सुश्रुतसंहिता · अध्याय 6.58
अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
वातकुण्डलिकाष्ठीला वातबस्तिस्तथैव च।
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा॥
मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च।
मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः॥
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाशिर्तः।
मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः॥
सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः।
वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम्॥
शकृन्मार्गस्य बस्तेश्च चायुरन्तरमाश्रितः।
अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम्॥
विण्मूत्रनिलसङ्गश्च तत्राध्मानं च जायते।
वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः॥
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः।
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः॥
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः।
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः॥
वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति।
तस्य नाभ्येति यदि वा कथञ्चित्संप्रवर्तते॥
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः।
मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम्॥
मूत्रस्य विहते वेगे तदुदावर्तहेतुना।
अपानः कुपितो वायुरुदरं पूरयेद्भृशम्॥
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्।
तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम्॥
बस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः।
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः॥
स्रवेच्छनैरल्पमल्पं सरुजं वाथ नीरुजम्।
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः॥
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ।
सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम्॥
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च।
वेदनावानति सदा मूत्रमार्गनिरोधनः॥
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः।
स मूत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः॥
प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति।
तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते॥
पुरस्ताद्वापि मूत्रस्य पश्चाद्वापि कदाचन।
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते॥
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्।
बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः॥
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा।
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम्॥
विशदं पीतकं मूत्रं सदाहं बहलं तथा।
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम्॥
मूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः।
पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम्॥
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम्।
मूत्रौकसाहं तं विद्यादामयं द्वादशं कफात्॥
कषायकल्कसर्पिंषि भक्ष्यान् लेहान् पयांसि च।
क्षारमद्यासवस्वेदान्(क्षारमध्वासवस्वेदान्) बस्तींश्चोत्तरसंज्ञितान्॥
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम्।
मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत्॥
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम्।
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते॥
सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः।
मधु मांसोपदंशं वा पिबेद्वाप्यथ गौडिकम्॥
पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम्।
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात्॥
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः।
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते॥
पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च।
अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम्॥
क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत्।
नरो मारुतपित्तोत्थमूत्रघातनिवारणम्॥
निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः।
रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम्॥
मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च।
पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम्॥
अभयामलकाक्षाणां कल्कं बदरसंमितम्।
अम्भसालवणोपेतं पिबेन्मूत्ररुजापहम्॥
उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम्।
पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम्॥
निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम्।
मूत्रदोषहरं कल्यमथवा क्षौद्रसंयुतम्॥
प्रपीड्यामलकानां तु रसं कुडवसंमितम्।
पीत्वागदी भवेज्जन्तुर्मूत्रदोषरुजातुरः॥
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः।
पिष्ट्वाथवा सुशीतेन शालितण्डुलवारिणा॥
तालस्य तरुणं मूलं त्रपुसस्य रसं तथा।
श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत्॥
शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः।
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम्॥
बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान्।
शतपर्वकमूलं च देवदारु सचित्रकम्॥
अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः।
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम्॥
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्।
पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया॥
नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान्।
क्षीरे परिशृतान् तत्र पिबेत् सर्पिः समायुतान्॥
पाटल्या यावशूकाच्च पारिभद्रात्तिलादपि।
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम्॥
पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक्।
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम्॥
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम्।
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः॥
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते।
मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः॥
ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु।
विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम्॥
क्षौद्रार्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः।
शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम्॥
स्वयङ्गुप्ताफलं चैव तथिवेक्षुरकस्य च।
पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत्॥
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत्।
ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत्॥
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा।
मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान्॥
जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च।
नारी चैतत् प्रयुञ्जाना योनिदोसात् प्रमुच्यते॥
बला कोलास्थि मधुकं श्वदंष्ट्राथ शतावरी।
मृणालं च कशेरुश्च बीजानीक्षुरकस्य च॥
सहस्रवीर्यांशुमती पयस्या सह कालया।
शृगालविन्नातिबला बृंहणीयो गणस्तथा॥
एतानि समभागानि मतिमान् सह साधयेत्।
चतुर्गुणेन पयसा गुडस्य तुलया सह॥
द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम्।
तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम्॥
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते।
तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च॥
क्षौद्रेण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत्।
तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत्॥
शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः।
व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम्॥
ओजस्वी बलवान्मर्त्यः पिबेन्नेव च हृष्यति।
चित्रकः सारिवा चैव बला कालानुसारिवा॥
द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भेवेत्।
तथैव मधुकं पथ्यां दद्यादामलकानि च॥
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः।
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत्॥
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम्।
तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत्॥
ततो मितं पिबेत्काले यथादोषं यथाबलम्।
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत्॥
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम्।
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम्॥
प्रक्षाहितं च धन्यं च सर्वरोगापहं शिवम्।
सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात्॥
असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान्।
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0