सुश्रुतसंहिता · अध्याय 6.55
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः।
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः॥
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः।
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते॥
क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात्।
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम्॥
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः।
अपथ्यभोजनाच्चापि वक्ष्यते च तथापरः॥
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्।
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम्॥
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा।
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः॥
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य।
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम्॥
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवापि मूर्ध्नि।
आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः॥
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः।
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः॥
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि।
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन॥
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः।
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाप्रवृत्तिः॥
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः।
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम्॥
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च।
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे॥
तन्द्राङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः।
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघाताद्धृदये व्यथा च॥
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवापि गुल्मः।
जृम्भाङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्राभिघातादथवापि तन्द्रा॥
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्।
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत्॥
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः।
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये॥
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे।
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते॥
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत्।
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत्॥
एलां वाप्यथ मद्येन क्षीरं वापि पिबेन्नरः।
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम्॥
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत्।
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम्॥
भद्रदारु घनं मूर्वा हरिद्रा मधुकं तथा।
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा॥
दुःस्पर्शास्वरसं वापि कषायं कुङ्कुमस्य च।
एर्वारुबीजं तोयेन पिबेद्वालवणीकृतम्॥
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा।
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः॥
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः।
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये॥
स्नेहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्।
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः॥
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः।
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत्॥
(तीक्ष्णैषधप्रधमनैरथवाआदित्यरश्मिभिः।
) उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत्॥
सुरां सौवर्चलवतीं बीजपूररसान्विताम्।
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत्॥
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत्।
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः॥
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः।
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम्॥
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम्।
तृष्णाघाते पिबेन्मन्थं यवागूं वापि शीतलाम्॥
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः।
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः॥
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि।
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत्॥
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः।
भोजनैः कुपितः सद्य उदावर्तं करोति हि॥
वातमूत्रपुरीषासृक्कफमेदोवहानि वै।
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत्॥
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः।
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः॥
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान्।
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान्॥
लभते च बहूनन्यान् विकारान् वातकोपजान्।
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत्॥
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत्।
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः॥
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः।
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः॥
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम्।
योगावेतावुदावर्तं शूलं चानिलजं हतः॥
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम्।
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत्॥
पादावशिष्टं तत् पीतमुदावर्तमपोहति।
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम्॥
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत्।
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः॥
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम्।
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा॥
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम्।
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत्॥
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत्।
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके॥
पक्त्वार्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम्।
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम्॥
संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम्।
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम्॥
कृतवेधनमागध्योर्लवणानां च साधयेत्।
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः।
सद्यः शर्मकरावेतौ योगावमृतसंमतौ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0