सुश्रुतसंहिता · अध्याय 6.45
अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
क्रोधशोकभयायासविरुद्धान्नातपानलान्।
कट्वम्ललबणक्षारतीक्ष्णोष्णातिविदाहिनः॥
नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत्।
विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम्॥
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधापि वा।
आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत्॥
विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते।
केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम्॥
ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम्।
सदनं शीतकामित्वं कण्ठधूमायनं वमिः॥
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति।
बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः॥
दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रितादाहमूर्च्छा भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा।
तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः॥
मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्।
यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति॥
नादौ संग्राह्यमुद्रिक्तं यदसृग्बलिनोऽश्नतः।
तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम्॥
अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः।
जयेदन्यतरद्वापि क्षीणस्य शमनैरसृक्॥
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः।
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम्॥
लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम्।
रसयूषौ प्रदातव्यौ सुरभिस्नेहसंस्कृतौ।
तर्पणं पाचनं लेहान् सर्पीषि विविधानि च॥
द्राक्षामधुककाश्मर्यसितायुक्तं विरेचनम्।
यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम्॥
पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः।
पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम्॥
हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम्।
रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः॥
सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः।
हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम्॥
मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः।
भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये॥
लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च।
हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ॥
रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत्।
शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा॥
योजयित्वा क्षिपेद्रात्रावाकाशे सोत्पलं तु तत्।
प्रातः स्रुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान्॥
पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसंभवम्।
उदुम्बरफलं पिष्ट्वा पिबेत्तद्रसमेव वा॥
त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना।
पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा॥
चन्द्नं मधुकं रोध्रमेवमेव समं पिबेत्।
करञ्जबीजमेवं वा सिताक्षौद्रयुतं पिबेत्॥
मज्जानमिङ्गुदस्यैवं पिबेन्मधुकसंयुतम्।
सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना॥
पिबेद्वापि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः।
रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः॥
पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि।
अतिनिस्रुतरक्तो वा क्षौद्रयुक्तं पिबेदसृक्।
यकृद्वा भक्षयेदाजमामं पित्तसमायुतम्॥
पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्रयुतं सुशीतम्।
वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा॥
द्राक्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत्।
स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाम्बुसमं हिताशिनः॥
तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्रयुतं वृषस्य वा।
लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रान्वितं तण्डुलसाह्वयं वा॥
लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम्।
द्राक्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम्॥
पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी।
वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि॥
पीत्वा सिताक्षौद्रयुतानि जह्यात् पित्तसृजो वेगमुदीर्णमाशु।
गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम्॥
पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे।
सक्षौद्रमिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च॥
जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः।
मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन॥
घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा।
द्राक्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा॥
शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे।
द्राक्षाघृतक्षौद्रसितायुतेन विदारिगन्धादिविपाचितेन॥
क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम्।
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः॥
सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः।
निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम्॥
क्षीरौदनं भुक्तमथानुवासयेद्घृतेन यष्टीमधुसाधितेन च।
अधोवहं शोणितमेष नाशयेत्तथातिसारं रुधिरस्य दुस्तरम्॥
विरेकयोगे त्वति चैव शस्यते वाम्यश्च रक्ते विजिते बलान्वितः॥
एवंविधा उत्तरबास्तयश्च मूत्राशयस्थे रुधिरे विधेयाः।
प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम्॥
विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता।
शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते॥
त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः।
लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0