भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.5

6.5.1

अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥

6.5.2

यथोवाच भगवान् धन्वन्तरिः॥

6.5.3

यत् सव्रणं शुक्ल(शुक्र)मथाव्रणं वा पाकात्ययश्चाप्यजका तथैव।
चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात्॥

6.5.4

निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै।
स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्र(शुक्ल)मुदाहरन्ति॥

6.5.5

दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि।
अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव॥

6.5.6

विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च।
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम्॥

6.5.7

उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम्।
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम्॥

6.5.8

सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्।
विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति॥

6.5.9

गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्।
संच्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु॥

6.5.10

तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति।
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः।
विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc