भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 17

17.1

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे यक्षाश्रयो नामरक्षापरिवर्तः पञ्चदशमः ॥
॥ दशदेवपुत्रसहस्रव्याकरणपरिवर्तः ॥
एवमुक्ते बोधिसत्त्वसमुच्चया कुलदेवता भगवन्तमेतदवोचत् । केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोत्तप्तवीर्येण कुशलमूलेन यस्य कृतत्वादुपचितत्वादेवतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिशद्देवभवनादागतानि भगवतो ऽन्तिके धर्मश्रवणायोपसंक्रामन्ति ।
एतेषां त्रयाणां सत्पुरुषाणां बोधिसत्त्वव्याकरणं श्रुत्वा बोधौ चित्तमुत्पादयन्ति । यथायं रुचिरकेतुः सत्पुरुषो ऽनागते ऽध्वनि गणनासमतिक्रान्तेष्वनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु सुवर्णप्रभासितायां लोकधातावनुत्तरां सम्यक्यंबोधिमभिसंभोत्स्यते । सुवर्णरत्नाकरच्छत्रकूटो नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन् । यावत्तस्य भगवतः सुवर्णरत्नाकरच्छत्रकूटस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मान्तर्हिते सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यकेतुर्नाम दारकः । तस्य तथागतस्यानुसंघौ तत्र चैव विरजध्वजलोकधातौ सुवर्णजम्बुध्वजकाञ्चनाभो नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते । यावत्तस्य सुवर्णध्वजकाञ्चनावभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यप्रभो दारकः । तस्य तथागतस्योनुसंघौ तत्र चैव विरजध्वजलोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सुवर्णशतरश्मिप्रभासगर्भो नाम तथागतो ऽर्हनसम्यक्संबुद्धो लोक उत्पस्यते विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥ ते सर्व एतर्हि भगवतानुत्तरायां सम्यक् संबोधौ व्याकृताः ॥
न चैतेषां भदन्त भगवज्ज्वलनान्तरतेजोराजप्रमुखानां दशानां देवपुत्रसहस्राणां यावद्विस्तीर्णा बोधिसत्वचर्या अभूवन् । न षट्सु पारमितासु पूर्वं चरितवन्तः श्रुतपूर्वा अभूवन् । नयनचरणोत्तमाङ्गप्रियपुत्रभार्यादुहितरः परित्यक्तपूर्वा न श्रूयन्ते । धनधान्यहिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडजातरूपरजतमरकतरत्नानि ( बग्छि 91 ) परित्यक्तपूर्वाणि न श्रूयन्ते । नानान्नपानवस्त्रयानशयनासनभवनविमानारामपुष्करिणीतडागाः परित्यक्तपूर्वा न श्रूइयन्ते । नानाहस्तिगो ऽश्ववडवादासीदासाः परित्यक्तपूर्वा न श्रूयन्ते । यथा तान्यनेकानि बोधिसत्त्वकोटीनियुतशतसहस्राणि पूर्वेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वनेकानामसंख्येयतथागतकोटीनियुतशतसहस्राणामनेकाचिन्त्यैः नानाविचित्रैः पूजाशतसहस्रैः सर्वोपकरणैः पूजां करिष्यन्ति । सर्वरत्नपरित्यागानि परित्यजिष्यन्ति । करचरणनयनोत्तमाङ्गप्रियपुत्रभार्यादुहितापरित्यागानि करिष्यन्ति । धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाणि परित्यागानि परित्यजन्ति । अन्नपानवस्त्रशयनासनभवनविमानारामोद्यानपुष्करिणीहस्तिगवाश्चवडवादासीदासपरित्यागानि परित्यक्ष्यन्ति । अनुपूर्वेण षट्पारमिताः परिपूरयिष्यन्ति । अनुपूर्वेण षट्पारमिताः परिपूरयित्वानेकानि सुखशतसहस्राण्यनुभविष्यन्ति । यावद्बुद्धेभ्यो भगवद्भयः तथागतनामधेये व्याकरणं प्रतिलप्स्यन्ते ॥
तत्केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोप्तकुशलमूलेन च तानि ज्वलनान्तरते जोराजप्रमुखानि दशदेवपुत्रसहस्राणीह भगवतो ऽन्तिकं धर्मश्रवणायोपसंक्रामन्ति । तान्येतर्हि भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतानि । यदुतानागते ऽध्वन्यनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु तत्रेव शालेन्द्रध्वजाग्रवत्यां लोकधातावेककुलगोत्रैकनामधेयेनानुपूर्वेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । प्रसन्नवदनोत्पलगन्धकूटानाम्ना दशसु दिक्षु दशबुद्धसहस्राणि लोक उत्पत्स्यन्ते विद्याचरणसंपन्नाः सुगता लोकविदो ऽनुत्तराः पुरुषदम्यसारथयः शास्तारो देवानां च मनुष्याणां च बुद्धा भगवन्तः ॥
एवमुक्ते भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् । अस्ति कुलदेवते सहेतुरस्ति तत्कारणम् । अस्ति तदुप्तं कुशलमूलं यस्य कृतत्वादुपचितत्वादेतानि ज्वलनान्तरतेजोराजप्रमुखानि ( बग्छि 92 ) दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिंशद्भवनादिह धर्मश्रवणायोपसंक्रामन्ति । एतेषां त्रयाणां सत्पुरुषाणामिदं बोधिव्याकरणं श्रुत्वा सहश्रवणेन कुलदेवते ऽस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रीतिप्रसादप्रतिलब्धा भवन्ति । तावद्विमलवैडुर्यसदृशेन परिशुद्धचित्तेन समन्वागता भवन्ति । विमलविपुलविस्तीर्णगगणकल्पसदृशेन गम्भीरेण चित्तप्रसादेन समन्वागता भवन्ति । अपरिमितं च पुण्यस्कन्धं परिगृहीतवन्तो भवन्ति तावच्चैत्यदैवते ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि सहश्रवणेनास्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रसादप्रतिलब्धा भवन्ति । तावद्विमलवैडूर्यसदृशेन परिशुद्धेन चित्तेन समन्वागता भवन्ति यावद्याकरणभूमिमनुप्राप्ताः । अनेन कुलदेवते धर्मश्रवणकुशलमूलप्रचयेनापि पूर्वप्रणिधानवशेनैतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि । कतमानि च कुलदेवते पूर्वप्रणिधानानीति ।
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे दशदेवपुत्रसहस्रव्याकरणपरिवर्तः षोडशः ॥
॥ व्याधिप्रशमनपरिवर्तः ॥
भूतपूर्वं कुलदेवते ऽतीते ऽध्वन्यसंख्येयतरैर्विपुलैरचिन्त्यैरप्रमेयैर्यदासीत्तेन कालेन तेन समयेन रत्नशिखी नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मस्यान्तर्हितस्य सद्धर्मप्रतिरूपके परिवर्तमाने सुरेश्वरप्रभो नाम राजा बभूव । धार्मिको धर्मराजो धर्मेण राज्यं पालयमानो नाधर्मेण मातापितृकल्पः सर्वविषयवासिनां सत्त्वानाम् ॥
तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषये जटिंधरो नाम श्रेष्ठी बभूव ॥
वैद्यः चिकित्सकः परमधातुकुशलो ऽष्टाङ्गेनायुर्वैद्यशास्रेण समन्वागतो बभूव ।

तेन खलु कुलदेवते कालेन तेन समयेन तस्य जटिंधरस्य श्रेष्ठिनो जलवाहनो नाम्ना श्रेष्ठिपुत्र उत्पन्नो बभूव । अभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतो नानाशास्त्रकुशलः सर्वशास्त्रगतिंगतो लिपिसंख्यागणनाकुशलः सर्वशिल्पी बभूव । तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषये ऽनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टान्यभूवन् । नानाव्याधिपरिपीडितानि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति ॥
तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य जलवाहनस्य श्रेष्ठिपुत्रस्य तेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपिडितानामर्थाय परमकारुण्यं चित्तमुत्पन्नो बभूव । एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितान्येतर्हि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति । अयं च मम पिता जटिंधरः श्रेष्ठी वैद्यविचिकित्सकः परमधातुकुशलो ऽष्टाङ्गायुर्वैद्यशास्त्रेण समन्वागतो वृद्धो जीर्णो ( बग्छि 94 ) महल्लको ऽध्वगतो वयो ऽनुप्राप्तो जीर्णमवस्थाप्य प्रवेपमाणः कायो यष्टिमालम्ब्य यत्र यत्र सर्वत्र ग्रामनगरनिगमराष्ट्रराजधानीषूपसंक्रामति । एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधोभ्यः परिमोचयितुं यं नूनमहमिममेव पितरं जटिंधरमुपसंक्रमित्वाधिकौशल्यं परिपृच्छेयम् । येन धातुकौशल्येन परिपृष्टेनाहं सर्वत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामि । उपसंक्रम्य तान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधिभ्यः परिमोचयिष्यामि ।
तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो येन स्वपिता जटिंधरः श्रेष्ठी तेनोपजगाम । उपेत्य स्वपितुर्जटिंधरस्य पादौ शिरसा वन्दित्वा कृताञ्जलिपुटो भूत्वैकान्ते ऽस्थात् । एकान्ते स्थितो जलवाहनः श्रेष्ठिपुत्रः स्वपितरं जटिंधरं श्रेष्ठिनमिमाभिर्गाथाभिर्धातुकौशल्यं पृच्छति स्म ॥
तानीन्द्रियाणि लक्षन्ते परिवर्तन्ति धातवः ।
केन कालेन जायन्ते व्याधयश्च शरीरिणाम्

17.2

भोजनं च कथं भुक्त्वा काले काले सुखावहम् ।
येनान्तरशरीरस्य कायो ऽग्निनोपहन्यते

17.3

कथं चिकित्सा कर्तव्या वाते पित्ते श्लेष्मिके तथा ।
संनिपाते समुत्पन्ने कथं व्याधिशान्तये

17.4

किं काले कुप्यते वातः पित्तं कुप्यते कदा ।
किं काले कुप्यते श्लेष्मा येन पीड्यन्ति मानवाः

17.5

अथ खलु जटिंधरः श्रेष्ठी जलवाहनस्य श्रेष्ठिपुत्रस्याभिर्गाथाभिर्धातुकौशल्यं विदित्वा देशयते स्म ॥
वर्षा चात्र त्रयो मासास्त्रयश्च शारदं स्मृतम् ।
त्रयस्तथैव हेमान्तस्त्रयश्च ग्रीष्मिकस्तथा

17.6

इत्येव मासक्रमः षडृतूनि संवत्सरद्वादशमासिकं स्मृतम् ।
अन्नं च पानं च तथा च जीर्यते वैद्याश्च कौशल्यस्मृतिप्रदर्शिताः

17.7

ते चापि संवत्सरपर्वमन्तरे परिवर्तन्तीन्द्रियधातवो ऽपि ।
परिवर्तमानानि च इन्द्रियाणि विचित्रव्याधिर्भवते शरीरिणाम्

17.8

तत्रैव वैद्यस्य चतुः प्रकारं त्रिमासपर्वान्तरे षडृतूनि ।
षड्धातुकौशल्यप्रजानितव्यं यथाक्रमं भोजनमौषधं च

17.9

वाताधिकाराः प्रभवन्ति वर्षे पत्तिप्रकोपः शरदि प्रसन्ने ।
हेमन्तकाले तथ संनिपातं कफाधिकाराश्च भवन्ति ग्रीष्मे

17.10

स्निग्धोष्णलवणाम्लरसाश्च वर्षे शरत्सु स्निग्धं मधुरं च शीतम् ।
मधुराम्लस्निग्धं च हेमन्तकाले रूक्षोष्णकटुकानि च ग्रीष्मकाले

17.11

कफाधिकः कुप्यति भुक्तमात्रे पित्ताधिकं कुप्यति जीर्यमाणे ।
वाताधिकः कुप्यति जीर्णमात्रे इत्येव धातुत्रितयप्रकोपः

17.12

संबृहणं कुर्वतु निरात्मकस्य विरेचनं पित्तविवर्धनं च ।
त्रिगुणोपपन्नं तथ संनिपाते प्रशमं च कुर्यात्कफपर्वमन्तरे

17.13

वाताधिकं पैत्तिकसन्निपाते कफाधिकं पर्वसु जानितव्यम् ।
यत्काल यद्धातु यदाश्रयं च तदन्नपानौषधि दर्शितव्यमिति

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc