भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 19

19.1

अथ खलु जलवाहनः श्रेष्ठिपुत्रस्तेनैवंरूपेण नैमित्तिकेन धातुकौशल्येन परिपृष्टेन सर्वाष्टाङ्गायुर्वैद्यमधिगतो ऽभूत् । तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो राज्ञः सुरेश्वरप्रभस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमित्वा सर्वेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामेवमाश्वासयामास । मा भैषुर्वैद्यो ऽस्मि वैद्यो ऽस्मीत्यात्मानं प्रतिज्ञातवानहं युष्माकं नानाव्याधिभ्यः परिमोचयिष्यामि । सहश्रवणेन कुलदेवते तस्य जलवाहनस्य श्रेष्ठिपुत्रस्येदमेवंरूपं वचनं व्याहरमाणस्य सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि महाप्रहर्षजातानि बभूवुः । आश्वासप्राप्तान्यचिन्त्यप्रीतिसौमनस्येन समन्वागतानि बभूवुः । तानि तेन कालेन तेन समयेन तया प्रहर्षयानेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानारोगेभ्यः परिमोचयितान्यरोगाणि च बभूवुर्विगतव्याधीनि च । यथा पौराणेन स्थामबलवीर्येण समन्वागतानि बभूवुः । तेन खलु पुनः कुलदेवते कालेन तेन समयेन तेषामनेकेषां च सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानां ये केचिद्गाढतरेण स्पृष्टा च बभूवुः । ते सर्वे येन जलवाहनः श्रेष्ठिपुत्रस्तेनोपसंक्रान्त उपसंक्रम्यैव ये च किंचित्तेषां ( बग्छि 97 ) सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामौषधिविधानान्यभिनिर्दिशन्ति स्म । तत्तासु राजधानीषु सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि जलवाहनेन श्रेष्ठिपुत्रेण नानाव्याधिभ्यः परिमोचितानि बभूवुरिति ॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याधिप्रशमन परिवर्तो नाम सप्तदशः ॥
॥ जलवाहनस्य मत्स्यवैनेयपरिवर्तः ॥
पुनरपरं कुलदेवते राज्ञः सुरेश्वरप्रभस्य विषये जलवाहनेन श्रेष्ठिदारकेण सर्वसत्त्वा आरोगाः कृता अल्पा बाधा यथापूर्वेणोत्साहबलकायेन संवृताः सर्व उत्साहसुखेन रमन्ति स्म । क्रीडन्ति स्म । परिचारयन्ति स्म । दानानि च ददन्ति स्म । पुण्यानि च कुर्वन्ति स्म । जलवाहनः श्रेष्ठिदारको महावैद्यदानानां च सुखानां व्याधिविचिकित्सको नियतप्रत्यक्षेण बोधिसत्त्वेन भवितव्यम् । सर्वेनाष्टाङ्गायुर्वैद्यमधिगतो ऽभूत् । तस्य खलु पुनः जलवाहनस्य श्रेष्ठिदारकस्य जलाम्बुजगर्भा नाम भार्या ऽभूत् । तस्य खलु पुनः कुलदेवते जलाम्बुजगर्भाया द्वौ दारकौ पुत्रावभूताम् । एको जलाम्बरो नाम द्वितीयो जलगर्भो नाम ॥
अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रस्याभ्यां दारकाभ्यां सार्धमनुपूर्वेण ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वनुचङ्क्रमति ॥
अथ खलु पुनः कुलदेवते ऽपरेण तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो ऽन्यतरमटवीकान्तारप्राप्तो ऽध्वनि ददर्शात्रान्तरे मांसभक्षा वृकशृगालकाकपक्षिणस्तां दिशं धावन्ति यत्राटवीकान्तारे ऽटवीसंभवा पुष्करिणी । तदृटष्ट्वा तस्यैतदभूत् । कस्यार्थमिमे मांसभक्षा वृकशृगालकाकपक्षिण इमां दिशं धावन्ति । तस्यैतदभूत् । यं नूनमहं तां दिशमुपसंक्रमेयम् । यस्यां दिशीमे मंसभक्षाश्च वृकशृगालकाकपक्षिणो धावन्ति ॥
अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रो ऽनुपूर्वेणानुचङ्क्रमन्ननुविचरन्यत्राटवीसंभवा पुष्करिणी तत्र संप्राप्तः । तत्र महापुष्करिण्यां दशमत्स्यसहस्राणि प्रतिवसन्ति स्म । स तत्रापश्यद्बहूनि मत्स्यशतानि जलविप्रहीणानि तत्रास्य कारुण्यचित्तमुत्पन्नम् । तत्राद्राक्षीदर्धकायां देवतां निष्क्रमन्तीम् । सा च देवता जलवाहनं श्रेष्ठिदारकमेतदवोचत् । साधु साधु ( बग्छि 99 ) कुलपुत्र यस्त्वं जलवाहनो नाम मत्स्यानामुदकं प्रयच्छ । द्वाभ्यां कारणाभ्यां जलवाहन इत्युच्यते । यश्चोदकं वाहयति ततः स्वनामानुरूपं कुल । जलवाहनः प्राह । कियन्तीमानि देवते मत्स्यानि । देवता प्राह । परिपूर्णानि दशमत्स्यसहस्राणि ॥
अथ खलु कुलदेवते जलवाहनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया परमकारुण्यचित्तमुत्पन्नम् । तेन खलु पुनः कुलदेवते समयेनाटवीसंभवायां पुष्करिण्या किंचिन्मात्रमवशिष्टमुदकमभूत् । तानि दशमत्स्यसहस्राणि मृत्युमुखप्रविष्टानि जलविप्रहीणानि धावन्ति ॥
अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म । यस्यां दिशि जलवाहनः श्रेष्ठिदारको ऽनुचङ्कमति तस्यां दिशि दशम्त्स्यसहस्राणि जलवाहनं करुणं प्रेक्षन्ते ॥ अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म । उदकं प्रेषयमाणो न चैवात्रोदकमुपलभ्यते । चतुर्दिशं प्रेक्षते । सो ऽद्राक्षीन्नातिदूरे महान्तं वृक्षसमूहं तं वृक्षमभिरुह्य द्रुमशाखाञ्छित्त्वा येन सा पुष्करिणी तेनोपजगाम । उपगम्य तेषां दशानां मत्स्यसहस्राणां द्रुमशाखाभिः सुशीतलाञ्छायां कृतवान् ॥
अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकस्तस्यां पुष्करिण्यामुदकागमं पर्येषते कुत उदकस्यागमनं भवेत् । चतुर्दिशं धावति न चोदकमुपलभ्यते । स शीघ्रं शीघ्रं तमुदकस्त्रोतं समनुगच्छति । तस्याः खलु पुनः कुलदेवते अटवीसंभवायाः पुष्करिण्या जलागमा नाम महानदी यतस्तस्यामुदकस्यागमनम् । तेन च समयेन सा न्द्यन्यतरेण पापसत्त्वेन तेषां दशानां मत्स्यसहस्राणामर्थेन सा नदीत्यदृष्टे स्थाने महाप्रपाते पातिता यत्तेषां मत्स्यानां न भूय उदकस्यागमनं भविष्यति । स तं दृष्ट्वा चिन्तयति न शक्यत एषा नदी जनसहस्रेणापि तेनैव यथा वाहयितुं किमङ्ग पुनर्मयैकेन शक्यो बाहयितुं स प्रतिनिवृत्तः ॥
अथ खलु कुलदेवते जलवाहनः श्रेष्ठिपुत्रः शीघ्रं शीघ्रमुपसंक्रान्तो येन राजा ( बग्छि 100 ) सुरेश्वप्रभस्तेनोपजगाम । उपगम्य राज्ञः सुरेश्वरप्रभस्य पादौ शिरसा नत्वैकान्ते निषण्णः । इमां प्रकृतिमारोचयाति स्म । मया खलु देवस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानां व्याधयः प्रशमिताः । तत्रामुष्मिन्स्थाने ऽटवीसंभवा नाम पुष्करिणी । तत्र दशमत्स्यसहस्राणि प्रतिवसन्ति जलप्रहीणान्यादित्यपरितापितानि । तद्ददातु मे देवो विंशतिगजा यथा तेषां तिर्यग्योनिगतानां जीवितं ददामीति । यथा मनुष्याणां दत्तमाज्ञप्तं खलु राज्ञा सुरेश्वरप्रभेणामात्यानां ददत महावैद्यराजस्य विंशतिगजान् । अमात्या आहुः । उपसंक्रम महासत्त्व येन हस्तिशाला उपगृह्णीष्व विंशतिगजान् कुरु सत्त्वानां सुखम् ॥

अथ खलु कुलदेवते जलवाहनः सार्धं जलाम्बरेण च स्वपुत्रेण विंशतिगजान् गृहीत्वा नागशौण्डिकानां सकाशाच्छतशो दृशीनां प्रतिगृह्य प्रतिनिवृत्तः । यत्र जलागमा नाम महानदी प्रवहति । तत्रोपसंक्रम्योदकेन ता दृतीः पूरयित्वा गजपृष्ठ उदकमारोप्य शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्तः । उपसंक्रम्य तदुदकं हस्तिपृष्ठादवतार्य तां पुष्करिणीं चतुर्दिशमुदकेन पूरयित्वा चतुर्दिशं च क्रमति । येन येन जलवाहनो ऽनुचङ्क्रमति तेन तेन दशमत्स्यसहस्राण्यनुधावन्ति ॥
अथ खलु कुलदेवते जलवाहनस्यैतदभवत् । किमर्थमेतानि दशमत्स्यसहस्राणि येनाहं तेन प्रधावन्ति । तस्य पुनरेतदभवत् । नूनमेते मत्स्याः क्षुधाग्निना परिपीडिता मम सकाशाद्भोजनं परिमार्गयन्ति । यन्नूनमहं भोजनं प्रयच्छेयम् ॥
अथ खलु कुलदेवते जलवाहनः स्वपुत्रं जलाम्बरमेतदवोचत् । गच्छ कुलपुत्र स्वकं निवेशनं सर्वबलतरं हस्तिनमभिरूह्य च शीध्रं शीघ्रमुपसंक्रम्य पितामहस्य श्रेष्ठिन एवं वदेह भो तात जलवाहन एवं वदति यत्किंचिदत्र गृहे ऽभिसंस्कृतं भोजनं स्यान्मातापित्रोर्भ्रातृभगिन्योर्दासीदासकर्मकरस्य ( बग्छि 101 ) कृतशः सर्वमेकत्र पिण्डीकृत्वा जलाम्बरस्य हस्तिपृष्टमवरोप्य जलवाहनाय शीघ्रं शीघ्रं विसर्जय ॥
अथ खलु जलाम्बरो दारको हस्तिनमभिरुह्य शीघ्रं शीघ्रं धावति स्म । येन स्वकं निवेशनं तेनोपसंक्रामदुपसंम्यैतां प्रकृतं पितामहस्याग्र आरोचयामास विस्तरेण यथा पूर्वोक्तम् । तत्सर्वं पितामहेन जलाम्बराय विसर्जितम् ॥
अथ खलु जलम्बरो दारकस्तद्भोजनं हस्तिपृष्ठमुपनाम्य हस्तिनमभिरुह्य येनाटवीसंभवा पुष्करिणी तेनोपसंक्रामत् ॥
अथ खलु जलवाहनः स्वकं पुत्रं जलाम्बरमागतं दृष्ट्वा हृष्टस्तुष्ट उदग्रः पुत्रस्यान्तिकाद्भोजनं प्रतिगृह्य च्छित्त्वा तत्र पुष्करिण्यां प्रक्षिपति स्म । तेनाहारेण तानि दशमत्स्यसहस्राणि संतर्पितानि । पुनस्तस्यैतदभवत् । श्रुतं मे परेण कालसमयेनारण्यायतने भिक्षुर्महायानधारयमान इत्याह । यो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य मरणकालसमये नामधेयं शृणुयात् । स स्वर्गलोक उपपत्स्यतीति । यन्नूनमहमेषां मत्स्यानां गम्भीरं प्रतीत्यसमुत्पादं धर्मं देशयेयम् । रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावयेयम् । तेन च समयेन तस्मिञ्जम्बुद्वीपे द्विघादृष्टिः सत्त्वानामभूत् । केचिन्महायानमभिश्रद्धयन्ति केचित्क्लेशयन्ति ॥
अथ खलु पुनर्जलवाहनः श्रेष्ठिपुत्रस्तस्यां वेलायामुभौ पादौ जानुमात्रं तत्र पुष्करिण्यां प्रवेश्यैवं चिदानमुदानयामास । नमस्तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पुर्वबोधिसत्त्वचर्यां चरमाणस्य एवं प्रणिधानमभूत् । ये केचिद्दशसु दिक्षु मरणकालसमये मम नामधेयं शृणुयुस्ते ततश्च्युत्वा देवानां त्रायस्त्रिंशानां सभागतायामुपपद्येयुः ॥
अथ खलु जलवाहनः श्रेष्ठिदारकस्तेषां तिर्यग्योनिगतानामिमं धर्मं देशयति स्म । यदुतास्मादिदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्यया संस्कारा । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्यय स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवत्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यदुताविद्यानिरोधात्संरकारनिरोधः । संस्कारनिरोधाद्विज्ञाननिरोधः । विज्ञाननिरोधान्नामरूपनिरोधः । नामरूपनिरोधात्षडायतननिरोधः । षडायतननिरोधात्स्पर्शनिरोधः । स्पर्शनिरोधाद्वेदनानिरोधः । वेदनानिरोधात्तृष्णानिरोधः । तृष्णानिरोधादुपादाननिरोधः । उपादाननिरोधाद्भवनिरोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यते । केवलमस्य महतो दुःखस्कन्धस्य निरोधो भवति । इति हि कुलदेवते तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रस्तेषां तिर्यग्योनिगतानामिमां धार्मिककथां कथयति स्म । सार्धं पुत्राभ्यां जलाम्बरेण जलगर्भेण च पुनरपि स्वगृहमनुप्राप्तः ॥
अथापरेण कालेन समयेन जलवाहनः श्रेष्ठिपुत्रो महोत्सवं परिभुज्य महोत्सवमत्तो शयने शयितः । तेन च कालेन तेन समयेन महानिमित्तः प्रादुर्भूतः । यत्तस्या रात्र्यामत्ययेन तानि दशमत्स्यसहस्राणि कालगतानि देवेषु त्रायस्त्रिंशत्सु सभागतायामुपपन्नानि । सहोपपन्नानां चैषामेवंरूपश्चेतसः परिवितर्क उत्पन्नः । केन वयं कुशलकर्महेतुनेह देवेषु त्रायस्त्रिंशेषूपपन्नाः । तेषामेतदभूत् । वयमस्मिञ्जम्बुद्वीपे दशमत्स्यसहस्राण्यभूवन् । ते वयं तिर्यग्योनिगता जलवाहनेन श्रेष्ठिदारकेण प्रभूतेनोदकेन संतर्पिता भोजनवरेण च । गम्भीरश्चास्माकं प्रतीत्यसमुत्पादधर्मो देशितः । रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्राविताः । ( बग्छि 103 ) तेन कुशलधर्महेतुना तेन प्रत्ययेनेह वयं देवेषूपपन्नाः । यन्नूनं वयं येन जलवाहनः श्रेष्ठिदारकस्तेनोपसंक्रमेमः । उपसंक्रम्य तस्य पूजां करिष्यामः ।
अथ तानि दशदेवपुत्रसहस्राणि देवेषु त्रायस्त्रिंशत्स्वन्तर्हितानि जलवाहनस्य श्रिष्ठिनो गृहे तस्थुः । तेन खलु पुनः समयेन च जलवाहनः श्रेष्ट्युपशयने शयितः । तस्यैतैर्देवपुत्रैर्दशमुक्ताहारसहस्राणि शीर्षान्ते स्थापितानि । दशमुक्ताहारसहस्राणि पादतले स्थापितानि । दशमुक्ताहारसहस्राणि दक्षिणपार्श्वे स्थापितानि । दशमुक्ताहारसहस्राणि वामपार्श्वे स्थापितानि । गृहान्तरे जानुमात्रं मान्दारवपुष्पवर्षं प्रावर्षत् । दिव्याश्च दुन्दुभयः पराहताः । येन सर्वे जम्बुद्वीताः प्रतिविबुद्धाः । अथ जलवाहनः श्रेष्ठी प्रतिविबुद्धं ॥
अथ तानि दशदेवपुत्रसहस्राणि खगपथेनोपक्रान्तानि । ते च देवपुत्रा राज्ञः सुरेश्वरप्रभस्य विषये स्थानस्थानान्तरे मान्दारवपुष्पवर्षं प्रवर्षयन्तो येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्ताः ते तत्र पुष्करिण्यां मान्दारवपुष्पं प्रवर्षयन्तस्तत एवान्तर्हिताः पुनरपि देवालयं गताः । तत्र पञ्चभिः कामगुणै रमन्ति स्म । क्रीडन्ति स्म । परिचालयन्ति स्म । महतीं श्रीसौभाग्यतामनुभवन्ति स्म । जम्बुद्वीपे च रात्रीप्रभाताभूत् ॥

अथ खलु राजा सुरेश्वरप्रभो गणकमहामात्यान्पृच्छति । किमर्थमद्य रात्रावेतानि निमित्तानि प्रादुर्भूतानि । ते ऽवोचन् । यत्खलु देवो जानीयात् । जलवाहनस्य श्रेष्ठिदारकस्य चत्वारिंशन्मुक्ताहारसहस्राणि प्रवर्षितानि दिव्यानि च मान्दारवपुष्पाणि निर्गच्छन्ति । राजाह । भवन्तो जलवाहनं श्रेष्ठिनं दारकं प्रियवचनेन शब्दापयन् ॥
अथ ते गणकमहामात्या येन जलवाहनस्य गृहं तेनोपसंक्रान्ताः । उपसंक्रम्य जलवाहनस्य श्रेष्ठिन एतदवोचन् । राजा सुरेश्वरप्रभस्त्वामामन्त्रयते । अथ जलवाहनः श्रेष्ठी महामात्यैः सार्धं येन राजा सुरेश्वरप्रभस्तेनोपजगाम । उपसंक्रम्यैकान्ते निषण्णः । राजा ( बग्छि 104 ) पृच्छति । जलवाहन किं निमित्तं जानीया यदद्य रात्रावीदृशानि शुभनिमित्तानि प्रादुर्भूतानि । अथ जलवाहनः श्रेष्ठी सुरेश्वरप्रभस्यैतदवोचत् । जानाभि देव नियतं दशमत्स्यसहस्राणि कालगतानि । राजाह । कथं जानासि । जलवाहन आह । गच्छतु देव जलाम्बरस्तां महापुष्करिणीं प्रविशतु । किं तानि दशम्त्स्यसहस्राणि जीवन्ति अथ कालगतानि । राजाह । एवमस्तु ॥
अथ जलवाहनः श्रेष्ठिदारको जलाम्बरं दारकमेतदवोचत् । गच्छ कुलपुत्राटवीसंभवायां पुष्करिण्यां पश्य । किं तानि दशमत्स्यसहस्राणि जिवन्ति अथ कालगतानि । अथ जलाम्बरो दारकः शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपजगाम । उपसंक्रम्य ददर्श । तानि दशम्त्स्यसहस्राणि कालगतानि महान्तं च मान्दारवपुष्पवर्षं दृष्ट्वा पुनरपि निवृत्तः पितुरेतदवोचत् । कालगतानीति । अथ जलवाहनः श्रेष्ठी दारको जलम्बरस्य दारकस्यान्तिकादिदं वचनं श्रुत्वा येन राजा सुरेश्वरप्रभस्तेनोपसंक्रम्यैतां प्रकृतिमारोचयति स्म । यत्खलु देवो जानीयात्तानि दशम्त्स्यसहस्राणि सर्वाणि कालगतानि देवेषु त्रायस्त्रिंशत्स्वुपपन्नानि । तेषां देवपुत्राणामनुभावेनाद्य रात्राविदृशानि शुभनिमित्तानि प्रादुर्भूतानि । यदस्माकं गृहे चत्वारिंशन्मुक्ताहारसहस्राणि दिव्यानि च मान्दारवपुष्पाणि प्रवर्षितानि । अथ स राजा हृष्टस्तुष्ट उदग्रात्तमना बभूव ॥
अथ खलु भगवान्पुनस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् ॥ स्यात्खलु पुनर्युष्माकं कुलदेवते ऽन्यः स तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । दण्डपाणिः शाक्यस्तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव । स्यात्खलु पुनः कुलदेवते ऽन्यः स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठी बभूव । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । राजा शुद्धोदनः स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठ्यभूत् ॥
स्यात्खलु पुनस्ते कुलदेवते ऽन्यः स तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिदारको ऽभूत् । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिदारको ऽभूत् ॥ स्यात्खलु पुनस्ते कुलदेवते ऽन्या सा तेन कालेन तेन समयेन जलवाहनस्य जलाम्बुजगर्भा नाम भार्याभूत् । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । गोपा नाम शाक्यकन्या तेन कालेन समयेन जलवाहनस्य जलाम्बुजगर्भा नाम भार्याभूत् । राहुलभद्रस्तेन कलेन तेन समयेन जलाम्बरो नाम दारको ऽभूत् । आनन्दः स तेन कालेन तेन समयेन जलगर्भो नाम दारको ऽभूत् । स्यात्खलु पुनस्ते कुलदेवते ऽन्यानि तानि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवः । न पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । अमूनि तानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवुः । यानि मयोदकेन संतर्पितानि । भोजनवरेण च गम्भीरश्च प्रतीत्यसमुत्पादो धर्मो देशितः । रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावितः । तेन कुशलधर्महेतुना ममान्तिक इहागतानि येनैतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि । अतीव प्रीतिप्रासादप्रामोद्येन धर्मश्रुतिगौरवेण सर्वव्याकरणनामधेयानि प्रतिलब्धानीति ॥
स्यात्खलु पुनस्ते कुलदेवते ऽन्या सा तेन कालेन तेन समयेन वृक्षदेवताभूत् । नैवं द्रष्टव्यम् । तत्कस्य हेतोः । त्वमभूः कुलदेवते तेन कालेन तेन समयेन वृक्षदेवता । अनेन कुलदेवते पर्यायेणैवं वेदितव्यम् । यथा मया संसारे संसरता बहवः सत्त्वाः परिपाचिता बोधौ । ये ते सर्वे व्याकरणभूमिं प्रतिलप्स्यन्ते ऽनुत्तरायां सम्यक्संबोधाविति ॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे जलवाहनस्य मत्स्यवैनेयपरिवर्तो ऽष्टादशः ।
॥ व्याघ्रीपरिवर्तः ॥
पुनरपरं कुलदेवते परहितार्थायात्मपरित्यागमपि बोधिसत्त्वभूतेन भवितव्यम् । तत्कथमिदम् । दिवि भुवि च विसृतविपुलविमलविविधगुणशतकिरणो ऽप्रतिहतज्ञानदर्शनबलपराक्रमो भगवान्भिक्षुशतसहस्रपरिवृतः पञ्चविधचक्षुप्राप्तः प्रञ्चालेषु जनपदेषु जनपदचारिकां चरमाणो ऽन्यतमेव वनखण्डमनुप्राप्तो बभूव । स तत्र ददर्श हरितमृदुनीलशाद्वलतलविविधकुसुमप्रतिमण्डितं पृथिवीप्रदेशं दृष्ट्वा च भगवानायुष्मन्तमानन्दमामन्त्रयति स्म । रुचिरो ऽयमानन्द ! पृथिवीप्रदेशः । अस्मिंश्चास्मिकस्थाननिष्ठा संज्ञायते । एतर्हि तथागतस्यासनं प्रज्ञापय । ततस्येन भगवत आज्ञयासनं प्रज्ञप्तम् । प्रज्ञप्य च भगवन्तमेतदवोचत् । प्रज्ञप्तमासनं भगवन्निषीद ज्ष्ठेष्ठ श्रेष्ठ नृणां वरद वरिष्ठ मोक्षवह परमामृतकथां विसृज नृणां हिताय भगवन्निधनविप्रयुक्तं । अथ भगवांस्तस्मिन्नासने निषद्य भिक्षूनामन्त्रयते स्म । इच्छथ यूयं भिक्षवो दुष्करकारिकाणां बोधिसत्त्वानां शरीराणि द्रष्टुम् ॥
एवमुक्ते भिक्षवो भगवन्तमेतदवोचन् ।
अयमृषिवरकालप्राप्त सत्त्वार्थसारमद्वयनीरतस्य द्रष्टुम् ।
अस्माभिरस्थीण्यपरिमित गुणश्रितस्य तत्साधु घाटय

19.2

अथ भगवान्सहस्रारचक्रचरणविलिखिततलेन स्थूलितनवकमलकोमलेन पाणिना धरणीतलं जघान व्याहतमात्रेण षड्विकारं पृथिवी चचाल । मणिकेन करजातविकृतं च स्तूपं ततो ऽभ्युज्जगाम । अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । विघाटयानन्देमं स्तूपम् । अथायुष्मानानन्दो भगवते प्रतिक्षुत्य स्तूपं विघटयामास । स तत्र ददर्श कनकविसृतमुक्तासंछादितं हिरण्यमयं समुद्रकम् । दृष्ट्वा च भगवन्तमेतदवोचत् । हिरण्यमयं भगवन्समुद्रकः समुद्धृतः । भगवानुवाच । सप्तैते समुद्रकान्सर्व उद्धाटनीयाः । तदोद्धाटयामास । स तत्र ददर्श हिमकुमुदसदृशान्यस्थीनि । दृष्ट्वा च भगवन्तमेतदवोचत् । भगवन्नस्थीन्युपलक्ष्यन्ते । भगवानाह । आनीयतामानन्द महापुरुषस्यास्थीनि ॥
अथायुष्मानानन्दस्तान्यस्थीन्यादाय भगवते बुद्धायोपनामयामास । भगवांश्चास्थीनि गृहीत्वा संघस्य पुरतः संस्थाप्योवाच । इमान्यस्थीनि महाप्रवरगुणामुक्तस्य समन्तदमध्यानक्षान्तिप्रवरदृढोत्साहयशःसंस्कृतो भूयः सततसमितं बोधौ मतिमतो दृढोत्साहिनो धृतिमतः सदादाननिरतस्य । ततो भगवान्भिक्षूनामन्त्रयामास । वदन्त भिक्षवो बोधिसत्त्वशरीराणि शीलगुणवासितानि परमदुर्लभदर्शनानि पुण्यक्षेत्रभूतानि । ततस्ते भिक्षवः कृतकरपुटा आवर्जितमनसस्तानि शरीराणि मूर्ध्ना वन्दन्ते स्म ॥
अथायुष्मानानन्दः कृतकरपुटो भगवन्तमेतदवोचत् । भगवानतीतानागतप्रत्युत्पन्नसर्वलोकाभ्युद्भतः सर्वसत्त्वैर्नमस्कृतः तत्कथं तथागत एवैतान्यस्थीनि नमस्यते । अथ भगवानायुष्मन्तमानन्दमेतदवोचत् । वन्दनीयानीमान्यस्थीन्यानन्द । तत्कस्य हेतोः । एभिरानन्दास्थिभिर्मयैवं क्षिप्रमनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । भूतपूर्वमानन्दातीते ऽध्वन्यनेकधनधान्यवाहनबलोपपन्नो ऽप्रतिहतबलपराक्रमो महारथो नाम राजाभूत् । तस्य देवकुमारसदृशास्त्रयः पुत्रा बभूवः । महाप्रणादो महादेवो महासत्त्वाश्चेति । अथ राजा क्रीडनार्थमुद्यानमभिनिष्क्रमते स्म । ते च कुमारास्तस्योद्यानस्य गुणानुराधितया कुसुमलोलया चेतस्ततो ऽनुविचरमाना महाद्वादशवनगुल्मं प्रविविशुः । तेषु प्रसृतेषु कुमारोपस्थायका अन्योन्यप्रसृता बभूवुः । राजकुमारोत्सृष्टा उद्यानमहत्यामलक्षितायां तं द्वादशवनगुल्मं प्रविविशुः । अथ महाप्रणादो भ्रातृद्वयमुवाच । भीर्मे हृदयमाविशते । आगच्छत मा वयं श्वापदे विनाशमापद्येम । महादेव उवाच । न मे भयमस्त्यपि त्विष्टजनवियोगाद्धि मे हृदये प्रवर्तते । महासत्त्व उवाच ॥
न च मम भयमिहास्ति नापि शोको वनवरे मुनिजनसंस्तुते विविक्ते ।
परमसुविपुलमहार्थता लाभा हृदयमिदं मम संप्रपुष्पति च

19.3

अथ ते राजकुमारास्तद् द्वादशवनगुल्मविवरं चञ्चूर्यमाणा एकां व्याघ्रीं ददृशुः सप्ताहप्रसुतां पञ्चसुतपरिवृतां क्षुत्तृषपरिकर्षितां परमदुर्बलशरीरां दृष्टा महाप्रणादो ऽब्रवीत् । भो कष्टमियं तपस्विनी षडहप्रसुता वा सप्ताहप्रसुता वा भविष्यति । इदानीं भोजनमलभमाना स्वसुतानि भक्षयिष्यति जिघत्सया वा कालं करिष्यति । महासत्त्व उवाच । किमस्यास्तपस्विन्या भोजनम् । महाप्रणाद उवाच ।
मांसोष्णानि रूधिराणि रससंकाशं भवेद्यदिह ।
एतद्भोजनमुक्तं व्याघ्रतरक्ष्वृक्षसिंहानाम्

19.4

महादेव उवाच । इहैषा तपस्वीनी क्षुत्तुषपरीतशरीरा अलं प्राणावशेषा परमदुर्बला न शक्यमन्यस्थाने भोजनमन्वेष्टुम् । को ऽस्याः प्राणपरिरक्षणार्थमात्मपरित्यागं कुर्यादिति । महाप्रणाद उवाच । भो दुष्कर आत्मपरित्यागः । महासत्त्व उवाच ।
अस्मद्विधान् दुष्कर शरीर अभियुक्तानां एष नयः ।
अन्येषां परहिताभियुक्तानां सत्पुरुषाण न दुष्करः

19.5

अपि च ।
कृपाकरुणममवतारिय सत्त्वो दिवि चेह लभ्यते सः ।
स्वदेह शतश इह कृत्व मुदितमनाः परजीवशरीरे

19.6

अथ ते राजकुमाराः परमसंदीप्ता एषा व्याघ्रीति द्रुतमनिमिषिमनुनिरीक्षन्तः प्रचङ्क्रमुस्ततो महासत्त्वस्यैतदभूत् । अयमिदानीमात्मपरित्यागस्य कालः । कुतः -
सुचिरमपि ऋतो ऽयं पूतिकायो महाहैः शयनवसनान्नैर्भोजनैर्वाहनैश्च ।
श्तनयकृतधर्माभैदनान्तैरनन्तं न विजहति अनुपूर्वं स्वस्वभावं कृतघ्नुः

19.7

अपि च ।
नास्ती तस्योपजीव्यं सर्वतु मध्ये भुतत्वात्तं नियोज्य ।
तस्मै जरामरणस्य समुद्र-उत्तरणपोतभूतु भविस्सम्

19.8

अपि च ।
त्यक्त्वाहं पुण्ड्रभूतं भवशतभरितं विष्टान्तः पूर्णम् ।
निःसारफेनकल्पं कृमिशतभरितं कार्यकृत्यं तनु हि

19.9

निःशोक निर्विकारं निरुपधिममलं ध्यानप्रज्ञादिगुणैः ।
संपूर्णं धर्मकाय गुणशतभरितं प्राप्स्येव सुशुद्धम्

19.10

स खल्वेवं कृतव्यवसायः परमकरुणोपरिगतहृदयः तयोर्विक्षेपं चकार । गच्छेतां तावद्भवन्तौ स्वकार्येणाहं द्वादशवनगुल्मं प्रवेक्ष्यामीति ॥
अथ स महासत्त्वो राजकुमारः तस्मादुपवनात्प्रतिनिवृत्य व्याघ्र्या आलयमुपगम्य वनलतायां प्रावरणमृत्सृज्य प्रणिधानं चकार । एषो ऽहं जगतो हितार्थमनुत्तरां बोधिं विबुध्य शिवां कारुण्यात्प्रददामि निश्चलमतिर्देहं परैर्दुस्त्यजम् । तन्मे बोधिरनामया या जिनसुतैरभ्यर्चिता निर्ज्वला त्रैलिक्यं भवसागरात्प्रतिभयादुत्तारयेयान्माम् । इत्यथ व्याघ्र्या अभिमुखं महासत्त्वः प्रपतितः । ततो व्याघ्री मैत्रीवतो बोधिसत्त्वस्य न किञ्चिच्चक्रे । ततो बोधिसत्त्वो दुर्बलावर्तो ऽयमथेत्युत्थाय शस्त्रं पर्येषते स्म । कृपामतिर्न क्वचिच्छस्त्रमलभत् । सो ऽतिबलां वर्षशतिकां वंशलतां ( बग्छि 110 ) गृहीत्वा तया स्वबालमुत्क्षेप्य व्याघ्रीसमीपे पपात । प्रपतितमात्रे च बोधिसत्त्वे भूमिरियं प्रचरविहीनेव नौः सलिलमध्ये गता षड्विकारं प्रचचाल । राहुग्रस्त इव दिनकरकिरणो न बभ्राजे । दिव्यगन्धचूर्णसंनिश्रितं च कुसुमवर्षं पपात । अथान्यतरा विस्मया वर्जितमनसा देवता बोधिसत्त्वं तुष्टाव ॥
यथा कारुण्यं ते विसृतमिह सत्त्वेषु सुमते
यथा वै तद्देहं त्यजसि नरवीर प्रमुदितः ।
शिवं श्रेष्ठं स्थानं जननमरणार्थे विरहितं
निरायासं शान्तं त्वमिह न चिरात्प्राप्स्यसि शुभम्

19.11

अथ खलु सा व्याघ्री रुधिरम्रक्षितशरीरं बोधिसत्त्वमवेक्ष्य मुहूर्तमात्रेण निर्मांसरुधिरमस्थ्यवशेषं चकार ॥
अथ महाप्रणादस्तं भूमिकम्पमनुनिशम्य महादेवमेतदवोचत् ॥
प्रचलित ससमुद्रा सागरा वसुमतिदशदिक्षू सुप्तरश्मिश्च सूर्यः ।
पतति कुसुमवर्षं व्याकुलं वा मनो मे स्वतनुरिह विसृष्टः सांप्रतं भ्रातृणा मे

19.12

महादेव उवाच ।
यथा च सो करुणवचो ह्यवोचत समीक्ष्य तां स्वतनायभक्षणोद्यतां ।
क्षुधान्वितां व्यशनशतैः समन्वितां सुदुर्बला मतिरिह संशया तु मे

19.13

अथ तौ राजकुमारौ परमशोकाभिभूतौ वाष्पपरिप्लुताक्षौ तमेनं पन्थानं प्रतिनिवृत्य गच्छन्तौ व्याघ्रीसमीपमेवाभिजग्मतुः । तं ददृश्तुः शतं वंशलतासमायुक्तं प्रावरणं कृष्णविकृष्णानि ( बग्छि 111 ) चास्थीनि रुधिरकर्दमानि । नानादिग्विदिक्षु केशान्विस्तीर्णान्दृष्ट्वा च समूर्च्छन्नौ भूमौ निपेततुः । सचिरात्संज्ञामुपलभ्योत्थायोच्चेयबाहू आर्तस्वरं मुमुचतुः ।
अहो प्रियभ्रातृक पार्थिवायं तथा जननी सुतवत्सला या
पृच्छिष्यते सा जननी तृतीयः क्व वा युवाभ्यां कमलायतेक्ष्णः

19.14

अहो हि अस्माकमिहैव शोभितं ननू प्रदेशे मरणं न जीवितम् ।
कथं महासत्त्वविवर्जिता वयं दास्यामहे दर्शनमम्बतातयोः

19.15

अथ तौ राजकुमारौ बहुविविधकरुणं विलाप्य प्रचक्रमतुः । तत्र कुमारस्योपस्थायका दिशि विदिशि प्रधावन्तः कुमारान्वेषणाः परस्परं दृष्ट्वा च पप्रच्छुः क्व कुमारः क्व कुमार इति । तस्मिंश्च समये देवी शयनतलगता प्रियविप्रयोगसूचकं स्वप्नं ददर्श । तद्यथा स्तनौ छिद्यमानौ दन्तोत्पातनं च क्रियमाणं त्रयः कपोतशावकाः प्रतिलम्भमानास्ते भीता एव श्येनेनाच्छिद्यमानाः । अथ देवी भूमिकाम्पादुत्रस्तहृदया सहसा प्रतिविबुध्य चिन्तापरा बभूव ॥ किमेषा भूतधात्री जलनिधिवसना कम्पति भृशं सूर्यः शूली न रश्मिर्मम च किच भूभजं वयति वा ।
दुःखं कुर्वति मे गात्रं चलति च नयनं स्वस्तनं छिद्यती च ।
स्वस्ति मे स्यात्सुतानां वनविवरमिदं क्रीडनार्थं गतानाम्

19.16

अथैवं चिन्तयन्त्याश्चेटी च संत्रस्तहृदया प्रविश्य देव्या निवेदयामास । देवि कुमारपरिचारकाः कुमारमन्वेषन्ते नष्टः श्रूयते । तत्र पुत्रहतश्रवणाच्च देवी संकम्पिताहृदया वाष्पाकुलनयनवदना ( बग्छि 112 ) राजानमभिगम्योवाच । देव नष्टो मे प्रियसुतः श्रूयते । राजापि संकम्पितहृदयः परमसंत्रासमापेदे । हा कष्टं वियुक्तो ऽस्मि प्रियसुतेन । अथ राजा देवीमाश्वासयामास । मा भीर्देवि पुत्रार्थं वयं कुमारान्वेषणोपलभन्तः । तत्र प्रवृत्ते कुमारान्वेषणाभिद्रुते जनकाय अथाचिरादेव राजा ददर्श दूरत एवागच्छन्तौ राजकुमारौ । दृष्ट्वा राजाब्रवीत् । एतावालभन्तौ कुमारौ न तु सर्वे । हा कष्टं सुतवियोगो नाम ।
न भवति निरुपलम्भे न प्रीतिरेवं नराणां भवति सुतवियोगाद्यादृशं दौर्मनस्यम् ।
ननु वरसुखिनस्ते येन पुंसाभियोगा मरणमुपगता वा ये न जीवन्ति पुत्राः

19.17

अथ देवी परमशोकाभिभूता मर्महन्तेव कलभी आर्तस्वरमुवाच ॥
यदि तनयास्त्रयस्य भृत्यवर्गा वनवरे कुसुमाकुले प्रविष्टाः ।
क्व स हृदयसमो समस्तृतीयः सुतमनयापदवैति कनीयसमेतत्

19.18

तयोरागतयो राजा पुत्रावेतत्पर्यपृच्छतोत्सुकः कुमारौ परिपृच्छति स्म । क्व दारकः कनीयस इति । ततः शोकार्तावश्रुद्रुतनयनौ परिशुष्कताल्वोष्ठदशनवदनौ न किञ्चिदूचतुः ॥ देव्युवाच ॥
कथयतां लघु विमुह्यति स्मृतिश्च परमभृशं परिपीड्यते च देहः ।
क्व स मम पुत्रस्तृतीय हृदयं इदं स्फुटितं तु संमूर्च्छति वा

19.19

अथ तौ कुमारौ विस्तरेण तं वृत्तान्तं निवेदयामास । सहश्रवणेन राजा देवी परिजनाश्च मोहमुपगताः । मोहप्रत्यागताश्च करुणार्तस्वरं रोदमानास्तं देशमभिजग्मुः । अथ राजा देवी च तण्यस्थीन्यपगतरुधिरमांसानि वायुना दिशो विदिशश्च केशविकीर्णा दृष्ट्वा ( बग्छि 113 ) चाहत इव द्रुमो भूमौ निपतितौ । ततः पुरोहितः सुचिरं तामवस्थां दृष्ट्वा सलिलमलयचन्दनपङ्कै राज्ञो देव्याश्च शरीरं प्रह्लादयामास । अथ सुचिरात्संज्ञामुपलभ्य राजोत्थाय करुणकरुणं विललाप ॥
हा कष्टं पुत्र क्व मनोरस दर्शनीय मृत्योर्वशं शीघ्रमुपगतासि ।
मृत्योः प्रश्ममेव हि चागतो विना ते परं मम भविष्यति दुःखमन्यत्

19.20

देवी च मोहात्यागता प्रकीर्णकेशी बाहुभ्यामुरस्ताडयन्ती स्थान्यां प्लुत इव मत्स्या धरण्यास्तले परिवर्तमाना महिषीव नष्टवत्सा कलभीव नष्टशावका करुणकरुणं रोदिति ॥
हा कान्त प्रियसुत केन व्रजसे भग्नो ऽयं पद्मो धरणीतले हि विकीर्णः ।
शत्रुणा मम भुवि केन नाशं गतो ऽद्य पुत्रो मे नयनमनोहरचन्द्रः
हा किं शरीरमिह अद्य न याति भग्नं पश्यामि हं सुतवरं निहतं पृथिव्याम्

19.21

संव्यक्तं हृदयमयो ममैतं धिग्व्यसनं अवेक्ष्य नो चेद्भेदयते ।
हा चैतत्पापकं स्वप्नफलं यच्छिन्नाविमावद्य केनचिदसिना ।
स्वप्नान्तरे द्वौ स्तनौ दंष्ट्रोत्पाट्य मे प्रियसुतो नाशं गतः शीघ्रमतः

19.22

स श्येनेनापहृतो यथैव इह मे लब्धैः कपोतैस्त्रिभिः ।
सो मे ऽद्य त्रिभिरात्मजैः परिवृत एको हतो मृत्युना

19.23

अथ राजा देवी च बहुविधं करुणकरुणं परिदेवतस्तयोः सर्वभरणान्यवमुच्य महता जनकायेन सार्धं पुत्रस्य शरीरपूजां कृत्वा तस्मिन्पृथिवीप्रदेशे सुवर्णमयचैत्येषु न्यस्तानि तानि शरीराणि ॥
स्यात्ते खलु पुनरानन्दान्यः स तेन कालेन तेन समयेन महासत्त्वो नाम राजकुमारो ऽभूत् । नैवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स तेन कालेन तेन समयेन महासत्त्वो नाम राजकुमारो ऽभूत् । तदापि मयानन्द राजद्वेषमोहापरिमुक्तेन नरकादिभ्यश्च दुःखेभ्यः कृपया जगदनुगृहीतम् । किं खलु पुनरिदानीं सर्वदोषापगतेन सम्यक्संबुद्धेनेति । एवं ह्येकैकस्य सत्त्वस्यार्थे कल्पं समुदेयं नरकेषु जातिं संसाराद्विमोचयेयम् । खलु सत्त्वसारैश्च जगत्परिगृहीतं दुष्करमनेकविधविचित्रमिति ॥
अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत ॥
बहूनि कल्पानि मयात्मा त्यक्तः पर्येषयेता इममग्रबोधिम् ।
यथासि राजा यथ राजपुत्रम् तथैव त्यक्ता मय आत्मभावाः

19.24

अनुस्मरमि पुरिमासु जातिषु महारथो नाम बभूव राजा ।
तस्यापि पुत्रौ महात्यागवन्तो नाम्ना महासत्त्व वरो बभूव

19.25

द्वौ तस्य आसीदथ भ्रातरौ च नाम्ना महादेव महाप्रणादः ।
वनखण्ड गत्वा व समानगोत्रैस्तैर्दृष्ट व्याघ्री क्षुधयाभिभूता

19.26

तस्याग्रसत्त्वस्य कृपाभिजाता यन्नून हं आत्म त्यजेय मांसम् ।
एषा हि व्याघ्री क्षुधतर्षपीडिता खादीय एतानि स्वकात्मजानि

19.27

पतितश्चासीत्तदा स महारथसुतो महासत्त्वः ।
दृष्ट्वा च व्याघ्रीं क्षुधार्तां व्याघ्रसुतमोक्षार्थम्

19.28

करुणामये पतिते ऽत्र कम्पित सशैल धरणी विद्रुत पक्षिसंघ विविधानि ।
संत्रस्तो मृगसंघस्तदाकुलसंस्थितो ऽभूल्लोको ऽयम्

19.29

द्वौ तस्य भ्रातरौ च महाप्रणादस्तथा महादेवः ।
न लभेते महासत्त्वं दृष्ट्वा तत्र महावनखण्डे ऽस्मिन्

19.30

अतिशोकशल्यहृदया विचरन्ति वनान्तरे विसंज्ञाश्च ।
पर्येषन्ति भ्रातरमश्चुमुखानि विचरन्ति वनमध्ये

19.31

उभौ तौ राजकुमारौ महाप्रणादस्तथा महादेवः ।
तत्रोपसंक्रमित्व यत्र व्याघ्री सुदुर्बला शयिता व्याघ्रीसुता

19.32

दृष्ट्वा रुधिरलिप्ताङ्गानि केशास्थिचर्ममात्रं धरण्याम् ।
अवकीर्ण पतितानि यत्किञ्चिन्मात्रं तस्य पतितं धरणीयं पश्यन्ति

19.33

उभौ तौ नृपसुतौ संमूर्च्छितौ हि तत्र पतन्ति धरणीयम् ।
नष्टमनाः सर्वपाण्डु रजोलिप्तगात्राः स्मृतीन्द्रियविहीनमूढचित्ताश्च

19.34

तेषां चो पार्षद्याः करुणस्वररोदमानशोकार्त्ताः ।
सिञ्चन्ति ते जलेनोत्थितोर्ध्वबहवश्च क्रदन्तः

19.35

तस्मिन्पतितमात्रेण सान्तर्जने विप्रियाग्रमहिषी च ।
पश्यति पञ्चस्त्रीशतेभी राजकुलान्तर्गता सुखप्रविष्टकाया

19.36

ताभ्यां स्तनाभ्यां क्षीरप्रमुक्तं प्रस्त्रवन्त्य वेगैः ।
सर्वाङ्गमस्या हि सूचीभिरिव भिद्यमानापि

19.37

अतिशोकघूर्णहृदया पुत्रवियोगार्त्तशोकशरविद्धा ।
उपसंक्रमित्व नृपतिं सुदीनमनसा अतिशोकसंतप्ता ।
करुणस्वरं रोदमान राज्ञो ऽथ महारथस्यैवावोचत्

19.38

शृणु मम नृपते नरेन्द्र शोकाग्निना मम दह्यते शरीरम् ।
उभाभ्यां स्तनमुखाभ्यां क्षीरप्रमुक्तमचिरेण

19.39

सूचीभिरिवाङ्गमङ्गं पीड्यन्ति स्म तानि मम हृदयं च ।
यथा निमित्तं यादृश न भूय पश्यामि दर्शनं प्रियसुतान

19.40

पुत्राणां मे विजान ददाहि मम जीवितं क्षेमं कुरुष्व ।
स्वप्नो मया दृष्टस्त्रयो मम कपोतसुतानि यो ऽस्य तृतीयमहं कपोतसुतं प्रियमना

19.41

श्येनस्तत्र प्रविष्टः श्येनेनापहृतं कपोतकं च स्वप्नान्तरे च ।
मम ईदृश शोकं प्रविष्टिं हृदये ऽस्मिन्

19.42

अतिदाहशोकचिन्ता मरणं मम भविष्यति न चिरेण ।
पुत्राण मे विजान ददस्व मम जीवितं भवान्स्वकारुण्यम्

19.43

एवमुक्त्वाग्रमहिषी संमूर्च्छति पतति तत्र धरणीये
स्मृतीय परिहीना विनष्टचित्ता विसंज्ञमना ।
सर्वान्तःपुरणाश्च करुणस्वरं रोदमानाः क्रन्दन्तः

19.44

दृष्ट्वा तामग्रमहिषीं संमूर्च्छितपतितां च तत्र धरणीये ।
समनन्तरशोकार्त्तः पुत्रवियोगः सामात्यो राजेन्द्रः ।
अमात्याश्च प्रयुक्ता जिज्ञासार्थं गताः कुमाराणाम्

19.45

सर्वनगरान्तर्जना नानाशस्त्रगृहीतोत्थिताः ।
तथा आगताश्चाश्रुमुखा रोदमानाः पृच्छिन्ति पथेषु तं महासत्त्वम्

19.46

किं जीवितो वां क्व गतः सांप्रतं महासत्त्वः किं द्रक्ष्याम्यहमद्य ।
मनापं सत्त्वदर्शन प्रियमनापं न चिरेण विनष्टश्रमम्

19.47

सशोकवदनः प्रयाति विषये ऽस्मिन्दारुणनिर्दनाकरः ।
अनन्तायाससंकटानि घोषः राजा महारथोत्थाय रोदमानः

19.48

शोकार्त्तः सिञ्चति सलिलधारैः अग्रमहिषीं च धरणीये पतन्तीं ।
सिञ्चति उदकेन यावत्स्मृतिं लभ्यते उत्थाय पृच्छिरं दीनमानसा

19.49

किं मम पुत्रा हि मृता जीवन्ति राजा महारथश्चाग्रमहिषीं च ।
एवमेवावोच दिशि विदिशासु अमात्या पार्षद्या जिज्ञासार्थं गताः

19.50

कुमाराणां मा त्वमतिदीनमानसा भवा हीनायास शोकहृदया ।
एवं महारथश्च क्षमापयित्वा तदाग्रमहिषीं च कम्पो निष्क्रमे

19.51

राजकुलतो ऽथाश्रुमुखो रोदमानः शोकार्त्तः अमात्यगणपरिवृत्तः ।
सुदीनमनसाथ दीनचक्षुश्च निष्क्रम्य नगरपुरतो जिज्ञासार्थाय

19.52

राजा पुत्राणां बहुप्राणिनः अश्रुमुखो रोदमानो धावति ।
निर्गतं दृष्ट्वा राजानं पृष्ठतः समनुबुद्धो ऽथ समनन्तरनिष्क्रान्तः

19.53

राजा स महारथः समनन्तरात्प्रियपुत्रदर्शनार्थं प्रेक्षति ।
दिशतां सुगौलनयनो दृष्ट्वान्यतरं पुरुषं मुण्डितशीर्षं च

19.54

रुधिरालिप्ताङ्ग पांशुलशरीरं अश्रुमुखं रोदमानं गच्छन्तम् ।
दारुणशोकार्त्तः महारथस्य हृदयस्थो ऽश्रुमुखो रोदमानः

19.55

स्थित ऊर्ध्वबाहुश्च क्रन्दन्तः अथान्यतमो ऽमात्यस्त्वरागत्य ।
शीघ्रभारादुपसंक्रम्य नृपते राज्ञो महारथस्य आवचिंसु

19.56

मा शोकचित्तस्त्वं भव नृपते तिष्ठन्ति ते पुत्राः प्रियमनापाः ।
न चिरेणागम्य इह तवान्तिके द्रक्ष्यसि त्वं पुत्रवरं मनापम्

19.57

मुहूर्तमात्रमभिगम्य - - राज्ञो द्वितीयो ऽमात्य आगतस्ततः ।
रजो ऽवकीर्णो मलवस्त्रप्रावृतः साश्रुमुखो राजानमिदमब्रवीद्

19.58

द्वै च ते पुत्रै महानृपेन्द्र तिष्ठतः शोकानलसंप्रदीप्तौ ।
एकस्तवो पुत्रवरो न दृश्येत नृप ग्रस्तो महासत्त्व अनित्यतया

19.59

दृष्ट्वा च व्याघ्रीमचिरप्रसुतां स्वीयाञ्च पुत्रानुपभोक्तुकामाम् ।
तेषां महासत्त्व वरकुमारो महान्त कारुण्य बलं जनेत्वा

19.60

बोधौ च कृत्वा प्रणिधिमुदारां सर्वांश्च सत्त्वानिह बोधयिष्ये ।
तं बोधिं गम्भीरमुदारमिष्ट्वा अनागते ऽध्वनि अहं स्पृशेयम्

19.61

पतितो महासत्त्वो गिरि तटतु सो ऽग्रे स्थितो व्याघ्र्यः क्षुधाभिभूतायाः ।
मुहूर्त निर्मासकृतः स अङ्गं च अस्थावशेषं कृतः राजपुत्रः

19.62

एवं च श्रुत्वा स वचः सुधारें संमूर्च्छितो राज महारथश्च ।
पतितश्च धरणीय विनष्टचित्तः शोकाग्निना प्रज्वलितः सुदारुणा

19.63

आमात्यपार्षद्य करुणास्वररोदमाना शोकार्त सिञ्चन्तिते जलेन ।
सर्वे स्थिता ऊर्ध्वबाहुश्च स कन्दमानाः तृतीयो ऽमात्यो नृपमब्रवीत्

19.64

दृष्टौ मयाद्य उभौ कुमारौ समुच्छतौ तत्र महावने ऽस्मिन् ।
पतितौ धरण्यां च विनष्टचित्तौ अस्माभिरुदकेन च सिञ्चितानि

19.65

यावत्स्मृतिं लभ्यते पुनः स्थितौ हि आदीप्त पश्यन्ति दिशश्चतस्त्रः ।
मुहूर्त तिष्ठन्ति पतन्ति भूमौ कारुणस्वरेण परिदेवयन्ति

19.66

ता ऊर्ध्वबाहु सततं स्थिहन्ति वर्णमुदीरन्तयोर्भ्रातरस्य
स चैव राजा हृदि दीनचित्तः पुत्रवियोगात्सुविक्षिप्तचित्तः

19.67

शोकप्रविद्धः परिदेवयित्वा एवं हि राजा परिदेवयन्ति ।
एकश्च मे पुत्र प्रियमनापः ग्रस्त कनिष्ठो वनराक्षसेन

19.68

मा मे इमौ अन्य च द्वौ हि पुत्र शोकाग्निना जीवितसंक्षयं व्रजेत् ।
यन्नून हं शीघ्र व्रजेय तत्र पश्येय पुत्रौ प्रियदर्शनौ तौ

19.69

शीघ्रेण यानेन च राजधानीं प्रवेशयेद्राजकुलान्त शीघ्रम् ।
मा एषा मातुर्हि जनेतु कामं शोकाग्निना तद्धृदय स्फटे तत्

19.70

पुत्रौ च दृष्ट्वा लभते प्रशान्तिं न जीवितेनालभते वियोगम् ।
राजापि चामात्यगणेन सार्धं द्विपाभिरूढो गत तत्र दर्शितु

19.71

दृष्ट्वा च पुत्रौ भ्रातृनामाह्वानौ करुणास्वरं क्रन्दतौ आत्तमाना ।
राजा हि तत्पुत्रद्वयं गृहीत्वा प्ररोदमानोपि पुरं व्रजित्वा ।
सा शीघ्रशीघ्रं त्वरमान स्वपुत्रां देवीं अदर्शेत्सुतपुत्रकामाम्

19.72

अहं च स शाक्यमुनिस्तथागतः पूर्वं महासत्त्ववरो बभूव ॥
पुत्रश्च राज्ञो हि महारथस्य येनैव व्याघ्री सुखिता कृतासीत्

19.73

शुद्धोदनो हि वरपार्थिवेन्द्रो महारथो नाम बभूव राजा ।
महिषी च आसीद्वरमायदेवी महाप्रणादस्तथ मैत्रियो ऽभूत्

19.74

महादेवी आसीदथ राजपुत्रो मञ्जुश्रीरभूद्वीरकुमारभूतः ।
व्याघ्री अभूत्तत्र महाप्रजापती व्याघ्रीसुता पञ्चक अमी हि भिक्षवः

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc