भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.6

6.6.1

अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥

6.6.2

यथोवाच भगवान् धन्वन्तरिः॥

6.6.3

स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाधिमन्थाः।
शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश संप्रदिष्टाः॥

6.6.4

हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः।
दृष्टिस्ततथाम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः॥

6.6.5

प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः।
तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान्॥

6.6.6

निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः।
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति॥

6.6.7

दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च।
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति॥

6.6.8

उष्णाभिनन्दा गुरुताक्षिशोफः कण्डूपदेहौ सिततातिशैत्यम्।
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति॥

6.6.9

ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च।
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति॥

6.6.10

वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्।
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः॥

6.6.11

उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा।
शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः॥

6.6.12

नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत्।
सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम्॥

6.6.13

कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्।
शिरसोऽर्धं च येन स्यादधिमन्थः स मारुतात्॥

6.6.14

रक्तराजिचितं स्रावि वह्निनेवावदह्यते।
यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम्॥

6.6.15

प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम्।
मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम्॥

6.6.16

शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्।
शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम्॥

6.6.17

रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्।
नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम्॥

6.6.18

बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्।
रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः॥

6.6.19

रक्तामग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते।
यद्दीप्तं रक्तपर्यन्तं तद्रक्तेनाधिमन्थितम्॥

6.6.20

हन्यादृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्संभवः पञ्चरात्रात्।
षड्रात्राद्वौ मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव॥

6.6.21

कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः।
दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः॥

6.6.22

जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम्।
संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः॥

6.6.23

शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे।
उपेक्षणादक्षि यदाधिमन्थो वातात्मकः सादयति प्रसह्य।
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः॥

6.6.24

अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्।
हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः॥

6.6.25

पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यन्नानिलः संचरति प्रदुष्टः।
पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति॥

6.6.26

यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत्।
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि॥

6.6.27

यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाप्यनिलोऽन्यतो वा।
कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति॥

6.6.28

अम्लेन भुक्तेन विदाहिना च संछाद्यते सर्वत एव नेत्रम्।
शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति॥

6.6.29

अवेदना वापि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः।
मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः॥

6.6.30

मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः।
ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc