सुश्रुतसंहिता · अध्याय 6.54
अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः।
अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः॥
माषपिष्टान्नविदलबिसशालूकसेरुकैः।
पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः॥
पललानूपपिशितपिण्याकपृथुकादिभिः।
स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तं च कुप्यति॥
कृमीन् बहुविधाकारान् करोति विविधाश्रयान्।
आमपक्वाशये तेषां कफविड्जन्मनां पुनः।
धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः॥
विंशतेः कृमिजातीनां त्रिविधः संभवः स्मृतः।
पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम्॥
अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा।
चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः॥
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च।
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि॥
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः।
प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः॥
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः।
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते॥
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा।
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः॥
रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः।
रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा॥
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा।
शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते॥
केशरोमनखादाश्च दन्तादाः किक्किशास्तथा।
कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसंभवाः॥
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा।
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते॥
माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः।
मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः॥
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि।
ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः॥
भक्तद्वेषोऽतिसारश्च संजातकृमिलक्षणम्।
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः॥
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्।
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम्॥
सुरसादिविपक्वेन सर्पिषा वान्तमादितः।
विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम्॥
यवकोलकुलत्थानां सुरसादेर्गणस्य च।
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च॥
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना।
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः॥
स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना।
ततः शिरीषकिणिहीरसं क्षौद्रयुतं पिबेत्॥
केवूकस्वरसं वापि पूर्ववत्तीक्ष्णभोजनः।
पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना॥
पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत्।
पत्तूरस्वरसं वापि पिबेद्वा सुरसादिजम्॥
लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम्।
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः॥
खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु।
सुरसादिगणे पक्वं तैलं वा पानमिष्यते॥
विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत्।
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा॥
श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम्।
विडङ्गानां कषायेण त्रैफलेन तथैव च॥
क्षौद्रेण लीढ्वानुपिबेद्रसमामलकोद्भवम्।
अक्षाभयारसं वापि विधिरेषोऽयसामपि॥
पूतीकस्वरसं वापि पिबेद्वा मधुना सह।
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम्॥
सप्तरात्रं पिबेद्घृष्टं त्रपु वा दधिमस्तुना।
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक्॥
शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान्।
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत्॥
शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति।
निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत्॥
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक्।
सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके॥
इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु।
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम्॥
रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते।
सुरसादिं तु सर्वेषु सर्वथौवोपयोजयेत्॥
प्रव्यक्ततिकतकटुकं भोजनं च हितं भवेत्।
कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम्॥
क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति।
समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0