भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.48

6.48.1

अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः॥

6.48.2

यथोवाच भगवान् धन्वन्तरिः॥

6.48.3

सततं यः पिबेद्वारि न तृप्तिमधिगच्छति।
पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत्॥

6.48.4

सक्षोभशोकश्रममद्यपानाद्रूक्षाम्लशुष्कोष्णकटूपयोगात्।
धातुक्षयाल्लङ्घनसूर्यतापात् पित्तं च वातश्च भृशं प्रवृद्धौ॥

6.48.5

स्रोतांसि संदूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि।
स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णातिबला ततस्तु॥

6.48.6

तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथान्याआमसमुद्भवा च।
स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु॥

6.48.7

ताल्वोष्ठकण्ठास्यविशोषदाहाः संतापमोहभ्रमविप्रलापाः।
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु॥

6.48.8

शुष्कास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि।
स्रोतोनिरोधो विरसं च वक्त्रं शीतभिरद्भिश्च विवृद्धिमेति॥

6.48.9

मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः।
शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च॥

6.48.10

कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम्।
निद्रा गुरुत्वं मधुरास्यता च तयार्दितः शुष्यति चातिमात्रम्॥

6.48.11

कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च।
कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव।
एतानि रूपाणि भवन्ति तस्यां तयार्दितः काङ्क्षति नाति चाम्भः॥

6.48.12

क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु।
तयाभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम्॥

6.48.13

रसक्षयाद्या क्षयजा मता सा तयार्दितः शुष्यति दह्यते च।
अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः॥

6.48.14

रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्।
त्रिदोषलिङ्गाआमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता॥

6.48.15

स्निग्धं तथाम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति।
क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु॥

6.48.16

तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागधिकोदकेन।
विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः॥

6.48.17

तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः।
गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः॥

6.48.18

सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा।
जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा॥

6.48.19

पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा।
पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः॥

6.48.20

पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः।
पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाप्यथ जीवनीयैः॥

6.48.21

बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति।
हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन॥

6.48.22

सर्वासु तृष्णास्वथवापि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति।
पर्यागतोदुम्बरजो रसस्तु सशर्करतत्क्वथितोदकं वा॥

6.48.23

वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः।
कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति॥

6.48.24

लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु।
तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं वदन्ति॥

6.48.25

द्राक्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः।
ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च॥

6.48.26

कुर्यात् कषायं च यथेरितेन मधूकपुष्पादिषु चापरेषु।
राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः॥

6.48.27

सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि।
क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः॥

6.48.28

क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा।
आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः॥

6.48.29

आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि।
गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम्॥

6.48.30

श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाप्यथवापि मन्थः।
भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च॥

6.48.31

या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः।
मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां यापि च मद्यपस्य॥

6.48.32

तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाम्भः।
स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि॥

6.48.33

लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि।
संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc