भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.51

6.51.1

अथातः श्वासप्रतिषेधं व्याख्यास्यामः॥

6.51.2

यथोवाच भगवान् धन्वन्तरिः॥

6.51.3

यैरेव कारणैर्हिक्का बहुभिः संप्रवर्तते।
तैरेव कारणैः श्वासो घोरो भवति देहिनाम्॥

6.51.4

विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः।
श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते॥

6.51.5

क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा।
भिद्यते स महाव्याधिः श्वास एको विशेषतः॥

6.51.6

प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा।
आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च॥

6.51.7

किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते।
निषण्णस्यैति शान्तिं च स क्षुद्र इति संज्ञितः॥

6.51.8

तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः।
विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः॥

6.51.9

घोषेण महताआविष्टः सकासः सकफो नरः।
यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः॥

6.51.10

स शाम्यति कफे हीने स्वपतश्च विधर्धते।
मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः॥

6.51.11

आध्मातो दह्यमानेन बस्तिना सरुजं नरः।
सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत्॥

6.51.12

निःसंज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान्।
संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः।

6.51.13

मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः।
ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत्॥

6.51.14

क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते।
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च॥

6.51.15

स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम्।
मृदु राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि॥

6.51.16

श्वासे कासे च हिक्कायां हृद्रोगे चापि पूजितम्।
घृतं पुराणं संसिद्धमभयाविडरामठैः॥

6.51.17

सौवर्चलाभयाबिल्वैः संस्कृतं वानवं घृतम्।
पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे॥

6.51.18

सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति।
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः॥

6.51.19

द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम्।
कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति॥

6.51.20

अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा।
कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे॥

6.51.21

तन्मूलकुसुमावापं शीतं क्षौद्रेण योजयेत्।
शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः॥

6.51.22

सहरिद्रैः सयष्ट्याह्वैः समैरावाप्य योगतः।
घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे॥

6.51.23

श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति।
सुवहा कालिका भर्गी शुकाख्या नैचुलं फलम्॥

6.51.24

काकादनी शृङ्गवेरं वर्षभूर्बृहतीद्वयम्।
कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम्॥

6.51.25

कटूष्णं पीतमेतद्धि श्वासामयविनाशनम्।
सौवर्चलयवक्षारकटुकाव्योषचित्रकैः॥

6.51.26

वचाभयाविडङ्गैश्च साधितं श्वासशान्तये।
गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम्॥

6.51.27

पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः।
तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः॥

6.51.28

बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः।
पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम्॥

6.51.29

हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम्।
वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत्॥

6.51.30

तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे।
सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति॥

6.51.31

फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः।
एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः॥

6.51.32

हन्युः श्वासं च कासं च संस्कृतानि पयांसि च।
तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता॥

6.51.33

दुरालभाथ पिप्पल्यः कटुकाख्या हरीतकी।
श्वाविन्मयूररोमाणि कोला मागधिकाकणाः॥

6.51.34

भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम्।
नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम्॥

6.51.35

पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः।
सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः॥

6.51.36

सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना।
पिबेत् संचूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत्॥

6.51.37

अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः।
तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः॥

6.51.38

शिरीषकदलीकुन्दपुष्पं मागधिकायुतम्।
तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः॥

6.51.39

कोलमज्जां तालमूलमृष्यचर्ममसीमपि।
लिह्यात् क्षौद्रेण भार्गीं वा सर्पिर्मधुसमायुताम्॥

6.51.40

नीचैःकदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना।
द्राक्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम्॥

6.51.41

सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान्।
हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शटीम्॥

6.51.42

लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः।
गवां पुरीषस्वरसं मधुसर्पिःकणायुतम्॥

6.51.43

लिह्याच्छ्वास्सेषु कासेषु वाजिनां वा शकृद्रसम्।
पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः॥

6.51.44

श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः।
भार्गीत्वक् त्र्यूषणं तैलं हरिद्रां कटुरोहिणीम्॥

6.51.45

पिप्पलीं मरिचं चण्डां गोशकृद्रसमेव च।
तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम्॥

6.51.46

सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान्।
पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः॥

6.51.47

सुरा सौवीरकं हिङ्गु मातुलुङ्गरसो मधु।
द्राक्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम्॥

6.51.48

श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत्।
आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः॥

6.51.49

खस्थो विलयनं याति मारुतश्च प्रशाम्यति।
स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम्॥

6.51.50

वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत्।
मनःशिलादेवदारुहरिद्राच्छदनामिषैः॥

6.51.51

लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः।
सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा॥

6.51.52

शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि।
तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च॥

6.51.53

एते सर्वे ससर्पिष्का धूमाः कार्या विजानता।
बलीयसि कफग्रस्ते वमनं सविरेचनम्॥

6.51.54

दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते।
जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः॥

6.51.55

निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम्।
लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्त्र्यहेण॥

6.51.56

यथाग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम्।
रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc