सुश्रुतसंहिता · अध्याय 6.46
अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः।
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः॥
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च।
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः॥
हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च।
सर्वासां पूर्वरूपाणि यथास्वं ता विभावयेत्॥
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः।
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत्॥
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्।
मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकीर्तिता॥
वातादिभिः शोणितेन मद्येन च विषेण च।
षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते॥
अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः।
पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः॥
तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः।
द्रव्यस्वभाव इत्येके स्थितास्तु विषमद्ययोः॥
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः।
त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः॥
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः।
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत्॥
वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते।
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः॥
सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च।
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि॥
सिताप्रियालेक्षुरसप्लुतानि द्राक्षामधूकस्वरसान्वितानि।
खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि॥
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च।
तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः॥
भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि।
शीतेन तोयेन बिसं मृणालं क्षौद्रेण कृष्णां सितया च पथ्याम्॥
कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाप्यथ मानुषीणाम्।
मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः॥
हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा।
द्राक्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति॥
पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति।
प्रभूतदोषस्तमसोऽतिरेकात् संमूर्च्छितो नैव विबुध्यते यः॥
संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्याः।
यथाआमलोष्टं सलिले निषिक्तं समुद्धेरेदाश्वविलीनमेव॥
तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम्।
तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः॥
वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः।
आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्वसनश्च वर्ज्यः॥
प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम्।
फलत्रिकैश्चित्रकनागराढ्यैस्तथाश्मजाताज्जतुनः प्रयोगैः।
सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः॥
यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत्।
सर्वमूर्च्छापरीतानां विषजायां विषापहम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0