सुश्रुतसंहिता · अध्याय 6.56
अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्।
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका॥
सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः।
यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका॥
न तां परिमिताहारा लभन्ते विदितागमाः।
मूढास्तामजितात्मानो लभन्ते कलुषाशयाः॥
मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः।
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः॥
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति।
निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति॥
वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत्।
तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ॥
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य।
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः॥
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः।
दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च॥
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः।
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय॥
साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्।
पक्वे ततोऽन्ने तु विलङ्घनं स्यात् संपाचनं चापि विरेचनं च॥
विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम्।
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध॥
पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम्।
सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः॥
क्षारागदं वा लवणं विषं वा गुडप्रगाढानथ सर्षपान् वा।
अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सघृतौ त्रिवर्गौ॥
कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु।
कल्याणकं वा लवणं पिबेत्तु यदुक्तमादावनिलामयेषु॥
कृष्णाजमोदक्षवकाणि वापि तुल्यौ पिबेद्वा मगधानिकुम्भौ।
दन्तीयुत वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन॥
उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम्।
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः॥
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन।
सुवामितं साधुविरेचितं वा सुलङ्घतं वा मनुजं विदित्वा॥
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत।
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन॥
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति।
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः॥
आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च।
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च॥
श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि।
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः॥
अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च।
विसूचिकायां परिकीर्तितानि द्रव्याणि वैरेचनिकानि यानि॥
तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः।
स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या॥
मूत्रेषु संसाध्य यथाविधानं द्रव्याणि यान्यूर्ध्वमधश्च यान्ति।
क्वाथेन तेनाशु निरूहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण॥
त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च।
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0