सुश्रुतसंहिता · अध्याय 6.60
अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः।
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते॥
गुह्यानागतविज्ञानमनवस्थासहिष्णुता।
क्रिया वामानुषी यस्मिन् सग्रहः परिकीर्त्यते॥
अशुचिं भिन्नमर्यादं क्षतं वा यदि वाक्षतम्।
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा॥
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये।
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाष्टधा॥
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः।
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः॥
संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी।
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः॥
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः।
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः॥
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः।
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः॥
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्शुः।
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः॥
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः।
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः॥
भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव।
निद्रालुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः॥
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः।
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः॥
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः।
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः॥
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति।
यश्चाद्रिद्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः॥
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि।
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ॥
कृष्णक्षये च पितरः पश्चम्यामपि चोरगाः।
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च॥
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा।
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक्।
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम्॥
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम्।
गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम्॥
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति।
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः॥
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः।
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति॥
निशाचराणां तेषां हि ये देवगणमाश्रिताः।
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः॥
देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये।
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत्॥
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु।
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः॥
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता।
हिंसाविहारा ये केचिद्देवभावभुपाश्रिताः॥
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः।
ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक्॥
विद्यया भूतविद्यात्वमत एव निरुच्यते।
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः॥
जपैः सनियमैर्होमैरारभेत चिकित्सितुम्।
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी॥
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते।
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च॥
यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत्।
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु॥
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये।
देवग्रहे देवगृहे हुत्वाग्निं प्रापयेद्(दापयेद्)बलिम्॥
कुशस्वस्तिकपूपाज्यच्छत्रपायससंभृतम्।
असुराय यथाकालं विदध्याच्चत्वरादिषु॥
गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम्।
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः॥
अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्बलिम्।
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम्॥
तत्रैवोपहरेच्चापि नागाय विविधं बलिम्।
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा॥
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्।
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः॥
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्।
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा॥
हिङ्गुं मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्।
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः॥
गजाह्वपिप्पलीमूलव्योषामलकसर्षपान्।
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान्॥
नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित्।
स्वराश्वाश्वतरोलूककरभश्वशृगालजम्॥
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत्।
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम्॥
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम्।
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत्॥
वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम्।
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः॥
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम्।
सैन्धवं कटुकां हिङ्गुं वयःस्थां च वचामपि।
बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत्॥
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम्।
पूराणसर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा॥
गोलोमी चाजलोमी च भूतकेशी जटा तथा।
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके॥
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका।
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम्॥
नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः।
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवां तथा॥
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च।
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः॥
अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च।
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता॥
अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम्।
विदधीत परीषेके क्वथितं चूर्णितं तथा॥
उद्धूलने श्लक्ष्णपिष्टं प्रदेहे चावचारयेत्।
एष सर्वविकारांस्तु मानसानपराजितः॥
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः।
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे॥
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत्।
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा मजौजसः॥
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत्।
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0