सुश्रुतसंहिता · अध्याय 6.49
अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति।
अकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः॥
श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः।
नार्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः॥
अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम्।
(बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात्॥)
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः।
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन्॥
दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः।
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात्॥
प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम्।
पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत्॥
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः।
श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं सानिलजा वमिस्तु॥
योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा।
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा॥
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम्।
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात्॥
सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु।
बीभत्सजा दौहृदजाआमजा च सात्म्यप्रकोपात् कृमिजा च या हि।
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ॥
शूलहृल्लासबहुला कृमिजा च विशेषतः।
कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता॥
क्षीणस्योपद्रवैर्युक्तां सासृक्पूयां सचन्द्रिकाम्।
छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम्॥
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु॥
वमीषु बहुदोषासु छर्दनं हितमुच्यते।
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक्॥
संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः।
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत्॥
यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्।
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम्॥
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्।
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः।
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत्॥
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम्।
सुखोष्णलवणं चात्र हितं स्नेहविरेचनम्॥
पित्तोपशमनीयानि पाक्यानि शिशिराणि च।
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम्॥
शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः।
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च॥
आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा।
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः॥
कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्।
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम्॥
बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः।
लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम्॥
कृमिहृद्रोगवच्चापि कृमिजां साधयेद्वमीम्।
वितरेच्च यथादोषं शस्तं विधिमनन्तरम्॥
दधित्थरसस्ंसक्तां पिप्पलीं माक्षिकान्विताम्।
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते(प्रतिमुच्यते)॥
समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना।
तर्पणं वा मधुयुतं तिसृणामपि भेषजम्॥
स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम्।
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः॥
युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः।
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा॥
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत्।
पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम्॥
सर्पिःक्षौद्रयुतान् वापि लाजशक्तून् पिबेत्तथा।
सर्पिःक्षौद्रसितोपेतां मागधीं वा लिहेत्तथा॥
धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना।
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम्॥
सक्षौद्रां शालिलाजानां यवगूं वा पिबेन्नरः।
घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च॥
जाङ्गलानि च मांसानि शुभानि पानकानि च।
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रितः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0