सुवर्णप्रभाससूत्र · अध्याय 14
इति श्रीसुवर्णप्रभासोओत्तमसूत्रेन्द्रराजे देवेन्द्रसमयं नाम राजशास्त्रपरिवर्तस्त्रयोदशमः ॥
॥ सुसंभवपरिवर्तः ॥
ससागरा त्यक्त वसुंधरा तदा यदा बभूव नृप चक्रवर्ती ।
चत्वारि द्वीपानि सरत्नपूर्णनिर्याति ता पूर्वजिनेषु मह्यम्
न चास्ति तद्वस्तु प्रियं मनापं पूर्वं च मह्यं न व त्यक्तमासीत् ।
तं धर्मकायं परिमार्गणार्थः प्रियजीवितं त्यक्तमनेककल्पान्
यथ पूर्वकल्पेषु अचिन्तियेषु रत्नशिखिस्य सुगतस्य शासने ।
परिनिर्वृतस्य सुगतस्य तस्य सुसंभवो नाम बभूव राजा
स चक्रवर्ती चतुर्द्वीप ईश्वरः समुद्रपर्यन्तमही प्रशास्यते ।
जिनेन्द्रघोषाय च राजधानीय सुप्तो बभूवा तद राजकुञ्जरः
स्वप्नान्तरे बुद्धगुणाञ्च श्रुत्वा रत्नोच्चयं पश्यति धर्मभाणकम् ।
स्थित सूर्यमध्ये व विरोचमानं प्रकाशयन्तं इम सूत्रराजम्
स्वप्नाद्विबुद्धश्च बभूव राजा पीतिस्फुटं सर्वशरीरमस्य ।
अभिनिष्क्रर्म राजकुलानि दृष्टु उपसंक्रमी श्रावकसंघमग्रम्
करोति पूजां जिनश्रावकाणां रत्नोच्चयं पृच्छति धर्मभाणकम् ।
क्व चास्ति भिक्षूरिह चार्यसंघे रत्नोच्चयो नाम गुणान्वितश्च
तेनान्तरेणा रतनोच्चयो हि अन्यत्र गूहान्तर संनिषणः ।
विचित्ररत्नं इम सूत्रराजं स्वध्यायमानः सुख संनिषणः
देशेन्ति राजस्य तदन्तरेण रत्नोच्चयं भिक्षु स धर्मभाणकम् ।
अन्यत्र गूहान्तरसंनिषणं । तं तेन रश्मीश्रियया ज्वलन्तम्
एषो ऽत्र रत्नोच्चय धर्मभाणको धारेति गम्भीरजिनस्य गोचरम् ।
स्वर्णप्रभासोत्तमसूत्ररत्नं सूत्रेन्द्रराजं सततं प्रकाशयेत्
वन्दित्व पादौ रतनोच्चयस्य सुसंभवो राज इदं प्रवीद्धि ।
देशे हि मे पूर्णशशाङ्क चक्रं स्वर्णप्रभासोत्तमसूत्ररत्नम्
अधिवासयी सो रतनोच्चयश्च राज्ञश्च तस्यैव सुसंभवस्य ।
सर्वत्रिसाहस्रिकलोकधातौ प्रहर्षितास्सर्वि बभूवु देवताः
वसुधाप्रदेशे परमे विशिष्टे रत्नोदके गन्धजलाम्वुसिक्ते ।
पुष्पावकीर्णां धरणीं स कृत्वा तत्रासनं प्राप्य तदा नरेन्द्रः
समलंकृतं राज्ञ तदासनं च च्छत्रैर्ध्वजैर्घण्टसहस्रनेकैः ।
नानाविचित्रैर्वरपुष्पचन्द्रैर् अभ्योकिरे राज्ञ तदासनं च
देवाश्च नागासुरकिंनराश्च यक्षाश्च यक्षेन्द्रमहोरगाश्च ।
दिव्यैश्च मान्दारवपुष्पवर्षैर् अभ्यावकीर्णाश्च तदासनं च
अचिन्तियानन्त सहस्रकोटियो ये आगता देवभवाग्रकामाः ।
अभिनिष्क्रमित्वा रतनोच्चयं हि अभ्यो किरन्ति स्म च सालपुष्पा
सो चापि रत्नोच्चय धर्मभाणकः शुभाभगात्रः शुचिवस्त्रप्रावृतः ।
उपसंक्रमित्वा च तदासनं हि कृताञ्जलीभूत्व नमस्यते च
देवेन्द्रदेवानि च देवतानि मान्दारपुष्पं च प्रवर्षयन्ति ।
अचिन्तिया तूर्यशता सहस्रा प्रवादयन्ति स्थित अन्तरीक्षे
अभीरुहित्वा च स संनिषणो रत्नोच्चयो भिक्षु स धर्मभाणकः ।
अनुस्मरित्वा दशसू दिशासु अचिन्तिया बुद्धसहस्रकोट्यः
सर्वेष सत्त्वान कृपांज नित्य कारुण्यचित्तं समुपादयेत् सः ।
राज्ञश्च तस्यापि सुसंभवस्य प्रकाशितं सूत्रमिदं तदन्तरे
कृताञ्जलीभूत्व स्थिहित्व राजा यः कायवाचा मनुमोदितः सः ।
सद्धर्मवेगाश्रुप्रमुक्तनेत्रः प्रतिस्फटस्तस्य बभूव कायः
इमस्य सूत्रस्य च पूजनार्थं सुसंभवो राज तदन्तरेण
गृह्णित्व चिन्तामणिराजरत्नं सर्वार्थहेतोः प्रणिधिं चकार
वर्षन्तु अद्या इह जम्बुद्विपे ससप्तरत्नाणि च भूषणानि
ये चेह सत्त्वाः खलु जम्बुद्विपे सुखिताश्च भेष्यन्ति महाधनाश्च
चतुर्षु द्वीपेषु प्रवर्षितानि सप्तानि रत्नानि तदन्तरेण ।
केयूरहारा वरकुण्डलानि तथान्नपाने वसनानि चैव
दृष्ट्वा च तं राज सुसंभवश्च रत्नप्रवर्षं खलु जम्बुद्वीपे ।
चत्वारि द्वीपानि सरत्नपूर्णा निर्यातयी रत्नशिखिस्य शासने
अहं च सः शाक्यमुनिस्तथागतः सुसंभवो नाम बभूव राजा ।
येनेह मे त्यक्त वसुंधरा तदा चत्वारि द्वीपानि सरत्नपूर्णा
अक्षोभ्य आसीत् स तथागतश्च रत्नोच्चयो भिक्षु स धर्मभाणकः ।
येनास्य राजस्य सुसंभवस्य प्रकाशितं सूत्रमिदं तदान्तरे
यन्मे श्रुतं सूत्रमिदं तदन्तरे एकाग्रवाचामनुमोदितं च ।
तेनैव मह्यं कुशलेन कर्मणा श्रोतानुमोदेन श्रुतेन तेन
सुवर्णवर्णं शतपुण्यलक्षणं लभेयि कायं प्रियदर्शनं सदा ।
नयनाभिरामं जनकान्तदर्शनं रतिंकरं देवसहस्रकोटिनाम्
नवोत्तरं नोतिसहस्रकोट्या कल्पानभूवं नृपचक्रवर्ती ।
अनेक कल्पान सहस्रकोट्यो त्रैलोक्यराजत्व मयानुभूतम्
अचिन्तिया कल्प बभूव शक्रः तथैव ब्रह्मेन्द्र प्रशान्तमानसः ।
आरागिता मे बलाप्रमेया येषां प्रमाणं न कदाचि विद्यते
तथा प्रमाणं बहु पुण्यस्कन्धं यन्मे श्रुतं सूत्रनुमोदितं च ।
यथाभिप्रायेण मि बोधि प्राप्ता सद्धर्मकायश्च मया हि लब्ध
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0