सुश्रुतसंहिता · अध्याय 6.63
अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः।
त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते॥
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा।
रसभेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत्॥
एकैकेनानुगमनं भागशो यदुदीरितम्।
दोषाणां तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत्॥
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः।
पञ्चानुक्रमते योगानम्लश्चतुर एव तु॥
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्।
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च॥
तद्यथा मधुराम्लः, मधुरलवणः, मधुरकटुकः, मधुरतिक्तः, मधुरकषायः, एते पञ्चानुक्रान्ता मधुरेण; अम्ललवणः, अम्लकटुकः, अम्लतिक्तः, अम्लकषायः, एते चत्वारोऽनुक्रान्ता अम्लेन; लवणकटुकः, लवणतिक्तः, लवणकषायः, एते त्रयोऽनुकान्ता लवणेन; कटुतिक्तः, कटुकषायः, द्वावेतावनुक्रान्तौ कटुकेन; तिक्तकषायः एक एवानुक्रान्तस्तिक्तेन; एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः॥
त्रिकान् वक्ष्यामः आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति।
षटम्लो लवणस्तस्मादर्धमेकं तथा कटुः॥
तद्यथा मधुराम्ललवणः, मधुराम्लकटुकः, मधुराम्लतिक्तः, मधुरामलकषायः, मधुरलवणकटुकः, मधुरलवणातिक्तः, मधुरलवणकषायः, मधुरकटुकतिक्तः, मधुरकटुकषायः, मधुरतिक्तकषायः, एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुकः, अम्ललवणतिक्तः, अम्ललवणकषायः, अम्लकटुतिक्तः, अम्लकटुकषायः, अम्लतिक्तकषायः, एवमेषां षण्णामादावम्लः प्रयुज्यते; लवणकटुतिक्तः, लवणकटुकषायः, लवणतिक्तकषायः, एवमेषां त्रयाणामादौ लवणः प्रयुज्यते; कटुतिक्तकषायः, एवमेकस्यादौ कटुकः प्रयुज्यते; एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः॥
चतुष्कान् वक्ष्यामः।
चतुष्करससंयोगान्मधुरो दश गच्छति।
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु॥
मधुराम्ललवणकटुकः, मधुराम्ललवणतिक्तः, मधुराम्ललवणकषायः, मधुराम्लकटुकतिक्तः, मधुराम्लकटुकषायः, मधुराम्लतिक्तकषायः, मधुरलवणकटुकतिक्तः, मधुरलवणकटुकषायः, मधुरलवणतिक्तकषायः, मधुरकटुतिक्तकषायः, एवमेषां दशानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तः, अम्ललवणकटुकषायः, अम्ललवणतिक्तकषायः, अम्लकटुतिक्तकषायः, एवमेषां चतुर्णामादावम्लः; लवणकटुतिक्तकषायः, एवमेकस्यादौ लवणः; एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः॥
पञ्चकान् वक्ष्यामः।
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति॥
मधुराम्ललवणकटुतिक्तः, मधुराम्ललवणकटुकषायः, मधुराम्ललवणतिक्तकषायः, मधुराम्लकटुतिक्तकषायः, मधुरलवणकटुतिक्तकषायः, एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तकषायः, एवमेकस्यादावम्लः; एवमेते षट् पञ्चकसंयोगा व्याख्याताः॥
षट्कमेकं वक्ष्यामः; एकस्तु षट्कसंयोगः मधुराम्ललवणकटुतिक्तकषायः; एष एक एव षट्संयोगः॥
एकैकश्च षट्सा भवन्ति मधुरः, अम्लः, लवणः, कटुकः, तिक्तः, कषायः, इति॥
भवति चात्र एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः।
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0