भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.65

6.65.1

अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः॥

6.65.2

यथोवाच भगवान् धन्वन्तरिः॥

6.65.3

द्वात्रिंशत्ततन्त्रयुक्तयो भवन्ति शास्त्रे।
तद्यथा अधिकरणं, योगः, पदार्थः, हेत्वर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, प्रदेशः, अतिदेशः, अपवर्जः, वाक्यशेषः, अर्थापत्तिः, विपर्ययः, प्रसङ्गः, एकान्तः, अनेकान्तः, पूर्वपक्षः, निर्णयः, अनुमतं, विधानम्, अनागतावेक्षणम्, अतिक्रान्तावेक्षणं, संशयः, व्याख्यानं, स्वसंज्ञा, निर्वचनं, निदर्शनं, नियोगः, विकल्पः, समुच्चयः, ऊह्यम्, इति॥

6.65.4

अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् उच्यते वाक्ययोजनमर्थयोजनं च॥

6.65.5

भवन्ति चात्र श्लोकाः असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्।
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः॥

6.65.6

व्याक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः।
लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम्॥

6.65.7

यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा।
प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः॥

6.65.8

तत्र यमर्थमधिकृत्योच्यते तदधिकरणं; यथा रसं दोषं वा॥

6.65.9

येन वाक्यं युज्यते स योगः।
यथा तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः।
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे।
इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं, एवं दूरस्थानामपि पदानामेकीकरणं योगः॥

6.65.10

योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः; पदस्य पदयोः पदानां वार्थः पदार्थः; अपरिमिताश्च पदार्थाः।
यथा स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वार्थानामुपपत्तिर्दृश्यते, तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः; यथा देवोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः कतमस्य वेदस्योत्पत्तिं वक्ष्यतीति, यतः ऋग्वेदादयस्तु वेदाः; विद विचारणे, विदॢ लाभे, इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात्,तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति आयुर्वेदोत्पत्तिमयं विवक्षुरिति; एष पदार्थः॥

6.65.11

यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः।
यथा मृत्पिण्डोऽद्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति॥

6.65.12

समासवचनमुद्देशः।
यथा शल्यमिति॥

6.65.13

विस्तरवचनं निर्देशः।
यथा शारीरमागन्तुकं चेति॥

6.65.14

एवमित्युपदेशः।
यथा तथा न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् इति॥

6.65.15

अनेन कारणेनेत्यपदेशः, यथापदिश्यते मधुरः श्लेष्माणमभिवर्धयतीति॥

6.65.16

प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः।
यथा देवदत्तस्यानेन शल्यमुद्धृतं तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति॥

6.65.17

प्रकृतस्यानागतस्य साघनमतिदेशः।
यथा यतोऽस्य वायुरूर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति॥

6.65.18

अभिव्याप्यापकर्षणमपवर्गः।
यथा अस्वेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति॥

6.65.19

येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः।
यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनापि गम्यते पुरुषस्येति॥

6.65.20

यदकीर्तितमर्थादापद्यते सार्थापत्तिः।
यथा ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति नायं पिपासुर्यवागूमिति॥

6.65.21

यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः।
यथा कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति॥

6.65.22

प्रकरणान्तरेण समापनं प्रसङ्गः, यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः।
यथा पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरिसमवायः पुरुष इति, स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति॥

6.65.23

(सर्वत्र) यदवधारणेनोच्यते स एकान्तः।
यथा त्रिवृद्विरेचयति, मदनफलं वामयति (एव)॥

6.65.24

क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः।
यथा केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं केचिद्विपाकमिति॥

6.65.25

आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः।
यथा कथं वातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति॥

6.65.26

तस्योत्तरं निर्णयः।
यथा शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः, एवमसाध्या वातजा इति॥

6.65.27

तथा चोक्तम् कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः।
अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः॥

6.65.28

परमतमप्रतिषिद्धमनुमतम्।
यथा अन्यो ब्रूयात् सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते कथंचिदिति॥

6.65.29

प्रकरणानुपूर्व्याभिहितं विधानम्।
यथा सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याभिहितानि॥

6.65.30

एवं वक्ष्यतीत्यनागतावेक्षणम्।
यथा श्लोकस्थाने ब्रूयात् चिकित्सितेषु वक्ष्यामीति॥

6.65.31

यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम्।
यथा चिकित्सितेषु ब्रूयात् श्लोकस्थाने यदीरितमिति॥

6.65.32

उभयहेतुदर्शनं संशयः।
यथा तलहृदयाभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहरमिति॥

6.65.33

तन्त्रेऽतिशयोपवर्णनं व्याख्यानम्।
यथा इह पञ्चविंशतिकः पुरुषो व्याख्यायते, अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता॥

6.65.34

अन्यशास्त्रासामान्या स्वसंज्ञा।
यथा मिथुनमिति मधुसर्पिषोर्ग्रहणं; लोकप्रसिद्धमुदाहरणं वा॥

6.65.35

निश्चितं वचनं निर्वचनम्।
यथा आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः॥

6.65.36

दृष्टान्तव्यक्तिर्निदर्शनम्।
यथा अग्निर्वायुना सहितः कक्षे वृद्धिं गच्छति तथा वातपित्तकफदुष्टो व्रण इति॥

6.65.37

इदमेव कर्तव्यमिति नियोगः।
यथा पथ्यमेव भोक्तव्यमिति॥

6.65.38

इदं चेदं चेति समुच्चयः।
यथा मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति॥

6.65.39

इदं वेदं चेति विकल्पः।
यथा रसौदनः सघृता यवागूर्वा (भवत्विति)॥

6.65.40

यदनिर्दिष्टं बुद्ध्यावगम्यते तदूह्यम्।
यथा अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते भक्ष्यं भोज्यं लेह्यं पेयमिति, एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम्; इदमत्रोह्यम् अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति; चतुर्विधश्चाहारः प्रविरलः, प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति।
किञ्चान्यत् अन्नेन भक्ष्यमवरुद्धं, घनसाधर्म्यात्; पेयेन लेह्यं, द्रवसाधम्यात्॥

6.65.41

भवन्ति चात्र सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता।
विशेषस्तु यथायोगमुपधार्यो विपश्चिता॥

6.65.42

द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे।
मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः॥

6.65.43

यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान्।
स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc