भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 9

9.1

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सरस्वतीदेवीपरिवर्तो नामाष्टमः ।
॥ श्रीमहादेवीपरिवर्तः ॥
अथ खलु श्रीर्महादेवी भगवन्तं प्रणम्यैतदवोचत् । अहमपि भदन्त भगवन्भगवती श्रीर्महादेवी तस्य धर्मभाणकस्य भिक्षोरौत्सुक्यतां करिष्यामि । यदिदं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरन्यैश्चोपकरणैर्यथा स धर्मभाणकः सर्वोपकरणसंपन्नो भविष्यति । अवैकल्पतां च प्रतिलप्स्यते । स्वस्थचित्तो भविष्यति । सुखचित्तो रात्रिं दिवा प्रतिनामयिष्यति । इतश्च सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजान्नानाविधानि पदव्यञ्जनान्युपनामयिष्यति । व्युपपरीक्षिष्यति । येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचतिष्यति । न च क्षिप्रमन्तर्धास्यति । सन्ति सत्त्वाः सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । अनेकानि च कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखानि प्रत्यनुभवेयुः । दुर्भिक्षश्चान्तर्धापयेत् । सुभिक्षश्च प्रादुर्भवेत् । सत्त्वाश्च मनुष्यसुखोपधानेन सुखिता भवेयुः । तथागतसमवधानगताश्च भवेयुः । अनागते ऽध्वति चानुत्तरां सम्यक्संबोधिमभिसंबोधयेयुः । सर्वनरकतिर्यग्योनियमलोकदुःखान्यत्यन्तसमुच्छिन्नानि भवेयुरिति ॥
रक्तकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रीर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । यत्र श्रिया महादेव्या मया कुशलमूलमवरुप्तम् । येनैतर्हि यां यां दिशं सत्त्वानां विहरति । यां यां दिशं सत्त्वान्यवलोकयति । यां यां दिशमुपसंक्रमति । तस्यां तस्यां दिश्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि सर्वसुखोपधानेन सुखितानि भविष्यन्ति । अवैकल्पतां च प्रतिलप्स्यन्ते । अन्नेन वा पानेन वा धनेन वा धान्येन वा हिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवालजातरूपरजतादिभिरन्यैश्चोपकरणैः सर्वोपकरणसमृद्धानि सत्त्वानि भविष्यन्ति श्रियो महादेव्याः प्रभावेन । तस्य च तथागतस्य पूजा कर्तव्या । गन्धाश्च पुष्पाश्च धूपाश्च दीपाश्च दातव्याः । श्रियो देव्यास्त्रिष्कृतो नामधेयमुच्चारयितव्यम् । तस्याश्च गन्धं पुष्पं धूपं दीपं दातव्यम् । रसविहारा निक्षेप्तव्यानि । तस्य महाद्रव्यराशिर्विवर्धते । तत्रेदमुच्यते ॥
विवर्धत धरणी रसो धरण्या प्रहर्षिता ।
( बग्छि 61 ) भोन्ति च देवता सदा फलशस्यचितोपमम् ।
वृक्षदेवता रोहन्ति शस्यानि सुचित्रभावाः

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc