सुश्रुतसंहिता · अध्याय 6.62
अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
मदयन्त्युद्धता(मदयन्त्युद्गता) दोषा यस्मादुन्मार्गमाश्रिताः।
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः॥
एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः।
मानसेन च दुःखेन स पञ्चविध उच्यते॥
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्।
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च॥
मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्।
अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम्॥
वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा।
यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति॥
रूक्षच्छविः परुषवाग्धमनीततो वा शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः।
आस्फोटयस्यटति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात्॥
तृट्स्वेददाहबहुलो बहुभिग्विनिद्राश्छायाहिमानिलजलान्तविहारसेवी।
तीक्ष्णो हिमाम्बुनि चयेऽपि स वह्निशङ्की पित्ताद्दिवा नभसि पश्यति तारकाश्च॥
छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः।
निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात्॥
सर्वात्मके पवनपित्तकफा यथास्वं संहर्षिता इव च लिङ्गमुदीरयन्ति॥
चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा।
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः॥
चित्रं स जल्पति मनोनुगतं विसंज्ञो गायत्यथो हसति रोदिति मूढसंज्ञः।
रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतोऽथ भवेत् परासुः॥
स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत्।
तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः॥
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः।
योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत्॥
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः।
सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा॥
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा।
भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः॥
भीषयेत् संयतं पाशैः कशाभिर्वाथ ताडयेत्।
यन्त्रयित्वा सुगुप्तं वा त्रासयेत्तं तृणाग्निना॥
जलेन तर्जयेद्वापि रज्जुघातैर्विभावयेत्।
बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत्।
प्रतुदेदारया चैनं मर्माघातं विवर्जयेत्।
वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत्॥
सापिधाने जरत्कूपे सततं वा निवासयेत्।
त्र्यहात्त्र्यहाद्यवागूश्च तर्पणान् वा प्रदापयेत्॥
केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः।
हृद्यं यद्दीपनीयं च तत्पथ्यं तस्य भोजयेत्(योजयेत्)॥
(विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः।
श्यामैलवालुकैलाभिश्चन्दनामरदारुभिः॥
बर्हिष्ठरजनीकुष्ठपर्णिनीसारिवाद्वयैः।
हरेणुकात्रिवृद्दन्तीवचातालीसकेशरैः॥
द्विक्षीरं साधितं सर्पिर्मालतीकुसुमैः सह।
गुल्मकासज्वरश्वासक्षयोन्मादनिवारणम्॥
एतदेव हि संपक्वं जीवनीयोपसंभृतम्।
चतुर्गुणेन दुग्धेन महाकल्याणमुच्यते॥
अपस्मारं ग्रहं शोषं क्लैब्यं कार्श्यमबीजताम्।
घृतमेतन्निहन्त्याशु ये चादौ गदिता गदाः॥
बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः।
तगरत्रिफलाहिङ्गुवाजिगन्धामरद्रुमैः॥
वचाजमोदाकाकोलीमेदामधुकपद्मकैः।
सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम्॥
बालानां ग्रहजुष्टानां पुंसां दुष्टाल्परेतसाम्।
ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चाशु गर्भदम्॥)
ब्रह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जठाम्।
विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम्॥
ज्योतिष्मतीं नागरं च अनन्तामभयां तथा।
सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत्॥
छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः।
अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने॥
उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत्।
अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत्॥
शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत्।
उन्मादेषु च सर्वेषु कुर्याच्चत्तप्रसादनम्।
मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत्॥
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक्।
विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0