भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.47

6.47.1

अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः॥

6.47.2

यथोवाच भगवान् धन्वन्तरिः॥

6.47.3

मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च।
रूक्षमाशुकरं चैव व्यवायि च विकाशि च॥

6.47.4

औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम्।
विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत्॥

6.47.5

मारुतं कोपयेद्रौक्ष्यादाशुत्वाच्चाशुकर्मकृत्।
हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति॥

6.47.6

तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्।
केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि॥

6.47.7

स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्।
भवेदायुःप्रकर्षाय बलायोपचयाय च॥

6.47.8

काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः।
विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः॥

6.47.9

तदेवानन्नमज्ञेन सेव्यमानममात्रया।
कयाग्निना ह्यग्निसमं समेत्य कुरुते मदम्॥

6.47.10

मदेन करणानां तु भावान्यत्वे कृते सति।
निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः॥

6.47.11

त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः।
पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम्॥

6.47.12

प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा।
विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः॥

6.47.13

श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः।
पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते॥

6.47.14

निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्।
उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरभेदम्॥

6.47.15

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन।
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि॥

6.47.16

अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाबलेन।
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान्॥

6.47.17

पानात्ययं परमदं पानाजीर्णमथापि वा।
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम्॥

6.47.18

स्तम्भाङ्गमर्धृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च।
स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च॥

6.47.19

श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसंपत्।
ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम्॥

6.47.20

लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम्।
आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम्॥

6.47.21

ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि।
हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः॥

6.47.22

द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः।
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं(तैलप्रभास्यमपिपानहतं) विजह्यात्॥

6.47.23

जिह्वौष्ठदन्तमसितं त्वथवापि नीलं पीते च यस्य नयने रुधिरप्रमे च।
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते॥

6.47.24

तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध।
मद्यं तु चुक्रमरिचार्द्रकदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै॥

6.47.25

पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय।
आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षडवपानकानि॥

6.47.26

सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति।
पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम्॥

6.47.27

पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च।
लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान्॥

6.47.28

पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन।
सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय॥

6.47.29

पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात्।
कुर्याच्च सर्वमथ सर्वभवे विधानं द्द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम्॥

6.47.30

सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च।
त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः॥

6.47.31

पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते।
ह्रीवेरपद्मपरिपेलवसंप्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च॥

6.47.32

पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः।
त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम्॥

6.47.33

द्राक्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम्।
पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्राक्षां च मूलमसकृत् त्रपुषीभवं यत्॥

6.47.34

कार्पासिनीमथ च नागबलां च तुल्यां पीत्वा सुखी भवति साधु सुवर्चलां च।
काश्मर्यदारुविडदाडिमपिप्पलीषु द्राक्षान्वितासु कृतमम्बुनि पानकं यत्॥

6.47.35

तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति।
द्राक्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव॥

6.47.36

सौवर्चलायुतमुदाररसं फलाम्लं भार्गीशृतेन च जलेन हितोऽवसेकः॥

6.47.37

इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे।
विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे॥

6.47.38

त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं सेवेत हिङ्गुमरिचैलयुतं फलाम्लाम्।
उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः॥

6.47.39

हृद्यैः खडैरपि च भोजनमत्र शस्तं द्राक्षाकपित्थफलदाडिमपानकं यत्।
तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि॥

6.47.40

खर्जूरवेत्रककरीरपरूषकेषु द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा।
श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि॥

6.47.41

क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि।
आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि॥

6.47.42

सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च।
सूक्ष्माम्बरस्रुतहिमांच सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान्॥

6.47.43

पञ्चेन्द्रियार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः।
पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः॥

6.47.44

प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्यः सेव्याश्च पञ्चविषयातिशयस्वभावाः॥

6.47.45

पिबेद्रसं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्।
संचूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः॥

6.47.46

वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि।
द्राक्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः॥

6.47.47

भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना।
तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति॥

6.47.48

यथा नरेन्द्रोपहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः।
ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः॥

6.47.49

विच्छिन्नमद्यः सहसा योऽतिमद्यं विषेवते।
तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि॥

6.47.50

मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि(गुणावम्भोवहानि) तु।
स्रोतांसि शोषयेयातां तेन तृष्णोपजायते॥

6.47.51

पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम्।
पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम्॥

6.47.52

सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम्।
क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः॥

6.47.53

पक्वमभ्यञ्जने श्रेष्ठं सेके क्वाथश्च शीतलः।
रसवन्ति च भोज्यानि यथास्वमवचारयेत्॥

6.47.54

पानकानि सुशीतानि हृद्यानि सुरभीणि च।
त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः।
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम्॥

6.47.55

शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम्।
तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन॥

6.47.56

शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः।
भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम्॥

6.47.57

आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसंचयेषु।
कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु॥

6.47.58

दाहाभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः।
विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम्॥

6.47.59

वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः।
तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च॥

6.47.60

तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः।
धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ॥

6.47.61

गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये।
जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे॥

6.47.62

तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि।
हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम्॥

6.47.63

उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः।
म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः॥

6.47.64

ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वावलाः शिथिलमेखलहारयष्ट्यः॥

6.47.65

हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः।
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम्॥

6.47.66

तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः।
सामान्यतो विशेषं तु शृणु दाहेष्वशेषतः॥

6.47.67

कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ह्यति।
संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः॥

6.47.68

लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते।
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत्॥

6.47.69

अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः।
शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः॥

6.47.70

पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः।
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम्॥

6.47.71

सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः।
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते॥

6.47.72

तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत्।
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा॥

6.47.73

शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम्।
असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः॥

6.47.74

विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च।
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः॥

6.47.75

क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः।
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः॥

6.47.76

क्षतजेनाश्नतश्चान्यः शोचतो वाप्यनेकधा।
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान्॥

6.47.77

तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम्।
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत्॥

6.47.78

मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः।
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु॥

6.47.79

(एवंविधो भवेद्यस्तु मदिरामयपीडितः।
) प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत्॥

6.47.80

सजीरकाण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि।
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम्॥

6.47.81

जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्।
पिबेन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc