भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.43

6.43.1

अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः॥

6.43.2

यथोवाच भगवान् धन्वन्तरिः॥

6.43.3

वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः।
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि(चाति) भोजनैः॥

6.43.4

दूषयित्वा रसं दोषा विगुणा हृदयं गताः।
कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते॥

6.43.5

चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक्।
लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम्॥

6.43.6

आयम्यते मारुतजे हृदयं तुद्यते तथा।
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च॥

6.43.7

तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः।
धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च॥

6.43.8

गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्।
माधुर्यमपि चाआस्यस्य बलासावतते हृदि॥

6.43.9

उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः।
अरुचिः श्याव्नेत्रत्वं शोषश्च कृमिजे भवेत्॥

6.43.10

भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्रवाः।
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः॥

6.43.11

वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्।
द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु॥

6.43.12

पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम्।
सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम्॥

6.43.13

फलधान्याम्लकौलत्थदधिमद्यासवादिभिः।
पाययेत विशुद्धं च स्नेहेनान्यतमेन वा॥

6.43.14

भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः।
वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः॥

6.43.15

श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर्वमेत्।
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम्॥

6.43.16

घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्।
तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक्॥

6.43.17

सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम्।
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके॥

6.43.18

चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम्।
फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः॥

6.43.19

श्यामात्रिवृत्कल्कयुतं घृतं वापि विरेचनम्।
बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः॥

6.43.20

कृमिहृद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम्।
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत्॥

6.43.21

सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः।
विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम्॥

6.43.22

हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम्।
यवान्नं वितरेच्चास्य सविडङ्गमतः परम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc