भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.8

6.8.1

अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः॥

6.8.2

यथोवाच भगवान् धन्वन्तरिः (सुश्रुताय)॥

6.8.3

षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः।
चिकित्सितमिदं तेषां समासव्यासतः शृणु॥

6.8.4

छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः।
भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु॥

6.8.5

द्वादशाशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि।
रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता।
असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ॥

6.8.6

अर्शोऽन्वितं भवति वर्त्म तु यत्तथार्शः शुष्कं तथार्बुदमथो पिडकाः सिराजाः।
जालं सिराजमपि पञ्चविधं तथार्म छेद्या भवन्ति सह पर्वणिकामयेन॥

6.8.7

उत्सङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म।
क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः॥

6.8.8

श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च।
आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च॥

6.8.9

पूयालसानिलविपर्ययमन्थसंज्ञाः स्यन्दास्तु यन्त्युपशमं हि सिराव्यधेन।
शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु॥

6.8.10

अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे।
आगन्तुनाआमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः॥

6.8.11

संपश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः।
चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव।
अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc