भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 13

13.1

सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमुच्चारयितव्यम् । तान्सत्त्वाञ्छ्रीर्महादेवीसमन्वाहरिष्यति । तेषां च महतीं श्रियं करिष्यति ॥
अलकावत्यां राजधान्यां पुण्यकुसुमप्रभोद्यानवने सुवर्णवर्णध्वजनाम्नि सप्तरत्नप्रभवने श्रीर्महादेवी प्रतिवसति स्म । यः कश्चित्पुरुषो धान्यराशिं विवर्धयितुकामो भवेत् । तेन स्वगृहं सुशोधयितव्यम् । शुचिश्वेतवस्रप्रावृतेन सुगन्धवसनधारिणा भवितव्यम् । नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्सम्बुद्धस्य त्रिष्कृत्वो नामधेयमुच्चारयितव्यम् । श्रिया महादेव्या हस्तेन तस्य पूजा कर्तव्या । पुष्पधूपगन्धाश्च दातव्याः । नानारसविहाराश्च निक्षेप्तव्याः । तस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानुभावेन तेन कालेन श्रीर्महादेवी तस्य गृह समन्वाहरिष्यति । तस्य च महाधान्यराशिं विवर्धयिष्यति । तेन श्रीर्महादेवीमावाहयितुकामेनेमे विद्यामन्त्राः स्मरयितव्याः । तद्यथा । नमः सर्वबुद्धानामतीतानागतप्रत्युत्पन्नानाम् । नमः सर्वबुद्धबोधिसत्त्वानाम् । नमो मैत्रेयप्रभृतीनां बोधिसत्त्वानाम् । तेषां नमस्कृत्य विद्यां प्रयोजयामि इयं मे विद्या समृध्यतु । स्याद्यथेदम् । प्रतिपूर्णवरे समन्तगते । महाकार्यप्रतिप्रापणे सत्त्वार्थसमतानुप्रपुरे । आयानधर्मिता महाभागिने । महातेजोपमं हिते । ऋषिसंगृहीते । समयानुपालने ॥
इमे मूर्धाभिषेकधर्मता मन्त्रपदाः । एका शशिपदा अविसंवादना मन्त्रपदाः । समवधारिभिरवरुप्तकुशलमूलैः प्रावृतधारयमाणैः स सप्तवर्षा अष्टाङ्गोपेता सपञ्चासिन पूर्वाह्णे । अपराह्णे । सर्वबुद्धानां भगवतां पुष्पधूपगन्धपूजां कृत्वात्मनश्च सर्वसत्त्वानां च सर्वज्ञज्ञानस्य परिपूरणाय । तेन सर्वे चाभिप्रायाः समृध्यन्तु ॥ क्षिप्रं समृध्यन्तु । तद्गृहं स चौक्षं कृत्वा विहारं चारण्यायतनं वां गोमयेन मण्डलकं कृत्वा गन्धपुष्पधूपं च दातव्यम् । चौक्षमासनं ( बग्छि 62 ) प्रज्ञपयितव्यम् । पुष्पा अवकीर्णन्तु मितव्यम् । ततस्तत्क्षणं श्रीर्महादेवी प्रविशित्वा तत्र स्थास्यति । तदुपादाय तत्र गृहे वा ग्रामे वा नगरे वा निगमे वा विहारे वारण्यायतने वा न जातु केनचिद्वैकल्पं करिष्यति । हिरण्येन वा सुवर्णेन वा रत्नेन वा धनेन वा धान्यादिसर्वोपकरणसमृद्धाभिओः सर्वसुखोपधानेन सुखितानि भविष्यन्ति । कुशलमूलश्च ध्रियते । तेन सर्वं श्रियो महादेव्याः प्रेमप्रभावप्रेषणं दातव्यं यावज्जीवं तत्रोपस्थास्यति न विलम्बिष्यति । सर्वाभिप्रायांश्चैषां परिपूरयिष्यतीति ॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे श्रीमहादेवीपरिवर्तो नाम नवमः ॥
॥ सर्वबुद्धबोधिसत्त्वनामसंधारणिपरिवर्तः ॥
ओम् नमो भगवते रत्नशिखिनः तथागतस्य । नमः सुवर्णरत्नाकरच्छत्रस्कूटस्य तथागतस्य । नमः सुवर्णपुष्पज्वलरश्मिकेतोस्तथागतस्य । नमो महाप्रदीपस्य तथागतस्य । रुचिरकेतुर्नाम बोधिसत्त्वः । सुवर्णप्रभासोत्तमो नाम बोधिसत्त्वः । सुवर्णगन्धो नाम बोधिसत्त्वः । सदाप्ररुदितो नाम बोधिसत्त्वः । धर्मोद्गतो नाम बोधिसत्त्वः । पुरस्थिमेनाक्षोभ्योनाम तथागतः । दक्षिणेन रत्नकेतुर्नाम तथागतः । पश्चिमेनामितायुर्नाम तथागतः । उत्तरे दुन्दुभिस्वरो नाम तथागतः । सुवर्णप्रभासोत्तमसूत्रेन्द्रराज इमानि बोधिसत्त्वनामानि ये धारयन्ति वाचयन्ति ते बोधिसत्त्वा नित्यं जातिस्मरा भोन्तीति ॥
इति श्रीसुपर्णप्रभासोत्तमसूत्रेन्द्रराजे सर्वबुद्धबोधिसत्त्वनाम संधारणिओपरिवर्तो नाम दशमः ॥
॥ दृढापृथिवीदेवतापरिवर्तः ॥
अथ खलु दृढा पृथिवीदेवता भगवन्तमेतदवोचत् । अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानागते ऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्यप्रदेशे वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यति । यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण संप्रकाशयिष्यति । यत्र यत्र भगवन्पृथिवीप्रदेशे तस्य धर्मभाणकस्य भिक्षो ऋजुकायगतस्य धर्मासनप्रज्ञप्तं भविष्यति । यत्र यत्रासने धर्मभाणको निषद्येमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यति । तत्राहं भदन्त भगवन्दृढा पृथिवीदेवता तेषु पृथिवीप्रदेशेष्वागमिष्यामि । अत्र धर्मासनगतो ऽस्म्यदृश्यमानेनात्मभावेनोत्तमाङ्गेन च तस्य धर्मभाणकस्य भिक्षोः पादतलौ प्रतिसंहरिष्यामि । आत्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन संतर्पयिष्यामि । संप्रतिमानयिष्यामि संपूजयिष्यामि । आत्मानं च संतर्पयित्वा प्रतिमानयित्वा संप्रहर्षयित्वेममष्टषष्टियोजनसहस्राणि पृथिवीस्कन्धमात्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन यावद्वज्रमयं पृथिवीतलमुपादाय पृथिवीरसेनविवर्धयिष्यामि संप्रतिमानयिष्यामि परिपूरयिष्यामि । उपरितश्चेमं समुद्रपर्यन्तं पृथिवीतलमुपादाय पृथिवीमण्डलं स्निग्धेन पृथिवीरसेन स्नेहयिष्यामि । ओजस्वितरां चेमां महापृथिवीं करिष्यामि । येनास्मिञ्जम्बुद्वीपे नानातृणगुल्मौषधिवनस्पतय ओजस्वितराः प्ररोहयिष्यन्ति । सर्वारामनवृक्षसस्यानि च नानाविधान्योजस्वितराणि भविष्यन्ति । गन्धतराणि स्निग्धतराण्यास्वदनीयानि दर्शनीयतराणि महोत्तराणि च भविष्यन्ति । ते च सत्त्वास्तानि पानभोजनानि नानाविधान्युपभुक्त्वा आयुर्बलवर्णेन्द्रियाणि विवर्धयिष्यन्ति । तेजोबलवर्णरूपसमन्वाउअताश्च भूत्वा नानाविधानि पृथिवीगतान्यनेकानि नानाकार्यशतसहस्राणि करिष्यन्त्युत्थास्यन्ति व्यापयिष्यन्ति । बलकरणीयानि कर्माणि करिष्यन्ति ॥

तेन हेतुना भदन्त भगवन्सर्वजम्बुद्वीपः क्षेमश्च भविष्यति । सुभिक्षश्च स्फीतश्चर्द्धश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्च भविष्यति । सर्वजम्बुद्वीपे च सत्त्वानि सुखितानि भविष्यन्ति । ( बग्छि 65 ) नानाविचित्रां रतिमनुभविष्यन्ति । तानि सत्त्वानि तेजोबलवर्णरूपसमन्वागतानि च भविष्यन्ति । अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानं धर्मासनगतानामन्तिकमुपसंक्रमेयुः । उपसंक्रमित्वा तानि प्रसन्नचित्तानि सर्वसत्त्वानामर्थाय हिताय सुखाय तान्धर्मभाणकानध्येषयेयुस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य प्रकाशतः । अहं दृढा पृथिवीदेवता सपरिवारौजस्वितरा च भविष्यामि । तेन भदन्त भगवंश्चास्माकं काये महाबलवी र्यस्थामसंजनितं भविष्यति । तेजश्च श्रीश्च लक्ष्मीश्चास्माकं कायमावेक्ष्यन्ति । मयि च भदन्त भगवन्दृढायां पृथिवीदेवतायामनेन धर्मामृतरसेन संतर्पितायां महातेजोबलवीर्यस्थामवेगप्रतिलब्धायामियं महापृथिवी सप्तयोजनसाहस्रिकायं जम्बुद्वीपो महता पृथिवीरसेन विवर्धयिष्यति । ओजस्वितरा च महापृथिवी भविष्यति । इमानि च भदन्त भगन सर्वसत्त्वानि पृथिवीसंनिश्रितानि वृद्धिविरूढिवैपुल्यतां च गमिष्यन्ति । महन्ति च भविष्यन्ति । महन्ति च भूत्वा सर्वसत्त्वानि पृथिवीगतानि नानोपभोगपरिभोगान्युपभोक्ष्यन्ति सुखानि चानुभविष्यन्ति । तानि च सर्वाणि नानाविचित्रान्नपानभोज्यवस्त्रशयनासनवसनभवनविमानोद्याननदीपुष्करिण्युत्सरोह्रदतडागादीनीमान्येवंरूपाणि नानाविधान्युपकरणसुखानि पृथिवीसंस्थितानि पृथिव्यां प्रादुर्भूतानि पृथिव्यां प्रतिष्ठितान्युपभुजन्तु । तेन भदन्त भगवन्हेतुना सर्वसत्त्वैरस्माकं कृतज्ञता कर्तव्या । अवश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः ।
यदा च भदन्त भगवंस्ते सर्वे सत्त्वा नानाकुलेभ्यो नानागृहेभ्यो निष्क्रमेयुस्तेषां धर्मभाणकानामुपसक्रमणाय । उपसंक्रम्य चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । श्रुत्वा च पुनरेव ते सत्त्वाः स्वकस्वकेषु नानाकुलेषु गृहग्रामनगरनिगमेषु प्रविष्टाः स्वगृहगतां परस्परेणैवं कथयेयुः । गम्भीरो ऽस्माभिरद्य धर्मश्रवणः श्रुतः । अचिन्त्यो ऽस्माभिरद्य पुण्यस्कन्धः परिगृहीतः । तेन धर्मश्रवणेन नरकाः प्रतिमुक्ताः स्युः । तिर्यग्योनियमलोकप्रेतविषयाः परिमुक्ता अद्यास्माभिः । अनेन धर्मश्रवनेनानागते ऽध्वन्यनेकेषु जातिशतसहस्रेषु देवमनुष्योपपत्तिपरिगृहीता ( बग्छि 66 ) भविष्यन्ति । तेन च नानागृहगता भूत्वा तेषां सत्त्वानामितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकदृष्टान्तमप्यारोचयेयुरन्तश एकपरिवर्तं वा एकपूर्वयोगं वान्तशश्चतुष्पादिकामपि गाथामन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्येषां सत्त्वानां संश्रावयेयुरन्तशः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमपि परेषां सत्त्वाना संश्रावयेयुः ।
यत्र यत्र भदन्त भगवंस्तानि नानाविधानि सत्त्वानि नानाविधेषु पृथिवीप्रदेशष्विमान्येवंरूपाणि नानाविधानि सूत्रान्तहेतूनि परस्परेणारोचयेयुः संश्रावयेयुश्च । कथासंबन्धं च कुर्वीरन् । सर्वे ते भदन्त भगवन्पृथिवीप्रदेशा ओजस्वितराश्च भविष्यन्ति । स्निग्धतराश्च भविष्यन्ति । सर्वेषां सत्त्वानां तेषु तेषु पृथिवीप्रदेशेषु नानाविधानि पृथिवीरसानि सर्वोपकरणानि भूयिष्ठतरमुत्पत्स्यन्ते विवर्धयिष्यन्ते वैपुल्यतां गमिष्यन्ति । सर्वाणि तानि सत्त्वानि महाधनानि महाभोगानि च दानाधिमुक्तानि च भविष्यन्ति । त्रिषु रत्नेष्वभिप्रसन्नानि भविष्यन्ति ॥
एवमुक्ते भगवन्दृढां पृथिवीदेवतामेतदवोचत् । ये केचित्पृथिवीदेवते सत्त्वा इतः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकपदमपि शृणुयुस्ते त इतो मनुष्यलोकाच्चवित्वा त्रयस्त्रिंशत्सु देवनिकायेष्वन्यतरान्यतरेषु देवनिकायेषूपपत्स्यन्ते । ये केचित्पृथिवी देवते सत्त्वा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजास्यार्थाय तानि स्थानानि समलंकुर्वीरन्नन्तश एकच्छत्रं वा एकदूष्यं वा समलंकृतानि च देवतास्थानानि । तेषु सप्तसु कामावचरेषु देवनिकायेषु सप्तरत्नमयानि दिव्यानि विमानानि सर्वालंकारसमलंकृतानि संस्थास्यन्ति ते सत्त्वा इतो मनुष्यलोकाच्च्यावित्वा तेषु सप्तरत्नमयेषु दिव्यविमानेषूपपत्स्यन्ते । ते चैकैकस्मिन्पृथिवीदेवते सप्तरत्नमये दिव्यविमाने सप्तवरा अनुपपत्स्यन्ते अचिन्त्यानि दिव्यानि सुखानि प्रत्यनुभविष्यन्ति ॥
एवमुक्ते दृढा पृथिवीदेवता भगवन्तमेतदवोचत् । तेनाहं भदन्त भगवन्दृढा पृथिवीदेवता तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्य तेषु पृथिवीप्रदेशेष्ववासिष्यामि । अदृश्यमानेनात्मभावेन ( बग्छि 67 ) तस्य धर्मभाणकस्य भिक्षोरुत्तमाङ्गेन पादतलौ प्रतिसंहरिष्यामि । यथाप्ययं सुवर्णप्रभसोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् । न च क्षिप्रमन्तर्धापयेएत् । सत्त्वानि चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । अनागतो ऽध्वन्यनेकानि कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः । तथागतसमवधानगतानि च भवेयुः । अनागते ऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुः । सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तसमुच्छिन्नानि भवेयुरिति ॥
इति श्रीसुवर्णप्रभासोत्तसूत्रेन्द्रराजे दृढापृथिवी देवतापरिवर्तो नामैकादशः ॥
॥ संज्ञेयमहायक्षसेनापतिपरिवर्तः ॥

अथ खलु संज्ञेयो नाम महायक्षसेनापतिरष्टाविंशतिभिर्महायक्षसेनापतिभिः सार्धमुत्थायासनादेकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानगते ऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वारण्यायतने वा गिरिकन्दरे वा राजकुले वा गृहे वा प्रचरिष्यति । तत्राहं भदन्त भगवन्संज्ञेयो नाम महायक्षसेनापतिः सार्धमष्टाविंशति भिर्महायक्षसेनापतिभिस्तत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्ये वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यामि । अदृश्यमानेनात्मभावेन तस्य धर्मभाणकस्य भिक्षो रक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वरत्ययनं करिष्यमि । तेषां च सर्वेषां धर्मश्रवणिकानां स्त्रीपुरुषदारकदारिकाणां येषां केषांचिदितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एका चतुष्पादिकापि गाथा श्रुता भवेदन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादेकबोधिसत्त्वनामधेयमपि श्रुतं भवेदुद्गृहीतं वैकतथागतनामधेयं वान्तशश्चास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयं श्रुतं भवेदुद्गृहीतं वा तेषां सर्वेषामारक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामि । तेषां च कुलानां तेषां च गृहाणां तेषां च नगराणां तेषां च ग्रामाणां तेषां च निगमानां तेषां चारण्यानां तेषां च राजकुलानामारक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामि ॥
तत्कतमेन हेतुना । सर्वधर्माः परिज्ञाताः सर्वधर्मा अवबुद्धाः । यावन्तश्च सर्वधर्माः । यथा च सर्वधर्माः । संस्थिता ये च सर्वधर्माः । सम्यग्ज्ञाताश्च सर्वधर्माः । सर्वधर्मेष्वहं भदन्त भगवन्प्रत्यक्षः । अचिन्त्या मे भदन्त भगवञ्ज्ञानावभासाः । अचिन्त्यो ज्ञानालोकः । अचिन्त्यो ज्ञानप्रचारः । अचिन्त्यो ज्ञानस्कन्धः । अचिन्त्यो मे भदन्त भगवन्सर्वधर्मेषु ज्ञानविषयः प्रवर्तते । यथा च मे भदन्त भगवन्सर्वधर्माः समम्यग्ज्ञाताः । सम्यक्परीक्षिताः सम्यक्परिज्ञाताः ( बग्छि 69 ) सम्यग्व्यवलोकिताः सम्यगवबुद्धाः । तेन हेतुना मम भदन्त भगवन्संज्ञेयस्य महायक्षसेनापतेः संज्ञेय इति नामधेयं समुदपादि ॥
अहं भदन्त भगवन्धर्मभाणकस्य भिक्षोर्वाक्यविभूषणार्थाय प्रतिभानमुपसंहरिष्यामि । रोमान्तरेषु च तस्यौजः प्रक्षेप्स्यामि । महान्तं च तस्य स्थाम च बलं वीर्यं च काये संजनयिष्यामि । अचिन्त्यं तस्य ज्ञानावभासं करिष्यामि । स्मृतिं च तस्य बोधयिष्यामि । महन्तं च तस्योत्सहं दास्यामि । यथा च स धर्मभाणको न क्लान्तकायो भवेत् । सुखेन्द्रियकायो भवेत् । प्रहर्षजातश्च भवेत् । येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् । न क्षिप्रमन्तर्धापयेत् । सत्त्वाश्चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभेयुः । प्रज्ञावन्तश्च भवेयुः । अपरिमितं च पुण्यस्कन्धं परिगृह्णीयुः । अनागते ऽध्वन्यनेककल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः । तथागतसमवधानगताश्च भवेयुरनागते ऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् । सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तेन समुच्छिन्नानि भवेयुरिति ॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे संज्ञेयमहायक्षसेनापति परिवर्तो नाम द्वादशः ॥
॥ देवेन्द्रसमयराजशास्त्रपरिवर्तः ॥
नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य । नमस्यस्यानेकगुणकोटीनियुतशतसहस्रसमलंकृतशरीरस्य शाक्यमुनेस्तथागतस्य यस्येयं धर्मोल्का ज्वलति । नमस्तस्या अपरिमितपुण्यधान्यमाङ्गल्यसम्पन्नायाः श्रियो महादेव्याः । नमस्तस्या अपरिमितगुणप्रज्ञासमुदितायाः सरस्वत्या देव्याः ॥
तेन खलु पुनः कालेन तेन समयेन राजा बलदकेतुः पुत्रस्य रुचिरकेतोरचिराभिषिक्तस्य च राज्यप्रतिष्ठितस्यैतदवोचत् । अस्ति पुत्र देवेन्द्रसमयं नाम राजशास्त्रम् । यन्मया पूर्वमचिराभिषिक्तेन च राज्यप्रतिष्ठितेन पितू राज्ञो बलेन्द्रकेतोः सकाशादुद्गृहीतम् । तेन मया देवेन्द्रसमयेन राजशास्त्रेण विंशतिवर्षसहस्राणि राजत्वं कारितं बभूव । नाभिजानाम्यहमन्तश एकचित्तक्षणप्रमाणमात्रेणापि कस्यचिदधर्मस्थितपूर्वम् । कतमत्तत्र देवेन्द्रसमयं नाम राजशास्त्रम् ॥
अथ खलु कुलदेवते राजा बलदकेतुस्तेन कालेन तेन समयेन पुत्रस्य राज्ञो रुचिरकेतोरिमाभिर्गाथाभिर्देवेन्द्रसमयं नाम राजशास्त्रं विस्तरेण संप्रकाशयति स्म ॥
राजशास्त्रं प्रवक्ष्यामि सर्वसत्त्वहितं करम् ।
सर्वसंशयच्छेत्तारं सर्वदुष्कृतनाशनम्

13.2

हृष्टचित्ता भवित्वेह सर्वे नृपतयः पृथक् ।
सर्वदेवेन्द्रसमयं शृणुध्वं प्राञ्जलिकृताः

13.3

वज्रप्राकारगिरीन्द्रे ऽस्मिन्देवेन्द्राणां समागमैं ।
उत्थितैर्लोकपालेभिर्ब्रह्मेन्द्रः परिपृच्छितः

13.4

त्वं नः सुरगुरुर्ब्रह्मा देवतानां त्वमीश्वरः ।
छेत्ता त्वं संशयानां च च्छिन्दयास्माकं संशयम्

13.5

कथं मनुष्यसंभूतो राजा देवः स प्रोच्यते ।
यदिह मानुषे लोके जायते च भवन्नृपः

13.6

कथं देवमनुष्येषु राजत्वं च करिष्यते ।
एवं हि लोकपालिभिर्ब्रह्मेम्द्रः परिपृच्छतः

13.7

सर्वा सुरगुरुर्ब्रह्मा लोकपालानिहाब्रवीत् ।
यदिह लोकपालेभिरेतर्हि मम पृच्छितः ।
सर्वसत्त्वहितार्थाय वक्ष्ये ऽहं शास्त्रमुत्तमम्

13.8

नाराणां संभवं वक्ष्ये युक्त्वाहं मनुजालये ।
हेतुना येन राजानो भवन्ति विषयेषु च

13.9

देवेन्द्राणामधिष्ठाने मातुः कुक्षौ प्रवेक्ष्यति ।
पूर्वमधिष्ठितो देवैः पश्चाद् गर्भे प्रपद्यते

13.10

किं चापि मानुषे लोके जायते श्रीयते नृपः ।
अपि वै देवसंभूतो देवपुत्रः स उच्यते

13.11

त्रायस्त्रिंशैर्देवराजेन्द्रैर्भागो दत्तो नृपस्य हि ।
पुत्रस्त्वं सह देवानां निर्मितो मनुजेश्वरः

13.12

अधर्मशमनार्थाय दुष्कृतानां निवारकः ।
सुकृतौ स्थापयेत्सत्त्वान्प्रेषणार्थं सुरालये

13.13

मनुष्यो वाथ देवो वा गन्धर्वो वा नराधिपः ।
राक्षसो वाथ चण्डालो दुष्कृतानां निवारकः

13.14

माता पिता वा नृपतिः सुकृतौ कर्मकारिणाम् ।
विपाकफलदर्शी त्वं देवराजैरधिष्ठितः

13.15

सुकृतदुष्कृतानां च कर्मणां दृष्टधार्मिकः ।
विपाकफलदर्शी त्वं देवराजैरधिष्ठितं

13.16

यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थितम् ।
नानारूपं न कुर्वीत दण्डं पापजनस्य च ।
दुष्कृतानामुपेक्षायामधर्मो वर्धते भृशम्

13.17

शाठ्यानि कलहाश्चैव भूयो राष्ट्रे भवन्ति च ।
प्रकुप्यन्ति च देवेन्द्रास्त्रायत्रिंशद्भवनेषु च

13.18

यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थिरम् ।
हन्यते विषयो घोरैः शठ्यैरपि सुदारुणैः

13.19

विनश्यति च तद्राष्ट्रं परचक्रस्य चाक्रमे ।
भोगानि च बलान्येव धनं यस्यास्ति संचितम्

13.20

विविधानि च शाठ्यानि हरन्ति च परस्परम् ।
येन कार्येण राजत्वं नैतत्कार्यं करिष्यति ।
विलोपयति स्वं राष्ट्रं गजेन्द्र इव पद्मिनीम्

13.21

विषमा वायवो वान्ति विषमा जलवृष्टयः ।
विषमा ग्रहनक्षत्राश्चन्द्रसूर्यौ तथैव च

13.22

सस्यं पुष्पं फलं बीजं व सम्यक्परिपच्यते ।
दुर्भिक्षं भवते तत्र यत्र राजा ह्युपेक्षकः ।
अनात्तमानसो देवा भवन्ति भवनेषु च

13.23

यदा ह्युपेक्षते राजा दुष्कृतं विचरेत्परम् ।
ते सर्वे देवराजाश्च वक्ष्यन्ति च परस्परम्

13.24

अधार्मिको ह्ययं राजा ह्यधर्मपक्षमाश्रितः ।
न चिरेण ह्ययं राजा देवतां कोपयिष्यति

13.25

देवतानां परिकोपाद्विषयो ऽस्य विनक्ष्यति ।
शस्राणि च अधर्मश्च विषये ऽत्र भविष्यन्ति

13.26

शाठ्यानां कलहानां च रोगाणां च समुद्भवः ।
प्रकुप्यति च देवेन्द्र उपेक्ष्यन्ति च देवताः

13.27

प्रलुप्यते च यद्राष्ट्रं स नृपः शोकमृच्छति ।
इष्टवियोगं प्राप्नोति भ्रात्रा वाथ सुतेन वा

13.28

प्रियभार्यावियोगो वा प्राप्यते दुहिताथ वा ।
उल्कापाता भविष्यन्ति प्रतिसूर्यास्तथैव च

13.29

परचक्रभयं वापि दुर्भिक्षं वर्धति भृशम् ।
प्रियामात्यश्च म्रियते ऽप्रियस्तु गर्जते वचः

13.30

सुताभीष्टं प्रियाश्वासं बालाभार्याविरोधिनः ।
परस्परं हरिष्यन्ति कुलभोगं धनानि च

13.31

देशे देशे हनिष्यन्ति शस्त्रेण च परस्परम् ।
विवादाः कलहाः शाठ्या भवन्ति विषयेषु च

13.32

ग्रहः प्रविशते राष्ट्रे व्याधिर्भवति दारुणः ।
अधार्मिका भविष्यन्ति दिक्षणीयास्तदन्तरम्

13.33

अमात्याः परिषद्याश्च भवन्त्यस्याप्यधार्मिकाः ।
अधार्मिकजने पूजा भविष्यन्ति तदन्तरम्

13.34

धार्मिकानां च सत्त्वानां निग्रहो भवति ध्रुवम् ।
अधार्मिकजने मानं धार्मिकानां च निग्रहम् ।
त्रयस्तत्र प्रकुप्यन्ते नक्षत्रजलवायवः

13.35

त्रयो भावा विनश्यन्ति अधार्मिकजनो ग्रहे ।
सद्धर्मरसनोजश्च सत्त्वोजः पृथिवीरसः

13.36

असत्यजनसंमानं सत्यजनविमानता ।
त्रयस्तत्र भविष्यन्ति दुर्भिक्षमथ निर्भरम् ।
फलसस्यरसौजश्च न भवति तदन्तरे

13.37

ग्लानेन बहुलाः सत्त्वा भवन्ति विषयेषु च ।
मधुराणि महान्ति च फलानि विषये ऽपि हि ।
परीता च भविष्यन्ति तिक्तः कटुक एव च

13.38

पूर्वा रम्याणि भावानि क्रीडाहास्यरतीनि च ।
सभा रम्या भविष्यन्ति आयासशतव्याकुलाः

13.39

धान्यानां च फलानां च स्निग्घभावो रसः क्षयेत् ।
न तथा प्रीणयिष्यन्ति शरीरेन्द्रियधातवः

13.40

दुर्वर्णाः सत्त्वा भविष्यन्ति स्वल्पस्थामाः सुदुर्बलाः ।
बहु च भोजनं भुक्त्वा तृप्तिं नासादयन्ति ते

13.41

बलं च स्थाम वीर्यं च न लभन्ति तदन्तरे ।
हीनवीर्याणि सत्त्वानि भवन्ति विषयेषु च

13.42

सत्त्वा भविष्यन्ति रोगार्ता नानाव्याधिप्रपीडिताः ।
ग्रहा भविष्यन्ति नक्षत्रा नानाराक्षससंभवाः

13.43

अधार्मिको भवेद्राजा अधर्मपक्षसंस्थितः ।
त्रैधातुके विरुद्धो ऽस्ति सर्वत्रैलोक्यमण्डलम् ।
अनेके ईदृशा दोषा भवन्ति विषयेषु च

13.44

यदा पक्षस्थितो राजा दुष्कृतं समुपेक्षते ।
येन कार्येण राजा वै देवेन्द्रेभिरधिष्ठितः ।
न तत्करोति राजत्वं दुष्कृतं समुपेक्षतः

13.45

सुकृतेनोपपद्यन्ते सर्वदेवसुरालये ।
दुष्कृतेन च गच्छन्ति प्रेततिर्यग्नरकेषु च ।
त्रायस्त्रिंशद्देवस्थाने प्रतापयन्ति दुष्कृतात्

13.46

यदा ह्युपक्षते राजा दुष्कृतं विषये स्थितम् ।
पितॄणां देवराजानां भवेन सापराधिकः ।
न तद्भवति पुत्रत्वं न रजत्वं कृतं भवेत्

13.47

यदापि नश्यते कार्यं शाठ्यैरपि सुदारुणैः ।
तस्मादधिष्ठितो राजा देवेन्द्रर्मनुजालये

13.48

दुष्कृतानां शमनार्थाय सुकृतानां प्रवर्तकः ।
दृष्टधार्मिकः सत्त्वानां विपाकजनको नृपः

13.49

सुकृतदुष्कृतानां च कर्मणां यः पृथग्विधः ।
विपाकफलदर्शार्थं कर्त्ता राजा हि प्रोच्यते ।
अधिष्ठितो देवगणैर्देवेन्द्रैरनुमोदितः

13.50

आत्मनो ऽर्थं परार्थाय धर्मार्थं विषयस्य च ।
दमनार्थाय राष्ट्रेषु शठपापजनस्य च

13.51

त्यजेच्च जीवितं राज्यं धर्मार्थं विषयस्य च ।
मा चाधर्ममपृच्छित्वा जानन्तं समुपेक्षत

13.52

न चान्यस्तादृशो नाशो विषये ऽस्मिन् सुदारुणः ।
यदा शाठ्यसमुत्पन्नः शाठ्यकान्तारनिग्रहः

13.53

भूयो भवन्ति शाठ्यानि विषये ऽस्मिन् सुदारुणा ।
विलुप्यते च तद्राष्ट्रं गजैरिव महासरः

13.54

प्रकुप्यन्ति च देवेन्द्रा विलुम्पते सुरालयम् ।
विषमाः सर्वभावाश्च भवन्ति विषयस्य हि

13.55

तस्माद्दोषानुरूपं स्याद्दमनं पापकारिणाम् ।
धर्मेण पालयेद्राष्टं मा चाधर्मं समाचरेत्

13.56

जीवितं च परित्यज्य मा पापे पतितो भवेत् ।
बन्धुजने परजने सर्वराष्ट्रजनेषु च ।
एकापेक्षो भवेद्राजा मा पक्षे पतितो भवेत्

13.57

त्रैलोक्यमापूरयते यशसा धार्मिको नृपः ।
हर्षयिष्यन्ति देवेन्द्रास्त्रायस्त्रिंशद्भवेषु च

13.58

जम्बूद्वीपे तथास्माकं पुत्रो धर्मात्मको नृपः ।
धर्मेण शास्यते राष्ट्रं सुकृते स्थाप्यते जनम्

13.59

सुकृतेन च राजा तं इह प्रेषयते जनम् ।
देवैर्देवसुतैः पूर्णं करोति च सुरालयम्

13.60

धर्मेण शास्यते राष्ट्रं राजा नः सुप्रहर्षिताः ।
प्रसन्ना भोन्ति देवेन्द्रा रक्षन्ते तान्नराधिपान्

13.61

सम्यग्वहन्ति नक्षत्रा चन्द्रसूर्यौ तथैव च ।
कालेन वायवो वान्ति काले चैवं प्रवर्षति

13.62

सुभिक्षं कुर्वते राष्ट्रे तथा देवसुरालये ।
अमरामरपुत्रेण पूर्णं भोति सुरालयम्

13.63

तस्मात्त्यज्येन्नरपतिः प्रियं जीवितमात्मनः ।
आवर्तयेद्धर्मरत्नं येन लोकः सुखी भवेत्

13.64

। धार्मिकीं च नयेत् सेवां यो गुणैः समलंकृतः ।
स नित्यं सेवते तुष्टं सदा पापविवर्जितः

13.65

धर्मेण पालयेद्राष्ट्रं धर्मे समनुशासयेत् ।
सुकृते स्थापयेत् सत्त्वान्दुष्कृते च विवारयेत्

13.66

सुभिक्षं भवते राष्ट्रे तेजस्वी भवते नृपः ।
यथानुरूपं कुरुते दमनं पापकारिणाम् ।
यशस्वी भवते राजा सुखं पालयते प्रजामिति

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc