भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.64

6.64.1

अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः॥

6.64.2

यथोवाच भगवान् धन्वन्तरिः॥

6.64.3

सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः।
तस्य यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम्॥

6.64.4

तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाआदितः।
तस्मिन्नर्थः समासोक्ता विस्तरेणेह वक्ष्यते॥

6.64.5

यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्।
तेषु तेषु प्रदातव्याः रसास्ते ते विजानता॥

6.64.6

प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु।
मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः॥

6.64.7

तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च।
कषायतिक्तकटुकै रसैर्युक्तमपद्रवम्॥

6.64.8

नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च।
देयमन्नं नृपतये यज्जलं चोक्तमादितः॥

6.64.9

तप्तावरतमम्भो वा पिबेन्मधुसमायुतम्।
अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले॥

6.64.10

तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा।
मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत्॥

6.64.11

अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत्।
भूबाष्पपरिहारार्थं शयीत च विहायसि॥

6.64.12

शीते साग्नौ निवाते च गुरुप्रावरणे गृहे।
यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः॥

6.64.13

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः।
सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः॥

6.64.14

क्षीरेक्षुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः।
श्वेतस्रजश्चन्द्रपादाः प्रदोषे लघु चाम्बरम्॥

6.64.15

सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम्।
सरःस्वाप्लवनं चैव कमलोत्पलशालिषु॥

6.64.16

प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम्।
तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः॥

6.64.17

वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः।
नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाआतपम्॥

6.64.18

रात्रौ जागग्णं चैव मैथुनं चापि वर्जयेत्।
(स्वादुशीतजलं मेध्यं शुचिस्फटिकनिर्मलम्॥

6.64.19

शरच्चन्द्रांशुनिर्धौतमगस्त्योदयनिर्विषम्।
प्रसन्नत्वाच्च सलिलं सर्वमेव तदा हितम्॥

6.64.20

सचन्दनं सकर्पूरं वासश्चामलिनं लघु।
भजेच्च शारदं माल्यं सीधोः पानं च युक्तितः॥

6.64.21

पित्तप्रशमनं यच्च तच्च सर्वं समाचरेत्।
) (हेमन्तः शीतलो रूक्षो मन्दसूर्योऽनिलाकुलः॥

6.64.22

ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति।
कोष्ठस्थः शीतसंस्पर्शादन्तःपिण्डीकृतोऽनलः॥

6.64.23

रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम्।
) हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम्॥

6.64.24

ससर्पिस्तैलमहिमशनं हितमुच्यते।
तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः॥

6.64.25

तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम्।
साङ्गारयाने महति कौशेयास्तरणास्तृते॥

6.64.26

शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे।
स्त्रीः श्लिष्ट्वागुरुधूपाढ्याः पीनोरुजघनस्तनीः॥

6.64.27

प्रकामं च निषेवेत मैथुनं तर्पितो नृपः।
(मधुरं तिक्तकटुकमम्लं लवणमेव च॥

6.64.28

अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च।
तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवानपि॥

6.64.29

प्रसहानूपमांसानि क्रव्यादबिलशायिनाम्।
औदकानां प्लवानां च पादिनां चोपसेवयेत्॥

6.64.30

मद्यानि च प्रसन्नानि यच्च किञ्चित् बलप्रदम्।
कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे॥

6.64.31

दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः।
) एष एव विधिः कार्यः शिशिरे समुदाहृतः॥

6.64.32

(हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम्।
औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून्॥

6.64.33

ततोऽम्लमधुरस्निग्धलवणानि गुरूणि च।
वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत्॥

6.64.34

षष्टिकान्नं यवाञ्छीतान् मुद्गान् नीवारकोद्रवान्।
लावादिविष्किररसैर्दद्याद्यूसैश्च युक्तितः॥

6.64.35

पटोलनिम्बवार्ताकतिक्तकैश्च हिमात्यये।
सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान्॥

6.64.36

व्यायाममञ्जनं धूमं तीक्ष्णं च कवलग्रहम्।
सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे॥)

6.64.37

तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्रवम्।
यवमुद्गमधुप्रायं वसन्ते भोजनं हितम्॥

6.64.38

व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो।
उत्सादनं तथा स्नानं वनिताः काननानि च॥

6.64.39

सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्।
शिरोविरेकवमननिरूहकवलादिभिः॥

6.64.40

वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान्।
व्यायाममुष्णमायासं मैथुनं परिशोषि च॥

6.64.41

रसांश्चाग्निगुणोद्रिकतान् निदाघे परिवर्जयेत्।
सरांसि सरितो वापीर्वनानि रुचिराणि च॥

6.64.42

चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः।
तालवृन्तानिलाहारांस्तथा शीतगृहाणि च॥

6.64.43

घर्मकाले निषेवेत वासांसि सुलघूनि च।
शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च॥

6.64.44

पानकानि च सेवेत मन्थांश्चापि सशर्करान्।
भोजनं च हितं शीतं सघृतं मधुरद्रवम्॥

6.64.45

शृतेन पयसा रात्रौ शर्करामधुरेण च।
प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते॥

6.64.46

शयीत चन्दनार्द्राङ्गः स्पृश्यमानोऽनिलैः सुखैः।
तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः॥

6.64.47

पयो मांसरसाः कोष्णास्तैलानि च घृतानि च।
बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च॥

6.64.48

निदाघोपचितं चैव प्रकुप्यन्तं समीरणम्।
निहन्यादनिलघ्नेन विधिना विधिकोविदः॥

6.64.49

(नदीजलं रूक्षमुष्णमुदमन्थं तथाआतपम्।
व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत्॥

6.64.50

नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत्।
यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा॥

6.64.51

हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम्।
सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः॥

6.64.52

समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्।
वायुना विषदुष्टेन प्रावृषेण्येन दूषितम्॥

6.64.53

तद्धि स्र्वोपयोगेषु तस्मिन् काले विवर्जयेत्।
अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः॥

6.64.54

पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत्।
निरूहैर्बस्तिभिश्चान्यैस्तथान्यैर्मारुतापहैः॥

6.64.55

कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्।
ऋतावृतौ य एतेन विधिना वर्तते नरः॥

6.64.56

घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन।
अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः।
तत्र शीरोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः॥

6.64.57

तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान्।
मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत्॥

6.64.58

कफवातमामयाविष्टान् विरिक्तान् स्नेहपायिनः।
अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत्॥

6.64.59

वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा।
व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत्॥

6.64.60

मेदसाभिपरीतांस्तु स्निग्धान्मेहातुरानपि।
कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत्॥

6.64.61

शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्रवैः।
प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च॥

6.64.62

एककालं भवेद्देयो दुर्बलाग्निविवृद्धये।
समाग्नये तथाआहारो द्विकालमपि पूजितः॥

6.64.63

औषधद्वेषिणे देयस्तथौषधसमायुतः।
मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते॥

6.64.64

यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः।
अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च।
प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत्॥

6.64.65

अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः।
तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः॥

6.64.66

तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते॥

6.64.67

वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाआमयमसंशयमाशु चैव।
तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च॥

6.64.68

प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते॥

6.64.69

शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वर्दनान्निरेति।
प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः॥

6.64.70

अधोभक्तं नाम यदधो भक्तस्येति॥

6.64.71

मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते॥

6.64.72

पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति।
मध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः॥

6.64.73

अन्तराभक्तं नाम यदन्तरा पीयते पूर्वापरयोर्भक्तयोः॥

6.64.74

सभक्तं नाम यत् सह भक्तेन॥

6.64.75

पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्च।
हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत्॥

6.64.76

सामुद्गं नाम यद्भक्तस्यादावन्ते च पीयते॥

6.64.77

दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु॥

6.64.78

मुहुर्मुहुर्नाम सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते॥

6.64.79

श्वासे मुहुर्मुहुरतिप्रसृते च कासे हिक्कावमीषु स वदन्त्युपयोज्यमेतत्॥

6.64.80

ग्रासं तु यत्पिण्डव्यामिश्रम्॥

6.64.81

ग्रासान्तरं तु यद्ग्रासान्तरेषु॥

6.64.82

ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत।
ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान्॥

6.64.83

एवमेते दशौषधकालाः॥

6.64.84

विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ।
विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति।
तथान्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले।
प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc