भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.59

6.59.1

अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः॥

6.59.2

यथोवाच भगवान् धन्वन्तरिः॥

6.59.3

वातेन पित्तेन कफेन सर्वैस्तथाभिघातैः शकृदश्मरीभ्याम्।
तथापरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु॥

6.59.4

अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः।
फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति॥

6.59.5

हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः।
अग्निना दह्यमानाभैः पित्ताघातेन मेहति॥

6.59.6

स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः।
संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति॥

6.59.7

दाहशीतरुजाविष्टो नानावर्णं मुहुर्मुहुः।
ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति॥

6.59.8

मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च।
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः॥

6.59.9

वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्।
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः॥

6.59.10

आध्मानं च सशूलं च मूत्रसङ्गं करोति हि।
अश्मरीहेतुकः पूर्वं मूत्रघात उदाहृतः॥

6.59.11

अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः।
शर्कराया विशेषं तु शृणु कीर्तयतो मम॥

6.59.12

पच्यमानस्य पित्तेन भिद्यमानस्य वायुना।
श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः॥

6.59.13

हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः।
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः॥

6.59.14

मूत्रवेगनिरस्तासु तासु शाम्यति वेदना।
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम्॥

6.59.15

शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम्।
चिकित्सितमथैतेषामष्टानामपि वक्ष्यते॥

6.59.16

अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत्।
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम्॥

6.59.17

श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम्।
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम्॥

6.59.18

तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत्।
तैलं घृतं वा तत् पेयं तेन वाप्यनुवासनम्॥

6.59.19

दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये।
श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम्॥

6.59.20

पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम्।
तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम्(शृतम्)॥

6.59.21

पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा।
दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये॥

6.59.22

एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु।
हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर्युतम्॥

6.59.23

सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम्।
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते॥

6.59.24

यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे।
फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा॥

6.59.25

सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम्।
तथाभिघातजे कुर्यात् सद्योव्रणचिकित्सितम्॥

6.59.26

मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया।
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा॥

6.59.27

ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc