्रमहासाहस्रलोकधातुर्यावत्समन्ताद्दशसु दिक्षु गङ्गानदीवालुकासमा लोकधातवस्तेनावभासेन स्फुटा बभूवः । दिव्यानि च पुष्पाणि प्रावर्षुर्दिव्यानि च तूर्याणि प्रवादयामासुः । सर्वे चास्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वा बुद्धानुभावेन दिव्यसुखेन समन्वागता बभूवुः । जात्यन्धाश्च सत्त्वा रूपाणि पश्यन्ति स्म । वधिराश्च सत्त्वाः सत्त्वेभ्यः शब्दानि शृण्वन्ति । उन्मत्ताश्च सत्त्वाः स्मृतिं प्रतिलभन्ते ऽविक्षिप्तचित्ताश्च स्मृतिमन्तो बभूवुः । नग्नाश्च सत्त्वाश्चीवरप्रावृता ( बग्छि 5 ) बभूवुः । जिघत्सिताश्च सत्त्वाः परिपूर्णगात्रा बभूवुः । तृषिताश्च सत्त्वा विगततृष्णा बभूवः । रोगस्पृष्टाश्च सत्त्वा विगतरोगा बभूवुः । हीनकायाश्च सत्त्वाः परिपूर्णेन्द्रिया बभूवुः । विस्तरेण बहूनामाश्चर्याद्भुतधर्माणां लोके प्रादुर्भावो ऽभूत् ।
अथ खलु रुचिरकेतुर्बोधिओसत्त्वो महासत्त्वस्तान्बुद्धान्भगवतो दृष्ट्वाश्चर्यप्राप्तो बभूव । कथमेतदिति सन्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन ते बुद्धा भगवन्तस्तेनाञ्जालिं प्रणाम्यकारतस्तान्बुद्धान्भगवतो ऽनुस्मरमाणो भगवतः शाक्यमुनेर्गुणाननुस्मरमाणो भगवतः शाक्यमुनेरायुःप्रमाणसंशयप्राप्तस्तां चिन्तां चिन्तयमानः स्थितो बभुव । कथमेतत्,किमेतद् यद्भगवतः शाक्यमुनेरेवं परीत्तमायुःप्रमाणं यदुताशीति वर्षाणि ।
अथ खलु ते बुद्धा भगवन्तः स्मृताः संप्रजानास्तं रुचिरकेतुं बोधिसत्त्वमेतदवोचन् । मा त्वं कुलपुत्रैवं चिन्तय एवं परीत्तं भगवतः शाक्यमुनेरायुःप्रमाणम् । तत्कस्य हेतोः । न च वै कुलपुत्र तं समनुपश्यामः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां यः समर्थः स्याद्भगवतः शाक्यमुनेस्तथागतस्यायुःप्रमाणपर्यन्तमधिगन्तुं यावदपरान्तकोटिभिः स्थापयित्वा तथागतैरर्हद्भिः सम्यक्सम्बुद्धैः । समनन्तरोदाहृते तैर्बुद्धैर्भगवद्भिस्तथागतायुःप्रमाणनिर्देशे ।
अथ तावद्बुद्धानुभावेन कामावचरा रूपावचराश्च देवपुत्राः संनिपतिता यावन्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि तस्मिन् रुचिरकेतुबोधिसत्त्वस्य गृहे समागता आसन् । अथ ते तथागताः सर्वपर्षदो भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं गाथाभिरभ्यभाषन् ।
जलार्णवेषु सर्वेषु शक्यन्ते बिन्दुभिर्गणयितुम् ।
न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित्

2.2

सुमेरुं परमाणवः कृत्वा शक्यं च संख्यया ।
न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित्

2.3

याः काश्चित् पृथिवीः सन्ति यावन्तः परमाणवः ।
शक्यं गणयितुं सर्वा न तु चायुर्जिनस्य वै

2.4

आकाशं यदि वा कश्चिदिच्छेत्प्रमितुं केनचित् ।
न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित्

2.5

इत्युक्तानि च कल्पानि कल्पकोटिशतानि च ।
एष तिष्ठेच्च संबुद्धः संख्यातो न हि लभ्यते

2.6

यस्माद् द्वे कारणे तस्य तथैव द्वौ च प्रत्ययौ ।
विरतः परहिंसाया बहु दत्तं च भोजनम्

2.7

यस्मात्तस्य महात्मस्य ह्यायुःसंख्या न लभ्यते ।
इत्युक्तानि च कल्पानि संख्यायां न तथैव च

2.8

तस्मान्न संशयो भो हि मा किञ्चित् कुरु संशयम् ।
न जिनस्यायुःपर्यन्तं काचित्संख्योपलभ्यते

2.9

अथ खलु तस्मिन्समये तत्र पर्षद्याचार्यव्याकरणप्राप्तः कौण्डिन्यो नाम ब्राह्मणो ऽनेकैर्ब्राह्मणसहस्रैः सार्धं भगवतः पूजाकर्म कृत्वा तथागतस्य महापरिनिर्वाणशब्दं श्रुत्वा सहसोत्थाय भगवतश्चरणयोर्निपत्य भगवन्तमेवमाह । सचेत्किल भगवन्सर्वसत्त्वानुकम्पको महाकारुणिको हितैषी सर्वसत्त्वानां मातापितृभूतो ऽसमसमभूतश्चन्द्रभूत आलोककरो महाप्रज्ञाज्ञानसूर्यसमुद्गतः । यदि त्वं सर्वसत्त्वान् राहुलं स्वं संपश्यसि मह्यमेकं वरं देहि । भगवांस्तूष्णीम्भूतो ऽभूत् ।
अथ बुद्धानुभावेन तस्यां पर्षदि सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमारः । तस्य प्रतिभानमुत्पन्नम् । स आचार्यव्याकरणप्राप्तं कौण्डिन्यं ब्राह्मणमेवमाह । किं नु त्वं महाब्राह्मण भगवन्तमेकं वरं याचसे । अहं ते वरं ददामि । ब्राह्मण आह । अहमस्मिंल्लित्सविकुमार ( बग्छि 7 ) भगवतः पूजोपस्थानाय भगवतः सर्षपफलमात्रं धातुमिच्छामि निक्षेपितुं चूर्णं धातुमभिप्रयोजनायैनं सर्षपफलमात्रं धातुमभिपूजयित्वा त्रिदशाधिपत्यं लभ्यत इत्येवं श्रूऊयते । शृणु त्वं लित्सविकुमार सुवर्णप्रभासोत्तमसूत्रं दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धानां तादृशैर्लक्षणगुणैः समन्वागतं किल सुवर्णप्रभासोत्तमसूत्रं भावयिष्यति । एवं भो लित्सविकुमार दुर्विज्ञेयं दुरनुबोधं सुवर्णप्रभासोत्तमसूत्रम् । अस्माकमेव प्रत्यन्तद्वीपिकानां ब्राह्मणानां सर्षपफलमात्रं धातुं करण्डके निक्षिप्य धारणमुचितम् । अहं ते वरं याचे येन सत्त्वाः क्षिप्रमेव त्रिदशाधिपत्यं प्रतिलम्भिनो भविष्यन्ति । त्वं किल भो लित्सविकुमार सर्षपफलमात्रं धातुं तथागतस्य याचितुम् । धातुं रत्नकरण्डके निक्षिप्य धारणात् सर्वसत्त्वानां त्रिदशाधिपत्येश्वरलाभ इतीच्छसे । एवं मया च लित्सविकुमार इष्टं वरम् ।
अथ सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमार आचार्यव्याकरणप्राप्तं कौण्डिन्यब्राह्मणं गाथाभिरभ्यभाषत ।
यदा स्त्रोतःसु गङ्गाया रोहेयुः कुमुदानि च ।
रक्ताः काका भविष्यन्ति शङ्खवर्णाश्च कोकिलाः

2.10

जम्बुस्तालफलं दद्यात् खर्जूरश्चाम्रमञ्जरीम् ।
तदा सर्षपमात्रं च व्यक्तं धातुर्भविष्यति

2.11

यदा कच्छपलोमानां प्रावारैः सुवृतो भवेत् ।
हेमन्ते शीतहरणो तदा धातुर्भविष्यति

2.12

यदा मशकपादानामट्टकालम्बनं भवेत् ।
दृढं चाप्यप्रकम्पि च तदा धातुर्भविष्यति

2.13

यदा तीक्ष्णा महान्तश्च दन्ता जायन्ति पाण्डुराः ।
जलौकानां हि सर्वेषां तदा धातुर्भविष्यति

2.14

यदा शशविषाणेन निःश्रेणी सुदृढा भवेत् ।
स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति

2.15

तां निश्रेणीं यदारुह्य चन्द्रं भक्षति मूषिकः ।
राहुं च परिधावेत तदा धातुर्भविष्यति

2.16

यदा मद्यघटं पीत्वा मक्षिका ग्रामचारिण्यः ।
अगारे वासं कल्पेयुस्तदा धातुर्भविष्यति

2.17

यदा बिम्बोष्ठसम्पन्नो गर्दभः सुखितो भवेत् ।
कुशलं नृत्यगीतेषु तदा धातुर्भविष्यति

2.18

यदा ह्युलूककाकाश्च रमयेयुः सहागताः ।
अन्योन्यमनुकूलेन तदा धातुर्भविष्यति

2.19

यदा पलाशपत्राणां छत्रं हि विपुलं भवेत् ।
वर्षस्य प्रतिपाताय तदा धातुर्भविष्यति

2.20

यदा सामुद्रिका नावः सयन्त्राः सपताकिकाः ।
स्थलमारुह्य गच्छेयुस्तदा धातुर्भविष्यति

2.21

यदा ह्युलूकशकुनाः पर्वतं गन्धमादनम् ।
तुण्डेनादाय गच्छेयुस्तदा धातुर्भविष्यति

2.22

एताश्च गाथाः श्रुत्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो ब्राह्मणः सर्वलोकप्रियदर्शनं लित्सविकुमारं गाथाभिः प्रत्यभाषत ।
साधु साधु कुमाराग्र जिनपुत्र महागिर ।
उपायकुशलो वीरः प्राप्तव्याकरणोत्तमः

2.23

मम कुमार शृणोहि लोकनाथस्य तायिनः ।
तथागतस्य माहात्म्यं यथाक्रममचिन्तितम्

2.24

अचिन्त्यं बुद्धविषयमसमाश्च तथागताः ।
सर्वबुद्धाः शिवा नित्यं सर्वबुद्धाः समाचराः

2.25

सर्वबुद्धाः समवणा एषा बुद्धेषु धर्मता ।
न कृत्रिमो ऽसौ भगवान्नोत्पन्नश्च तथागतः

2.26

वज्रसंहननकायो निर्मितकायदर्शकः ।
नापि सर्षपमात्रं च धातुर्नाम महर्षिणाम्

2.27

अनस्थिरुधिरे काये कुतो धातुर्भविष्यति ।
उपायधातुनिक्षेपःसत्त्वानां हितकारणम्

2.28

धर्मकायो हि सम्बुद्धो धर्मधातुस्तथागतः ।
इदृशो भगवत्काय ईदृशी धर्मदेशना

2.29

एतच्छ्रुतं मया ज्ञात्वाभियाचितं वरं मया ।
तत्त्वव्याकरणार्थाय वरोत्पादं मुनेः कृतम्

2.30

अथ खलु द्वात्रिंशद्देवपुत्रसहस्राणि तथागतस्य यं गम्भीरमायुःप्रमाणनिर्देशं श्रुत्वा सर्वैरनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि ते प्रहृष्टमनःसंकल्पा एकस्वरनिर्घोषेण गाथामभाषन् ।
न बुद्धः परिनिर्वाति न धर्म परिहीयते ।
सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत्

2.31

अचिन्त्यो भगवान्बुद्धो नित्यकायस्तथागतः ।
देशेति विविधान्व्यूहान्सत्त्वानां हितकारणात्

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc