भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.44

6.44.1

अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः॥

6.44.2

यथोवाच भगवान् धन्वन्दरिः॥

6.44.3

व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्।
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम्॥

6.44.4

पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः।
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः॥

6.44.5

त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः।
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि॥

6.44.6

स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघरको(लाघवको)अलसाख्यः।
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत्॥

6.44.7

कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च।
वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथान्यैस्तदुपद्रवैश्च॥

6.44.8

पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च।
पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथान्यैस्तदुपद्रवैश्च॥

6.44.9

शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च।
कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथान्यैस्तदुपद्रवैश्च॥

6.44.10

सर्वात्मके सर्वमिदं व्यवस्येद् वक्ष्यामि लिङ्गान्यथ कामलायाः।
यो ह्यामयान्ते सहसान्नमम्लमद्यादपथ्यानि च तस्य पित्तम्॥

6.44.11

करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रिबलक्षयौ च।
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः॥

6.44.12

ज्वराङ्गमर्दभ्रमसादतन्द्राक्षयान्वितो लाघरको(लाघवको)अलसाख्यः।
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः॥

6.44.13

उपद्रवास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाग्निसादः।
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च॥

6.44.14

साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्।
संपादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः॥

6.44.15

पिबेद्घृतं वा रजनीविपक्वं यन्त्रैफलं तैल्वकमेव वापि।
विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिदान् घृतेन॥

6.44.16

मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम्।
खादेद्गुडं वाप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा॥

6.44.17

अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा।
सर्पिर्मधुभ्यां विदधीत वापि शास्त्रप्रदेशाभिहितांश्च योगान्॥

6.44.18

अह्रेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु।
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्रयुतं हिताशी॥

6.44.19

उभे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम्।
आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये॥

6.44.20

तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीएण वा मागधिका यथाग्नि।
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनावलिह्यात्॥

6.44.21

गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाआयसं चूर्णमनल्पकालम्।
प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम्॥

6.44.22

आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च।
पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनावलिह्यात्॥

6.44.23

मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः।
मूत्रासुतोऽयं मधुनावलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम्॥

6.44.24

बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः।
तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान्॥

6.44.25

सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा।
मूर्वाहरिद्रामलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे॥

6.44.26

मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी।
सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम्॥

6.44.27

न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्रयुतं हिताशी।
शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनावलिह्यात्॥

6.44.28

विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः।
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुमे च॥

6.44.29

संभारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य।
जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे॥

6.44.30

हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च।
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी॥

6.44.31

कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्रजनीविमिश्रम्।
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा॥

6.44.32

मूत्रे स्थितं सैन्धवसंप्रयुक्तं मासं पिबेद्वापि हि लोहकिट्टम्।
दग्ध्वाक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान्॥

6.44.33

विचूर्ण्य लीढं मधुनाचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात्।
सिन्धूद्भवं वाग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम्॥

6.44.34

लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव।
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम्॥

6.44.35

यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत्।
तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च॥

6.44.36

द्राक्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघरके(लाघवके) हितं च।
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव॥

6.44.37

स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वापि हि जाङ्गलानाम्।
सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम्॥

6.44.38

श्वासातिसारारुचिकासमूर्च्छातृट्छर्दिशूलज्वरशोफदाहान्।
तथाविपाकस्वरमेदसादान् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम्॥

6.44.39

अन्तेषु शूनं परिहीनमध्यं म्लानं तथान्तेषु च मध्यशूनम्।
गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसंज्ञकल्पम्॥

6.44.40

विवर्जयेत् पाण्डुकिनं यशोऽर्थी तथातिसारज्वरपीडितं च॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc