सुश्रुतसंहिता · अध्याय 6.41
अथातः शोषप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अनेकरोगानुगतो बहुरोगपुरोगमः।
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः॥
संशोषणाद्रसादीनां शोष इत्यभिधीयते।
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः॥
राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः।
तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः॥
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि।
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः॥
क्रियाणामविभागेन प्रागेकोत्पादनेन च।
एक एव मतः शोषः सन्निपातात्मको ह्यतः॥
उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि।
क्सयाद्वेगप्रतीघातादाघाताद्विषमाशनात्॥
जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः।
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु॥
अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरम्।
क्षीयन्ते धातवः सर्वे ततः शुष्यन्ति मानवः॥
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्।
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि॥
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः।
ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः॥
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च।
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः॥
एकादशभिरेभिर्वा षड्भिर्वापि समन्वितम्।
(कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः॥
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः।
) जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः॥
व्यायशोकस्थाविर्यव्यायामध्वोपवासतः।
व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि॥
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः।
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः॥
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः।
विना शुक्रक्सयकृतैर्विकारैरभिलक्षितः॥
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्दिर्यः।
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः(नः)॥
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः।
संप्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः॥
अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः।
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः॥
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः।
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना॥
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्।
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः॥
व्यायामभाराध्ययनैरभिघातातिमैथुनैः।
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम्।
तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति॥
कासमानश्छर्दयेच्च पीतरक्तासितारुणम्।
संतप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति॥
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः।
केषांचिदेवं शोषो हि कारणैर्भेदमागतः॥
न तत्र दोषलिङ्गानां समस्तानां निपातनम्।
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसंज्ञिताः॥
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये॥
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः।
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणे भवति मांसपरो रिरिंसुः॥
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च।
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च॥
महाशनं क्षीयमाणमतीसारनिपीडितम्।
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत्॥
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम्।
स्थिरादिवर्गसिद्धेन धृतेनाजाविकेन च॥
स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम्।
आस्थापनं तथा कार्यं शिरसश्च विरेचनम्॥
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः।
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम्॥
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः।
बृंहणीयो विधिस्तस्मै हितः स्निघ्दोऽनिलापहः॥
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून्।
गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान्॥
देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः।
खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि॥
मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः।
अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान्॥
खादेत् पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले।
सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः॥
मांसादमांसेषु घृतं च सिद्धं शोसापहं क्षौद्रकणासमेतम्।
द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती॥
घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम्।
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्रयुतं प्रलिह्यात्॥
क्षीरं पिबेद्वाप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम्।
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वापि पयोनुपानम्॥
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च।
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्रयुतं हिताशी॥
यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च।
शकृद्रसा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः॥
मूर्वाहरिद्राखदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य।
भागान् दशौतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम्॥
कटुत्रिकं चैव सभद्रदारु घृतोत्तमं यक्ष्मनिवारणाय।
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च॥
यवान् कुलत्थान् बदराणि भार्गीं पाठां हुताशं समहीकदम्बम्।
कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम्॥
व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च।
एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन॥
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्रसक्षीररसक्षतोत्थैः।
द्राक्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि॥
एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान्।
विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च॥
पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च।
त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च॥
प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात्।
पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रितश्च॥
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम्।
यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च॥
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च।
न चात्र किंचित् परिवर्जनीयं रसायनं चैतदुपास्यमानम्॥
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र।
उपद्रवांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम्॥
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः।
स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम्॥
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्।
सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य॥
शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत।
वैद्यान् द्विजातींस्त्रिदशान् गुरूश्च वाचश्च पुण्याः शृणुयाद्बिजेभ्यः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0