सुश्रुतसंहिता · अध्याय 6.50
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः।
शीतपानासनस्थानरजोधूमानिलानलैः॥
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः।
आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः॥
विषमाशनाध्यनशनैस्तथा समशनैरपि।
हिक्का श्वासश्च कासश्च नृणां समुपजायते॥
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्।
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते॥
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा।
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि॥
मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः।
पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च॥
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम्।
वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम्॥
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्।
चिरेण यमलैर्वेगैर्या हिक्का संप्रवर्तते॥
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्।
विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते॥
क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता।
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी॥
शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी।
अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता॥
मर्माण्यापीडयन्तीव सततं या प्रवर्तते।
देहमायम्य वेगेन घोषयत्यतितृष्यतः।
महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी॥
आयम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम्।
क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ॥
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः संभ्रमश्चात्र शस्तः।
यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः॥
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः।
नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा॥
चूर्णीकृतं सैन्धवमम्भसाथवा निहन्ति हिक्कां च हितं च नस्यतः।
युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा॥
सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम्।
क्षौद्रोपेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा॥
तद्वच्छ्वाविन्मेषगोशल्यकानां(गोशल्लकानां) रोमाण्यन्तर्धूमदग्धानि चात्र।
मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा॥
स्वर्जिक्षारं बीजपूराद्रसेन क्षौद्रोपेतं हन्ति लीढ्वाआशु हिक्काम्।
सर्पिःस्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः॥
शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा।
आतृप्तेर्वा सेव्यमानं निहन्त्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः॥
सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत्।
क्षौद्रं सितां वारणकेशरं च पिबेद्रसेनेक्षुमधूकजेन॥
पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम्।
हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम्॥
रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय॥
कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाथवापि।
कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनावलीढम्॥
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी।
खर्जूरमध्यं मागध्यः काशीशं दधिनाम च॥
चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः।
मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता॥
कपोतपारावतलावशक(ल्ल)श्वदंष्ट्रगोधावृषदंशजान् रसान्।
पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान्॥
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम्।
सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0