सुश्रुतसंहिता · अध्याय 6.53
अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अत्युच्चभाषणविषाध्ययनातिगीतशीतादिभिः प्रकुपिताः पवनादयस्तु।
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः॥
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गद्गदवत् स्वरं च।
पित्तेन पीतवदनाक्षिपुरीषमूत्रो ब्रूयाद्गलेन परिदाहसमन्वितेन॥
कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति चापि दिवा विशेषः।
सर्वात्मके भवति सर्वविकारसंपदव्यक्तता च वचसस्तमसाध्यमाहुः॥
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च वागेष चापि(वापि) हतवाक् परिवर्जनीयः।
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदश्चयाद्वदति दिग्धगलौष्ठतालुः॥
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः।
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति॥
स्निग्धान् स्वरातुरनरानपकृष्टदोषान् न्यायेन तान् वमनरेचनबस्तिभिश्च।
नस्यावपीडमुखधावनधूमलेहैः संपादयेच्च विविधैः कवलग्रहैश्च॥
यः श्वासकासविधिरादित एव चोक्तस्तं चाप्यशेषमवतारयितुं यतेत।
वैशेषिकं च विधिमूर्ध्वमतो वदामि तं वै स्वरातुरहितं निखिलं निबोध॥
स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत्।
कासमर्दकवातार्कमार्कवस्वरसे शृतम्॥
पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे।
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा॥
देवदार्वग्निकाभ्यां वा सिद्धामाजं समाक्षिकम्।
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः॥
क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रितः।
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्॥
लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम्।
शतावरीचूर्णयोगं बलाचूर्णमथापि वा॥
पिबेत् कटूनि मूत्रेण कफजे स्वरसंक्षये।
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा॥
स्वरोपघाते मेदोजे कफवद्विधिरिष्यते।
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम्॥
शर्करामधुमिश्राणि शृतानि मधुरैः सह।
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0