भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.52

6.52.1

अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः॥

6.52.2

यथोवाच भगवान् धन्वन्तरिः॥

6.52.3

उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः।
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः॥

6.52.4

धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च।
विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव॥

6.52.5

प्राणो ह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः।
निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु॥

6.52.6

स वातपित्तप्रभवः कफाच्च क्षतात्तथान्यः क्षयजोऽपरश्च।
पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात्॥

6.52.7

भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः।
स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि॥

6.52.8

हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः।
प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः॥

6.52.9

उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः।
पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः॥

6.52.10

प्रलिप्यमानेन(विलिप्यमानेन) मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः।
अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्रकफं कफेन॥

6.52.11

वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः।
विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमूहुः॥

6.52.12

स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी।
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्॥

6.52.13

ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति।
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम्॥

6.52.14

शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम्।
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम्॥

6.52.15

फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः।
लेहः समैः क्षौद्रसिताघृताक्तः कासं निहन्यादचिरादुदीर्णम्॥

6.52.16

पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम्।
सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम्॥

6.52.17

खादेद्गुडं नागरपिप्पलीभ्यां द्राक्षां च सर्पिर्मधुनावलिह्यात्।
द्राक्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च॥

6.52.18

लिह्याद्घृतक्षौद्रयुतां समांशां सितोपलां वा मरिचांशयुक्ताम्।
धात्रीकणाविश्वसितोपलाश्च संचूर्ण्य मण्डेन पिबेच्च दध्नः॥

6.52.19

हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः।
उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम्॥

6.52.20

बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्रवन्तीं च सतिल्वकाख्याम्।
भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि॥

6.52.21

कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वापि।
क्षौद्रेण लिह्यान्मरिचानि वापि भार्गीवचाहिङ्गुकृता च वर्तिः॥

6.52.22

धूमे प्रशस्ता घृतसंप्रयुक्ता वेणुत्वगेलालवणैः कृता वा।
मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः॥

6.52.23

विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी।
पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य॥

6.52.24

द्राक्षाम्बुमञ्जिष्ठपुराह्वयाभिः क्षीरं शृतं माक्षिकसंप्रयुक्तम्।
निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान्॥

6.52.25

उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः।
एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम्॥

6.52.26

यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य।
विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम्॥

6.52.27

विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च।
धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र॥

6.52.28

हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव।
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च॥

6.52.29

उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च।
कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम्॥

6.52.30

निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम्।
पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः॥

6.52.31

शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयशटीभिः।
सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत्॥

6.52.32

श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान्।
विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्॥

6.52.33

घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत्।
प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे॥

6.52.34

खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः।
चूर्णं सिताक्षौद्रघृतप्रागाढं त्रीन् हन्ति कासानुपयुज्यमानम्॥

6.52.35

रक्ताहरिद्राञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः।
क्षौद्रेण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम्॥

6.52.36

चूर्णं पिबेदामलकस्य वापि क्षीरेण पक्वं सघृतं हिताशी।
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः॥

6.52.37

कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्रघृतेन वापि।
गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रेण शीतं मरिचोपदंशम्॥

6.52.38

प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वार्धतुलां गुडस्य।
चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः॥

6.52.39

विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः।
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत्॥

6.52.40

तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्।
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः॥

6.52.41

शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः।
स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः॥

6.52.42

द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान्।
पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान्॥

6.52.43

द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम्।
द्रोणे जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे॥

6.52.44

पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च।
चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते॥

6.52.45

रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात्।
तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान्॥

6.52.46

पाण्ड्वामयश्वासशिरोविकारान् हृद्रोगहिक्काविषमज्वरांश्च।
मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः॥

6.52.47

कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्।
पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम्॥ शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम्।

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc