भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.61

6.61.1

अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः॥

6.61.2

यथोवाच भगवान् धन्वन्तरिः॥

6.61.3

स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने।
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत्॥

6.61.4

मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात्।
विरुद्धमलिनाहारविहारकुपितैर्मलैः॥

6.61.5

वेगनिग्रहशीलानामहिताशुचिभोजिनाम्।
रजस्तमोभिभूतानां गच्छतां च रजस्वलाम्॥

6.61.6

तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्।
चेतस्यभिहते पुंसामपस्मारोऽभिजायते॥

6.61.7

हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता।
निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ॥

6.61.8

संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः।
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा॥

6.61.9

विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः।
दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ॥

6.61.10

अल्पकालानतरं चापि पुनः संज्ञां लभेत सः।
सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः॥

6.61.11

वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः।
वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि॥

6.61.12

यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति।
ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः॥

6.61.13

तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः।
यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति॥

6.61.14

ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते।
शीतहृल्लासनिद्रार्तः पतन् भूमौ वमन् कफम्॥

6.61.15

यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति।
ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः॥

6.61.16

हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया।
प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह॥

6.61.17

सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे।
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च॥

6.61.18

आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम्।
क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च॥

6.61.19

आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः।
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित्॥

6.61.20

शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः।
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः॥

6.61.21

दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः।
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु॥

6.61.22

तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते।
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः॥

6.61.23

उपयोगो ग्रहोक्तानां योगानां तु विशेषतः।
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत्।
शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम्॥

6.61.24

चतुर्गुणे गवां मूत्रे तैलाभ्यञ्जने हितम्।
गोधानकुलनागानां पृषतर्क्षगवामपि॥

6.61.25

पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम्।
तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत्॥

6.61.26

पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः।
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः॥

6.61.27

कफजं वमनैर्धीमानपस्मारमुपाचरेत्।
कुलत्थयवकोलानि शणबीजं पलङ्कषाम्॥

6.61.28

जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः।
बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम्॥

6.61.29

काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे।
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम्॥

6.61.30

काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे।
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम्॥

6.61.31

सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः।
मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः॥

6.61.32

करञ्जबीजशैरीषगिरिकर्णीहुताशनैः।
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम्॥

6.61.33

कृमिकुष्ठगरश्वासबलासविषमज्वरान्।
सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत्॥

6.61.34

दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः।
शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः॥

6.61.35

शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः।
त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः॥

6.61.36

कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः।
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः॥

6.61.37

साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत्।
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति॥

6.61.38

भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम्।
त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत्॥

6.61.39

ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत्।
त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत्॥

6.61.40

मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः।
शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः॥

6.61.41

जातगन्धां जातरसां पाययेदातुरं भिषक्।
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc