सुश्रुतसंहिता · अध्याय 6.57
अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्।
नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति॥।
हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु।
हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव॥
कण्डूगुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु।
सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति॥
संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च।
वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम्॥
कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्।
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः॥
निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात्।
चूर्णं यदुक्तमथवानिलजे तदेव सर्वैश्च सर्वकृतमेवमुपक्रमेत॥
द्राक्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्रवृक्षैः।
बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत्॥
मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा।
मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम्॥
मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा।
एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च॥
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान् पानानि मूलफलषाडवरागयोगान्।
अद्याद्रसांश्च विविधान् विविधैः प्रकारैर्भुञ्जीत चापि लघुरूक्षमनःसुखानि॥
आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि।
त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि॥
क्षौद्रायुतानि वितरेन्मुखबोधनार्थमन्यानि तिक्तकटुकानि च भेषजानि।
मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः॥
मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः।
स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य॥
इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान्।
अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम्॥
दैन्यं गते मनसि बोधनमत्र शस्तं यद्यत् प्रियं तदुपसेव्यमरोचके तु॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0