भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 20

20.1

अथ महारा आ महादेवी व बहुविधकरुणापरिदेवनं कृत्वा भरणान्येवमुच्य महतो अनकायेन सार्धं पुत्रस्य शरीरपू आं कृत्वास्मिन्प्रदेशे तस्य महासत्त्वस्येमे शरीरा प्रतिष्ठापिता अयं सप्तरत्नयमस्तूपः । तत्र देवेन महासत्त्वेनास्यै व्याघ्र्या आत्मभावं परित्यक्तम् । एवं रूपं च प्रणिधानं करुणया कृतम् । इमं मया शरीरस्य परिदेशना ऽनागते ऽध्वनि गणनासमतिक्रान्तैः कल्पैः सर्वसत्त्वानां बुद्धकायं च कारिता । अस्मिन्देशने निर्दिश्यमान अप्रमेयाणां सत्त्वानां सदेवमानुषिकायाः प्र आयाः अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अयं च हेतुरयं च प्रत्ययः । अस्य स्तूपस्येह निदर्शनतायाः । स च स्तूपो बुद्धाधिष्ठानेन तत्रैवान्तर्धानमनुप्राप्त इति ॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याघ्रीपरिवर्तो नामोनविंशतितमः ॥
॥ सर्वतथागतस्तवपरिवर्तः ॥
अथ खलु तान्यनेकानि बोधिसत्त्वशतसहस्राणि येन सुवर्णरत्नाकरच्छत्रकूटस्तथागतस्तेनोपसंक्रान्ताः । उपसंक्रम्य तस्य सुवर्णरत्नाकरच्छत्रकूटस्य तथागरस्य पादौ शिरसा बन्दित्वैकान्ते स्थितानि कृताञ् अलिभूतानि तं सुवर्णरत्नाकरच्छत्रकूटं तथागतमभिष्टवित्सुः ॥
सुवर्णवर्णो इनत्यक्तकाय सुवर्णवर्णो व्यवभासिताङ्ग ।
सुवर्णवर्णो गिरिवा मुनीन्द्र सुवर्णवर्णो मुनिपुण्डरीक

20.2

सुलक्षणैर्लक्षण भुषिताङ्गं सुविचित्रव्यञ् अनविचित्रिताङ्ग ।
सुविरा इतं काञ्चनसुप्रभासं सुनिर्मलं सौम्यमिवाचलेन्द्रम

20.3

ब्रह्मेश्वरं सुस्वरब्रह्मघोषं सिंहेश्वरं गर् इतमेघघोषम् ।
षष्टयङ्गवच्चातस्वरनिर्मलेश्वरं मयूरकलविङ्करुतस्वरा इतम्

20.4

सुनिर्मलं सुविमलते असुप्रभं पुण्यं शतलक्षणसमलंकृतं इनम् ।
सुविमलसुनिर्मलसागरं इनं सुमेरुसर्वसुगणाचितं इनम्

20.5

परमसत्त्वहितानुकम्पनं परमं लोकेषु सुखस्य दायकम् ।
परमार्थस्य सुदेशकं इनं परिनिर्वाणसुखप्रदेशकम्

20.6

अमृतस्य सुखस्य दायकं मैत्रीबलवीर्य उपायवन्तम् ।
न शक्यं सतगुरवसमुद्रसागरबहुकल्पसहस्रकोटिभिरेकैकं तव प्रकाशितुम्

20.7

एतत्संक्षिप्तं मया प्रकाशितं किं चिद्गुणबिन्दुगुणार्णवोद्भवम् ।
यच्च समुपचितपुण्यसंचयं तेन सत्त्वः प्राप्न्यतु बोधिमुत्तमाम्

20.8

अथ खलु रुचिरकेतुबोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्गं प्रावरित्वा दक्षिंण आनु मण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ् अलिं प्रणमयित्वा तस्यां वेलायामिमाभिर्गाथाभिरम्यस्तावीत् ।
स त्वं मुनीन्द्र शतपुण्यलक्षण सहस्रश्रीचारुगुणैरलंकृतम् ।
उदारवर्णवरसौम्यदर्शन सहस्ररश्मिरिव प्रसूयते

20.9

अनेकरश्मि वलनाकुलप्रभं विचित्ररत्नाकुलरत्नसंनिभ ।
नीलावदाताप्यवकाञ्चनाभं वैडूर्यताम्रारणस्फटिकाभम्

20.10

न भासते व रमिवेन्द्रपर्वतान् प्रभाविलासाभिरनन्तकोटिभिः ।
प्रसीद मे सेन्द्रप्रचण्डभानुना प्रतप्यसे सत्त्वसुखाचरैरिति

20.11

प्रसन्नवर्णेन्द्रियचारुदर्शन आतप्तरूप अनकान्तरूप ।
अपूर्ववर्णो विर ओ विरा असे यथैव मुक्तं भ्रमराकुलप्रभम्

20.12

विशुद्धकारुण्यगुणैरलंकृतं समानमैत्रीबलपुण्यसंचितम् ।
विचित्रपूर्णैरनुव्यञ् अनार्चितं समाधिबोध्यङ्गगुणैरलंकृतम्

20.13

त्वया हि प्रह्लादकरी सुखंकरी शुभाकरं सर्वसुखाकरागमम् ।
विचित्रगम्भीरगुणैरलंकृतं विरोचसे क्षेत्रसहस्रकोटिषु

20.14

विरा असे त्वं द्युमणीरिवांशुभिः यथो वलं त्वं गगणे ऽर्कमण्डलम् ।
मेरुर्यथा सर्वगुणैरुपेतः संदृश्यसे सर्वत्रिलोकधातुषु

20.15

गोक्षीरशङ्खकुमुदेन्दुसंनिभः तुषारपद्माभसुपाण्डुर प्रभः
दन्तावलिस्ते मुखतो विरा अते सद्रा अहंसैरिव चान्तरीक्षम्

20.16

त्वत्सौम्यवक्रेन्दुमुखान्तरे स्थितं प्रदक्षिणावर्त सुकुण्डलीनम् ।
वैडूर्यवर्णैमणितोर्णरश्मिभिर्विरोचते सूर्य इवान्तरीक्षे

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc