सुवर्णप्रभाससूत्र · अध्याय 1
सुवर्णप्रभाससूत्रम्
॥ सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः ॥
॥ निदानपरिवर्तः ॥
ओम् नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः ।
ओम् नमः श्रीभगवत्यै आर्यप्रज्ञापारमितायै ॥ तद्यथा ।
ओम् श्रुतिस्मृतिगतिविजये स्वाहा ॥
यस्मिन् पारमिता दशोत्तमगुणास्तैस्तैर्नयैः सूचिताः
सर्वज्ञेन जगद्धिताय दश च प्रख्यापिता भूमयः ।
उच्छेदध्रुववर्जिता च विमला प्रोक्ता गतिर्मध्यमा
तत्सूत्रं स्वर्णप्रभानिगदितं शृण्वन्तु बोध्यर्थिनः ॥
श्रुतं मयैकसमये गृध्रकूटे तथागतः ॥
विजहार धर्मधातौ गम्भीरे बुद्धगोचरे
बोधिसत्त्वसमुच्चयया महाकुलदेवतया, सरस्वत्या च महादेवतया, श्रिया च महादेवतया, दृढया च महापृथिवीदेवतया, हारीत्या च महादेवतया, एवं प्रमुखाभिर्महादेवताभिरनेकदेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः सार्धम् । अथायुष्मानानन्दो भगवन्तमेतदवोचत् । किं तासां भगवन्धर्मविनयं भविष्यतीति?
भगवानाह गाथाभिः । भावनं च न दुःपृच्छया विरजस्कं समाधिं धर्मसारं प्रतिष्ठितम् ।
शुद्धेषु विरजस्केषु बोधिसत्त्वोत्तमेषु च ।
निदानं सूत्रराजेन्द्रं स्वर्णप्रभासोत्तममिदम्
ततो गम्भीरश्रवणेन गम्भीरव्युपपरीक्षणेन ।
दिक्षु चतसृषु बुद्धैरधिष्ठानमधिष्ठितम्
अक्षोभ्यराजः पूर्वस्मिन्दक्षिणे रत्नकेतुना ।
पश्चिमायाममिताभ उत्तरे दुन्दुभिस्वरः
तं प्रवक्ष्याम्यधिष्ठानं माङ्गल्यदेशनोत्तमम् ।
सर्वपापविनाशार्थं सर्वपापक्षयंकरम्
सर्वसौख्यप्रदातारं सर्वदुःखविनाशनम् ।
मूलं सर्वज्ञतत्त्वस्य सर्वश्रीसमलङ्कृतम्
उपहतेन्द्रिया ये हि सत्त्वा नष्टा हतायुषः ।
अलक्ष्म्या परिविष्टा हि देवतासु पराङ्मुखाः
कान्तया ते जना द्विष्टाः कुटुम्बादिष्वपद्रुताः ।
परस्परविरुद्धा वा अर्थनाशैरुपद्रुताः
शोकायासेष्वनर्थे च भये व्यसन एव च ।
ग्रहनक्षत्रपीडायां काखोर्ददारुणग्रहैः
पापकं पश्यति स्वप्नं शोकायाससमुच्छ्रितम् ।
तेन च स्नानशुचिना श्रोतव्यं सूत्रमुत्तमम्
शृण्वन्ति य इदं सूत्रं गम्भीरं बुद्धगोचरम् ।
प्रसन्नचित्ताः सुमनसः शुचिवस्त्रैरलङ्कृताः
तेषां सर्वे तथा नित्यमुपसर्गाः सुदारुणाः ।
तेजसा चास्य सूत्रस्य शाम्यन्ते सर्वप्राणिनाम्
स्वयं ते लोकपालाश्च सामात्याः सगणेश्वराः ।
तेषां रक्षां करिष्यन्ति ह्यनेकैर्यक्षकोटिभिः
सरस्वती महादेवी तथा नैरञ्जनवासिनी ।
हारीती भूतमाता च दृढा पृथिवीदेवता
ब्रह्मेन्द्रैस्त्रिदशेन्द्रैश्च महर्द्धिकिन्नरेश्वरैः ।
गरुडेन्द्रैस्तथा सार्धं यक्षगन्धर्वपन्नगैः
ते च तत्रोपसंक्रम्य ससैन्यबलवाहनाः ।
तेषां रक्षां करिष्यन्ति दिवारात्रौ समाहिताः
इदं सूत्रं प्रकाशिष्ये गम्भीरं बुद्धगोचरम् ।
रहस्यं सर्वबुद्धानां दुर्लभं कल्पकोटिभिः
शृण्वन्ति य इदं सूत्रं ये चान्ये श्रावयन्ति च ।
ये केचिदनुमोदन्ते ये च पूजां करोन्ति हि
ते पूजिता भविष्यन्ति ह्यनेकैः कल्पकोटिभिः ।
देवनागमनुष्यैश्च किन्नरासुरगुह्यकैः
पुण्यस्कन्धमपर्यन्तमसंख्येयमचिन्तितम् ।
यत्तेषां प्रसृतं भोति कृतपुण्यान प्राणिनाम्
प्रगृहीता भविष्यन्ति सर्वबुद्धैर्दिशो दश ।
गम्भीरचरितेभिश्च बोधिसत्त्वैस्तथैव च
चौक्षचीवरप्रावृत्य सुगन्धजलपावनैः ।
मैत्रीचित्तं समुत्थाप्य पूजितव्यमतन्द्रितैः
विपुलं विमलं चित्तमात्मानं प्रकरिष्यति ।
प्रसादयंश्च चेतांसि शृणुध्वं सूत्रमुत्तमम्
स्वागतं च मनुष्येषु सुलब्धं मनुषं फलम् ।
सुजीविताश्च जीवन्ति सूत्रं शृण्वन्ति ये त्विदम्
उप्तकुशलमूलास्ते बहुबुद्धप्रकाशिताः ।
येषामिदं कर्णपुटे देशितं संप्रविश्यतीति
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0