सुश्रुतसंहिता · अध्याय 6.7
अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
मरूरदलमात्रां तु पञ्चभूतप्रसादजाम्।
खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः॥
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्।
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः॥
रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे।
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम्॥
सिराभिरभिसंप्राप्य विगुणोऽभ्यन्तरे भृशम्।
प्रथमे पटले दोषो यस्य दृष्टौ व्यवथितः॥
अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति।
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते॥
मक्षिका मशकान् केशाञ्जालकानि च पश्यति।
मण्डलानि पताकांश्च मरीचीः कुण्डलानि च॥
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च।
दूरस्थान्यपि रूपाणि मन्यते च समीपतः॥
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्।
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति॥
ऊर्ध्वं पश्यति गाधस्तात्तृतीयं पटलं गते।
महान्त्यपि च रूपाणि च्छादितानीव वाससा॥
कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते।
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि॥
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते।
पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति॥
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति।
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा॥
द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते।
तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः॥
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते।
तस्मिन्नपि तमोभूते नातिरूढे महागदे॥
चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः।
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति॥
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः।
तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति॥
आविलान्यरुणाभानि व्याविद्धानि च मानवः।
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान्॥
शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति।
कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च॥
गौरचामरगौराणि श्वेताभ्रप्रतिमानि च।
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम्॥
सलिलप्लावितानीव परिजाड्यानि मानवः॥ तथा रक्तेन रक्तानि तमांसि विविधानि च॥
हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते।
सन्निपातेन चित्राणि विप्लुतानि च पश्यति॥
बहुधा वा द्विधा वापि सर्वाण्येव समन्ततः।
हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति॥
पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा।
पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति॥
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च।
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम्॥
रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवापि नीलः।
कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः॥
रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम्।
परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम्॥
दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्।
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा॥
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा।
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम्॥
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः।
संकुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत्॥
मृद्यमाने च नयने मण्डलं तद्विसर्पति।
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम्॥
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे।
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि॥
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः।
तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी॥
यो ह्रस्वजाड्यो(ह्रस्वजात्यो) नकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः।
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः॥
पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः।
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च॥
(रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्)।
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु॥
त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य।
दिवा स सूर्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात्॥
शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः।
सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम्॥
स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत्।
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्॥
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः।
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति॥
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः।
बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च॥
निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च।
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम्॥
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः।
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः॥
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः॥
इत्येते नयनगता मया विकाराः संख्याताः पृथगिह षट् च सप्ततिश्च।
एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽहं तदनु चिकित्सितं यथावत्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0