सुश्रुतसंहिता · अध्याय 6.42
अथातो गुल्मप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः।
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते॥
हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वाचलः।
चयापचयवान् वृत्तः स गुल्म इति कीर्तितः॥
पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः।
गुपितानिलमूलत्वाद्गूढमूलोदयादपि॥
गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते।
स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः॥
अन्तः सरति यस्माच्च न पाकमुपयात्यतः।
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः॥
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः।
सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम्॥
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा।
द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम्॥
हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च।
ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसंभवे तु॥
स्वेदज्वराहारविदाहदाहास्तृष्णाङ्गरागः कटुवक्त्रता च।
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे॥
स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च।
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु॥
सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः क्षतजं प्रवक्ष्ये।
नवप्रसूताहितभोजना या या चामगर्भं विसृजेदृतौ वा॥
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम्।
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध॥
न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्।
तं गर्भकालातिगमे चैकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः॥
वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः।
उपाचरेद्यथाकालं निरूहैः सानुवासनैः॥
पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु।
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत्॥
श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु।
तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत्॥
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः।
पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः॥
विशेषमपरं चास्याः शृणु रक्तविभेदनम्।
पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत्॥
दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु।
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः॥
आनूपौदकमज्जानो वसा तैलं घृतं दधि।
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम्॥
जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके।
तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते॥
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्।
शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने॥
चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः।
दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः॥
दध्यारनालबदरमूलकस्वरसैर्घृतम्।
तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत्॥
हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः।
पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः॥
शटीवचाजगन्धैलासुरसैश्च विपाचितम्।
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम्॥
विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः।
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः॥
बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम्।
साधित्ं दाधिकं नाम गुल्महृत् प्लीहशूलजित्॥
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्।
सुरारनालदध्यम्लमूलकस्वरसैः सह॥
व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः।
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः॥
सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्।
कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत्॥
दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ।
पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ॥
सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्।
वातगुल्मापहं सर्पिरेतद्दीपनमेव च॥
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम्।
न्यग्रोधादिगणे वापि गणे वाप्युत्पलादिके॥
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम्।
आरग्वधादौ विपचेद्दीपनीययुतं घृतम्॥
क्षारवर्गे पचेच्चन्यत् पचेन्मूत्रगणेऽपरम्।
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम्॥
यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम्।
चूर्णं हिङ्ग्वादिकं वापि घृतं वा प्लीहनाशनम्॥
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा।
तिलेक्षुरकपालाशसार्षपं यावनालजम्॥
भस्म मूलकजं चापि गोजाविखरहन्तिनाम्।
मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः॥
कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः।
साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम्॥
अयःपात्रेऽग्निनाल्पेन पक्त्वा लेह्यम्(लहम्)अथोद्धरेत्।
तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषापि वा॥
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा।
गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम्॥
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा।
तैलेन शमयेत् पीतो गुल्मं पवनसंभवम्॥
पीतं सुखाम्बुना वापि स्वर्जिकाकुष्ठसैन्धवम्।
वृश्चीवमुरुबूकं(वृश्चीरमुरुबूकं) च वर्षाभूर्बृहतीद्वयम्॥
चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम्।
मागधीचिक्त्रकक्षौद्रलिप्ते कुम्भे निधापयेत्॥
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम्।
बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः॥
अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम्।
पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम्॥
लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः।
पथ्याभिर्वा युतं चूर्णं गवां मूत्रयुतं पचेत्॥
गुटिकास्तद्घृनीभूतं कृत्वा खादेदभुक्तवान्।
गुल्मप्लीहाग्निसादांता नाशयेयुरशेषतः॥
हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम्।
सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते॥
गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत्।
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः॥
कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम्।
पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः॥
खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः।
बद्धवर्चोनिलानां तु सार्द्रकं क्षीरमिष्यते॥
कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्।
गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम्॥
अतशैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्।
विम्लापनाभ्यञ्जनानि तथैव दहनानि च॥
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः।
उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा॥
लवणानि च योज्यानि यान्युक्तान्यनिलामये।
वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः॥
कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः।
दन्तीचित्रकमूलेषु तथा वातहरेषु च॥
कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान्।
खादेद्वाप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः॥
ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत्।
पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम्॥
गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम्।
मूत्रमद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम्॥
एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु।
पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः॥
युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता।
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान्॥
कुल्माषान् वा बहुस्नेहान् भक्ष्येल्लवणोत्तरान्।
अथास्योपद्रवः शूलः कथंचिदुपजायते॥
शूलं निखानितमिवासुखं येन तु वत्त्यसौ।
तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता॥
तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता।
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता॥
वाय्वादिभिर्यथासङ्ख्यां मिश्रैर्वा वीक्ष्य योजयेत्।
पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम्॥
यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम्।
विदारीत्रिफलाभीरुशृङ्गाटीगुडशर्कराः॥
काश्मरीफलयष्ट्याह्वपरूषकहिमानि च।
षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान्॥
कृष्णामूलकचन्व्यं च नागरक्षारचित्रकान्।
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान्॥
यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे।
तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम्॥
शिशिरोदकपूर्णानां भाजनानां च धारणम्।
वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः॥
स्नेहादिश्च करमः सर्वो विशेषेणोपदिश्यते।
वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम्॥
न खादेदालुकं गुल्मी मधुराणि फलानि च।
विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते॥
निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम्।
वातमूत्रपुरीषाणां निग्रहादतिभोजनात्॥
अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात्।
पानीयपानात् क्षुत्काले विरूढानां च सेवनात्॥
पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च।
एवंविधानां द्रव्याणामन्येषां चोपसेवनात्॥
वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम्।
निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः॥
शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः।
शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते॥
निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते।
प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च॥
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः।
एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम्॥
तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च।
शीताभिकामो भवति शीतेनैव प्रशाम्यति॥
एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम्।
शूलेनोत्पीड्यमानस्य हृल्लास उपजायते॥
अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता।
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम्॥
सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम्।
सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत्॥
शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे।
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत्॥
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः।
पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः॥
त्रिवृच्छाकेन वा स्निग्धमुष्णं भिञ्जीत भोजनम्।
चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत्॥
वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः।
यथालाभं निषेवेत मांसानि बिलशायिनाम्॥
सुरा सौवीरकं चुक्रं मस्तूदश्वित्तथा दधि।
सकाललवणं पेयं शूले वातसमुद्भवे॥
कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः।
ससैन्धवः समरिचो वातशूलविनाशनः॥
विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान्।
सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत्॥
मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति।
पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः॥
पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत्।
तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा॥
मध्वासवेन चुक्रेण सुरासौवीरकेण वा।
अथवैतानि(अथचैतानि) चूर्णानि मातुलुङ्गरसेन वा॥
तथा बदरयूषेण भावितानि पुनः पुनः।
तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत्॥
सह दाडिमसारेण वर्तिः कार्या भिषग्जिता।
सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति॥
गुडतैलेन वा लीढा पीता मद्येन वा पुनः।
बुभुक्षाप्रभवे शूले लघु संतर्पणं हितम्॥
उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा।
वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत्॥
सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः।
वारुणीं च पिबेज्जन्तुस्तथा संपद्यते सुखी॥
एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम्।
अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम्॥
स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः।
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत्॥
मणिराजतताम्राणि भाजनानि च सर्वशः।
वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत्॥
गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम्।
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम्॥
रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत्।
पालाशं धान्वनं वापि पिबेद्यूषं सशर्करम्॥
परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि।
तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम्॥
अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च।
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक्॥
रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः।
पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम्॥
पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम्।
चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम्॥
एरण्डफलमूलानि मूलं गोक्षुरकस्य च।
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम्॥
दद्याच्छृगालविन्नां च सहदेवां तथैव च।
महासहां क्षुद्रसहां मूलमिक्षुरकस्य च॥
एतत् संभृत्य संभारं जलद्रोणे विपाचयेत्।
चतुर्भागावशेषं तु यवक्षारयुतं पिबेत्॥
वातिकं पैत्तिकं वापि श्लैष्मिकं सान्निपातिकम्।
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः॥
पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च।
सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः॥
तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम्।
रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः॥
स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम्।
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः॥
नान्नं वाञ्छति नो निद्रामुपैत्यर्तिनिपीडितः।
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः॥
तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम्।
सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत्॥
पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम्।
सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम्॥
बीजपूरकसारं वा पयसा सह साधितम्।
एरण्डतैलमथवा मद्यमस्तुपयोरसैः॥
भोजयेच्चापि पयसा जाङ्गलेन रसेन वा।
प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः॥
तदास्य भोजनं भुक्तं सोपस्तम्भं न पच्यते।
उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः॥
नैवासने न शयने तिष्ठन् वा लभते सुखम्।
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः॥
वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम्।
संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः॥
नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम्।
मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः॥
बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत्।
वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाभया॥
कुटजस्य च बीजानि सद्यःशूलहराणि तु।
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम्॥
स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान्।
उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम्॥
अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम्।
कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः॥
हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम्।
स हृच्छूल इति ख्यातो रसमारुतसंभवः॥
तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम्।
संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति॥
बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते।
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात्॥
नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः।
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात्॥
वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः।
मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम्॥
शूलं संजनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि।
दक्षिणं यदि वा वामं कुक्षिमादाय जायते॥
सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान्।
पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते॥
उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति।
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम्॥
क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता।
स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः॥
पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान्।
उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः॥
अतिमात्रं यदा भुक्तं पावके मृदुतां गते।
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति॥
अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति।
मूर्च्छाआध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका॥
विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति।
अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः॥
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः।
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः॥ गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0