सुवर्णप्रभाससूत्र · अध्याय 15
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सुसंभवपरिवर्तो नाम चतुर्दशमः ॥
॥ यक्षाश्रयरक्षापरिवर्तः ॥
यः कश्चिच्छ्रीमहादेवि श्राद्धः कुलपुत्रो वा कुलदुहिता वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्यां महतीं विपुलां विस्तीर्णां सर्वोपकरणैः पूजां कर्त्तुकामः स्यात् । अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां गम्भीरं बुद्धगोचरं परिज्ञातुकामो भवेत् । तेनावश्यं तत्र प्रदेशे विहारे वारण्यप्रदेशे वा यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः विस्तरेण संप्रकाश्यते । तेनाविक्षिप्तचित्तेनाविरहितश्रोत्रेणायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः ॥
अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संपरिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत ॥
य इच्छेत्सर्वबुद्धानां पूजां कर्तुमचिन्तियाम् ।
गम्भीरं सर्वबुद्धानां गोचरं च प्रजनितुम्
सर्वदेशोपसंक्रम्य विहारं लयनं तथा ।
यावद्देशीयते सूत्रं स्वर्णभासोत्तमं त्विदम्
अचिन्तियमिदं सूत्रमनन्तगुणसागरम् ।
मोचकं सर्वसत्त्वानामनेकदुःखसागरात्
आदिं सूत्रस्य पश्यामि मध्यमनिधनं तथा ।
अतिगम्भीरसूत्रेन्द्र उपमानं न विद्यते
न गङ्गारजसा चैव न धरण्यां न सागरे ।
न चाम्बरतलस्थस्य किंचिच्छक्योपमा कृतुम्
धर्मधातुप्रवेशेन प्रवेष्टव्यं तदन्तरम् ।
यत्र धर्मात्मकस्तूपं गम्भीरं सुप्रतिष्ठितम्
तत्र च स्तूपमध्ये ऽस्मिन्पश्येच्छाक्यमुनिं जिनम् ।
इदं सूत्रं प्रकाशन्तं मनोज्ञेन स्वरेण च
यावन्ति कल्पकोट्यो वै असंख्येया अचिन्तियाः ।
दिव्यमानुष्यकाण्येव सुखानि ह्यनुभूयते
यदा स एवं जानीयाद्यत्तत्र सूत्र श्रूयते ।
एवमचिन्तियं मह्यं पुण्यस्कन्धं समार्जितम्
आक्रमेद्योजनशतं पूर्णमग्निखदावृतम् ।
यः सकृच्छुणितुं सूत्रं सहेतु वेदनां भृशम्
समनन्तरप्रविष्टस्य विहारं लयनं तथा ।
अपगच्छति पापानि सर्वदुःस्वप्नलक्षणा
ग्रहनक्षत्रपीडा च काखोर्दग्रहदारुणा ।
समनन्तरप्रविष्टस्य सर्वे भोन्ति पराङ्मुखाः
तादृशमासनं तत्र कुर्वीत पद्मसंनिभम् ।
यादृशं नागराजैश्च दर्शितं सुपिनान्तरे
तत्रासनोपविष्टस्य इदं सूत्रं प्रकाशयेत् ।
लिखितं वाचयेच्चैव तथैव पर्यवाप्नुयात्
अवतीर्यासनादेव अन्यदेशे गतो भवेत् ।
दृश्यन्ते प्रतिहार्याणि तत्रासनगतानि च
धर्मभाणकरूपं च कदाचित्तत्र दृश्यते ।
कदाचिद्बुद्ध रूपं च बोधिसत्त्वं कदाचन
समन्तभद्ररूपाणि क्वचिन्मञ्जुश्रियस्तथा ।
क्वचिन्मैत्रैयरुपाणि दृश्यन्ते तत्र आसने
क्वचित्केवलमाभासं क्वचिद्देवोपदर्शनम् ।
मुहूर्तेनाभिदृश्यन्ते पुनश्चान्तरहायिषु
सर्वत्र संसिद्धिकरं प्रशस्तं बुद्धशासनम् ।
धन्यमङ्गलसम्पन्नं संग्रामे च जयावहम्
जम्बुद्वीपमिदं सर्वं यशसा पूरयिष्यति ।
सर्वे च रिपवस्तस्य निर्जिता भोन्ति सर्वथा
निहतशत्रुः सदा भोति सर्वपापविवर्जितः ।
सदा विजितसंग्रामः श्रिया स च प्रमोदति
ब्रह्मेन्द्रास्त्रिदशेन्द्राश्च लोकपालास्तथैव च ।
वज्रपाणिश्च यक्षेन्द्रः संज्ञेयश्च नरर्षभः
अनवतप्त नागेन्द्रः सागरश्च तथैव च ।
किंनरेन्द्राः सुरेन्द्राश्च गरुडेन्द्रास्तथैव च ।
एतांश्च प्रमुखान् कृत्वा सर्वाणि देवतानि च
ते च ता नित्यं पूजन्ति धर्मस्तूपमचिन्तियम् ।
प्रहर्षिता भविष्यन्ति दृष्ट्वा सत्त्वाः स गौरवाः
ते ऽप्येवं चिन्तयिष्यन्ति देवेन्द्राः सर्व उत्तमाः ।
देवताश्चैव तास्सर्वा वक्ष्यन्ति च परस्परम्
एता पश्यथ सर्वाणि तेजः श्रीपुण्यसंचिता ।
उप्तकुशलमूलेन आग्तास्ते नरा इह
य इमं सूत्रगम्भीरं श्रवणार्थमिहागताः ।
अचिन्तियप्रसादेन धर्मस्तूपे सगौरवाः
एते कारुणिका लोके एते सत्त्वहितंकराः ।
एते गम्भीरधर्माणां सद्धर्मरसभोजनम्
धर्मधातुप्रवेशेन य एते प्रविशन्ति च ।
ये शृण्वन्ति इदं सूत्रं ये चान्याञ्श्रावयन्ति च
बुद्धा शतसहस्राणि तेभिस्ते पूर्वपूजिताः ।
एतेन कुशलमूलेन इदं सूत्रं शृण्वन्ति च
ते सर्वे देवराजेन्द्राः सरस्वती तथैव च ।
श्रीश्च वैश्रवणश्चैव तथा चतुर्महाधिपाः
यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति दिवारात्रावतन्द्रिताः
महाबलैश्च यक्षेन्द्रैर्नारायणमहेश्वरौ ।
अष्टाविंशतिश्चाप्यन्ये संज्ञेयप्रमुखाणि च
यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति सर्वत्रासभयेषु च
वज्रपाणिश्च यक्षेन्द्रः पञ्चयक्षशतैरपि ।
सर्वेभि बोधिसत्त्वेभिस्तेषां रक्षां करिष्यति
मणिभद्रश्च यक्षेन्द्रः पूर्णभद्रस्तथैव च ।
कुम्भीरो ऽटावकश्चैव पिङ्गलश्च महाबलः
एकैकश्चैव यक्षेन्द्रः पञ्चयक्षश्तैर्वृतः ।
तेषां रक्षां करिष्यति येभिः सूत्रमिदं श्रुतम्
चित्रसेनश्च गन्धर्वो जिनराजो जिनर्षभः ।
मणिकण्ठो नीलकण्ठश्च वर्षाधिपतिरेव च
महाग्रासो महाकालः स्वर्णकेशी तथैव च ।
पाञ्चिकश्छगलपादश्च महाभागस्तथैव च
प्रणाली महापालश्च मर्कटो वालिरेव च ।
सूचिरोमः सूर्यमित्रो रत्नकेशस्तथैव च
महाप्रणाली नकुलः कामश्रेष्ठश्च चन्दनः ।
नागायनो हैमवतः सातागिरिस्तथैव च
सर्वे त ऋद्धिमन्तश्च महाबलपराक्रमाः ।
तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम्
अनवतप्तो हि नागेन्द्रः सागरो ऽपि तथैव च ।
मुचिलिन्न्दैरेलापत्रौ उभौ नन्दोपनन्दकौ
नागशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति सर्वतो भयभैरवात्
वली राहुर्नमुचिश्च वेमचित्रश्च संवरः ।
प्रह्रादः खरस्कन्धश्च तथान्ये चासुराधिपाः
असुरशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति उत्पातभयभैरवात्
हारीती भूतमाता च पञ्चपुत्रशतैरपि ।
तेषां रक्षां करिष्यन्ति सप्तमातृस्थितानि च
चण्डा चण्डालिका चैव यक्षिणी चण्डिका तथा ।
दन्ती च कूटदन्ती च सर्वसत्त्वौजहारिणी
एते सर्व ऋद्धिमन्तो महाबलपराक्रमाः ।
तेषां रक्षां करिष्यन्ति समन्तेन चतुर्दिशः
सरस्वती च प्रमुखा देवता च अचिन्तिया ।
तथा श्रीप्रमुखाश्चैव सर्वाणि देवतानि च
पृथिवी देवता चैव फलशस्याधिदेवता ।
आरामवृक्षचैत्यानि वासिन्योनदि देवता
ते सर्वे देवतासंघाः सुप्रहर्षितचेतसाः ।
तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम्
योजयन्ति च ते सत्त्वा आयुर्वर्णबलेन च ।
श्रीपुण्यतेजलक्ष्मीभिस्ते नित्यालंकरोन्ति च
ग्रहनक्षत्रपीडाश्च सर्वास्ते शमयन्ति च ।
अलक्ष्मीपापदुःस्वप्नं सर्वे ते नाशयन्ति च
पृथिवीदेवता चैव गम्भीरा च महाबला ।
सुवर्णप्रभासोत्तमसूत्रेन्द्ररसतर्पिता
अष्टषष्टिसहस्राणि शतानि योजनानि च ।
यावद्वज्रतलस्थानं वर्घते पृथिवीरसैः
पूर्णं च शतयोजनं पुरस्तात्संनिवर्तति ।
ऊर्ध्वं स्नेहयते मही इतः सूत्रश्रवणबलात्
सर्वाश्च देवताश्चापि दशदिक्षु व्यवस्थिताः ।
सुवर्णप्रभसोत्तमसूत्रेन्द्ररसतर्पिताः
ओजोवन्तो वरा भोन्ति लक्ष्मीवीर्यवलान्विताः ।
सुखेन प्रीणिता भोन्ति नानारससमर्पिताः
सर्वत्र जम्बुद्वीपे ऽस्मिन्फलशस्यवनदेवताः ।
प्रहर्षिता भविष्यन्ति इह सूत्रे प्रकाशने
शस्यानि च तृणान्येव विचित्रकुसुमानि च ।
विचित्राः फलवृक्षाश्च रोहयन्ति समन्ततः
सर्वाणि फलवृक्षाणि आरामाणि वनानि च ।
सुपुष्पितं करिष्यन्ति नानागन्धप्रमोदितम्
विचित्रेभिश्च पुष्पेभिर्विचित्रेभिः फलैरपि ।
सर्वास्तृणवनस्पत्यो रोहयन्ति महीतले
सर्वत्र जम्बुद्वीपे ऽस्मिन्नागकन्या अचिन्तियाः ।
प्रहृष्टचेतसोद्भूताः पद्मिनीषूपसंक्रमन्
रोहयन्ति विचित्राणि सर्वासु पद्मिनीषु च ।
पद्मकुमुदोत्पलानि च पुण्डरीकस्तथैव च
धूमात्र जालिनी मुक्तं भवते गगणं शुभम् ।
तमोरजोविनिर्मुक्ता दिशो भोन्ति प्रभास्वराः
सूर्यः सहस्रकिरणै रश्मिजालेन सुप्रभः ।
गम्भीरेणावभासेन हर्षितश्चोदयिष्यति
जम्बूनदसुवर्णस्य विमानान्तरसंस्थितः ।
सूर्येन्द्रदेवपुत्राश्च इतः सूत्रात् सुतर्पिताः
उपयान्ति जम्बुद्वीपे सूत्रेन्द्राः संप्रहर्षिताः ।
अनन्तरश्मिजालेन भो भास्यन्ति समन्ततः
सहबोधितमात्रेण रश्मिजालप्रचोदने ।
नानापद्मिनीसंछन्ना कमला बोधयिष्यन्ति
सर्वत्र जम्बुद्वीपे ऽस्मिन्नानाशस्य फलौषधीः ।
परिपाचयन्ति सम्यक् तं चातपयते महिम्
चन्द्रसूर्यौ विशेषेण अवभासेतां तदन्तरम् ।
सम्यग्वहन्ति नक्षत्रा वातवर्षं तथैव च
सुभिक्षं भवते सर्वं जम्बुद्वीपे समन्ततः ।
विशेषेण च तद्राष्ट्रं यत्र सूत्रमिदं भवेत्
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0