सुश्रुतसंहिता · अध्याय 6.40
अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः।
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः॥
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात्।
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात्॥
जलातिरमणैर्वेगविघातैः कृमिदोषतः।
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते॥
संशम्यापांधातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः।
वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः॥
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः।
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत्॥
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति।
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः॥
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि।
शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुगङ्घः॥
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन।
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम्॥
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः।
तन्द्रानिद्रागौरवोत्क्लेशसदीवेगाशङ्की सृष्टविट्कोऽपि भूयः॥
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा।
तन्द्रायुक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः॥
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः।
तैस्तैर्भावैः पक्तिमाविध्य(आविश्य)जन्तोः॥
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम्।
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात्॥
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः।
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम्॥
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति।
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति।
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम्॥
एतान्येव तु लिङ्गानि विपरीतानि यस्य तु।
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत्॥
सर्पिर्भेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्ररूपं स्रवेद्यत्।
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम्॥
राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम्।
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः॥
असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम्।
गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत्॥
शरीरिणामतीसारः संभूतो येन केनचित्।
दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते॥
स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः।
विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः।
विषार्शःकृमिसंमूतो यथास्वं दोषलक्षणः॥
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः।
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः॥
तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम्।
ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः॥
अथवा वामयित्वाआमे शूलाध्माननिपीडितम्।
पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत्॥
कार्यं च वमनस्यान्ते प्रद्रवं लघुभोजनम्।
खडयूषयवागूषु पिप्पल्याद्यं च योजयेत्॥
अनेन विधिना चामं यस्य वै नोपशाम्यति।
हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः॥
आमातीसारिणां कार्यं नादौ संग्रहणं नृणाम्।
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान्॥
प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान्।
शोफगुल्मग्रहण्यर्शःशूलालसकहृद्ग्रहान्॥
सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते।
दोषान् सन्निचितान् तस्य पथ्याभिः संप्रवर्तयेत्॥
योऽतिद्रवं प्रभूतं च पुरीषमतिसार्यते।
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम्॥
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते।
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्॥
आमे च लङ्घनं शस्तमादौ पाचनमेव वा।
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः॥
कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः।
देवदारुवचामुस्तानागरातिविषाभयाः॥
अभया धान्यकं मुस्तं पिप्पली नागरं वचा।
नागरं धान्यकं मुस्तं वालकं बिल्वमेव च॥
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाभया।
अभयातिविषा हिङ्गु वचा सौवर्चलं तथा॥
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी।
पाठा वत्सकबीजानि हरीतक्यो महौषधम्॥
मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली।
सिद्धार्थका भद्रदारु शताह्वा कटुरोहिणी॥
एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः।
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च॥
वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा।
अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी॥
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम्।
पटोलं(पटोली) दीप्यको बिल्वं हरिद्रे देवदारु च॥
विडङ्गमभया पाठा शृङ्गवेरं घनं वचा।
वचा वत्सकबीजानि सैन्धवं कटुरोहिणी॥
हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च।
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम्॥
महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः।
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे॥
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा।
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान्॥
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि।
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च॥
निखिलेनोपदिष्टोऽयं विधिरामोपशान्तये।
हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम्॥
पिबेत् सुखाम्बुना जन्तुरामातिसारपीडितः।
पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम्॥
मुस्तं कुष्ठं विडङ्गं च पिबेद्वापि सुखाम्बुना।
शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा॥
लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी।
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च॥
हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः।
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ॥
वचा गुडूचीकाण्डानि योगोऽयं परमो मतः।
एते सुखाम्बुना योगा देयाः पश्च सतां मताः॥
निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः।
स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते॥
सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम्।
क्षीरनागरचाङ्गरीकोलदध्यम्लसाधितम्॥
सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये।
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः॥
सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः।
निखिलो विधिरुक्तोऽयं वातश्लेष्मोपशान्तये॥
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक्।
यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते॥
बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च।
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः॥
मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः।
मृदुभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम्॥
हरिद्रातिविषापाठावत्सबीजरसाञ्जनम्।
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च॥
पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी।
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः॥
मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम्।
दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम्॥
चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम्।
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम्॥
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम्।
फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा॥
षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः।
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः।
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम्॥
मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः।
कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः॥
यदा पक्वोऽप्यतीसारः सरस्येव मुहुर्मुहुः।
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम्॥
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम्।
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ॥
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः।
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च॥
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः।
उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना॥
मौस्तं कषायमेकं वा पेयं मधुसमायुतम्।
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत्॥
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च।
पिबेत्तण्डुलतोयेन सक्षौद्रमगदङ्करम्॥
कच्छुरामूलकल्कं वाप्युदुम्बरफलोपमम्।
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम्॥
पक्वातिसारं योगोऽयं जयेत्पीतः सशोणितम्।
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम्॥
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम्।
बलाबृहत्यंशुमतीकच्छुरामूलसाधितम्॥
मधूक्षितं समधुकं पिबेच्छूलैरभिद्रुतः।
दार्वीबिल्वकणाद्राक्षाकटुकेन्द्रयवैर्घृतम्॥
साधितं हन्त्यतीसारं वातपित्तकफात्मकम्।
दध्ना चाम्लेन संपक्वं सव्योषाजाजिचित्रकम्॥
सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः।
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः॥
सिताजमोदकट्वङ्गमधुकैरवचूर्णितम्।
अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम्॥
नानावर्णमतीसारं पुटपाकैरुपाचरेत्।
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम्॥
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण संदृढम्।
मृदावलिप्तं सुकृतमङ्गारेष्ववकूलयेत्॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः।
शीतं मधुयुतं कृत्वा पाययेतोदरामये॥
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्रव्येषु साधयेत्।
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत्॥
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत्।
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम्॥
शर्करोपहितं शीतं पाययेतोदरामये।
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान्॥
तण्डुलोदकस्ंपिष्टान् दीर्घवृन्तत्वगन्वितान्।
पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम्॥
मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये।
एवं प्ररोहैः कुर्वीत वटादीनं विधानवत्॥
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान्।
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम्॥
कौटजं फाणितं वापि हन्त्यतीसारमोजसा।
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम्॥
पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः।
सनागरैः पिबेत् पेयां साधितामुदरामयी॥
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान्।
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्रवाम्॥
एषा सर्वानतीसारान् हन्ति पक्वानसंशयम्।
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा॥
धातकी नागरं चैव पाययेत्तण्डुलाम्बुना।
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः॥
मधुकं बिल्वपेशी च शर्करामधुसंयुता।
अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः॥
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु।
बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः॥
शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम्।
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत्॥
पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान्।
कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम्॥
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम्।
विबद्धवातविट् शूलपरीतः सप्रवाहिकः॥
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः।
यथामृतं यथा क्षीरमतीसारेषु पूजितम्॥
चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम्।
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम्॥
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये।
पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते॥
शकृता यस्तु संसृष्टमतिसार्येत शोणितम्।
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः॥
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम्।
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम्॥
संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम्।
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम्॥
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः।
ज्वरे दाहे सविङ्बन्धे मारुताद्रक्तपित्तवत्॥
संपक्वे बहुदोषे च विबन्धे मूत्रशोधनैः।
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम्॥
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे।
मधुराम्लैः शृतं तैलं सर्पिर्वाप्यनुवासनम्॥
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः।
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः॥
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते।
भोजने च हितं क्षीरं कच्छुरामूलसाधितम्॥
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते।
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः॥
प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम्।
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम्॥
कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः।
यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः॥
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका।
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम्॥
एष आहारसंयोगे हितः सर्वातिसारिणाम्।
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा॥
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते।
पित्तं प्रदुष्टं तस्याशु रक्तातीसारभावहेत्॥
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम्।
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते॥
स पल्लवैर्वटादीनं ससर्पिः साधितं पयः।
पिबेत् सशर्कराक्षौद्रमथवाप्यभिमथ्य तत्॥
नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः।
प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्वचः॥
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः।
मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम्॥
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम्।
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम्॥
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये।
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः॥
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च।
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम्॥
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च।
आजेन पयसा पेयाः सरक्ते मधुसंयुताः॥
द्रवे सरक्ते स्रवति बालबिल्वं सफाणितम्।
सक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत्॥
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु।
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम्॥
बिल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम्।
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत्॥
योगान् सांग्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान्।
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान्॥
गुदापाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः।
रुजायां चाप्रशाम्यन्त्यां पिच्छावस्तिर्हितो भवेत्॥
सक्तविड् दोषबहुलं दीप्ताग्निर्योऽतिसार्यते।
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत्॥
अथवैरण्डसिद्धेन पयसा केवलेन वा।
यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः॥
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्।
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम्॥
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च।
स्विन्नानि पिष्टवद्वापि समं बिल्वशलाटुभिः॥
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम्।
शशमांसं सरुधिरं समङ्गां सघृतं दधि॥
खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये।
संस्कृतो यमके माषयवकोलरसः शुभः॥
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः।
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम्॥
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः।
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते।
स पिबेद्दीपनैर्युक्तं सर्पिः संग्राहकैः सह॥
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य।
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः॥
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च।
सशोणिता शोणितसंभवा तु ताः स्नेहरूक्षप्रभवा मतास्तु॥
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च।
न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा॥
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च।
आर्द्रैः कुशैः संपरिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम्॥
प्क्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत।
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वापि॥
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे।
द्विपञ्ज्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण॥
क्षीरेण चास्थापनमग्र्यमुक्तं तैलेन युञ्ज्यादनुवासनं च।
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने॥
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम्।
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारक(निःसारक))पीडितस्तु॥
सुतप्तकुप्यक्वथितेन वापि क्षीरेण शीतेन मधुप्लुतेन।
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः॥
वातघ्नसंग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च।
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम्॥
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत्।
मेध्यस्य(मेद्यस्य) सिद्धं त्वथ वापि रक्तं बस्तस्य दध्ना घृततैलयुक्तम्॥
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः।
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान्॥
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत्।
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम्॥
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम्।
मधुरौषधसिद्धं च हितं तस्यानुवासनम्॥
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः।
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा॥
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका।
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक्॥
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः।
सुखाम्बुपीताः शमयन्ति रोगं मेध्याण्डसिद्धं सघृतं पयो वा॥
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाआमयमाशु हन्यात्।
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि॥
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम्।
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु॥
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः॥
तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी।
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता॥
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे।
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी॥
विषार्शःकृमिसंभूते हिता चोभयशर्मदा।
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः॥
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्।
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम्॥
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति।
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः॥
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे।
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः॥
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये।
शाम्यन्ति दोषसंभूता दोषसंक्षयहेतुभिः॥
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च।
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते॥
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते।
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः॥
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः।
भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत्॥
तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत्।
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा॥
षष्ठी पित्तधरा नाम या कला परिकीर्तिता।
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता॥
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः।
तस्मात् संदूषिते वह्नौ ग्रहणी संप्रदुष्यति॥
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः।
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति॥
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम्।
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः॥
तस्योत्पत्तौ विदाहोने सदनालस्यतृट्क्लमाः।
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम्॥
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः।
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवाम्॥
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्।
प्रसेकमुखवैरस्यतमकारुचिपीडितः॥
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः।
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः॥
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः।
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः॥
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम्।
पेयादिं वितरेत् सम्यग्दीपनीयोपसंभृतम्॥
ततः पाचनसंग्राहिदीपनीयगणत्रयम्।
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः॥
तक्रेण वाथ तक्रं वा केवलं हितमुच्यते।
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत्॥
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्।
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च॥
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत्।
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0