सुश्रुतसंहिता · अध्याय 6.37
अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः।
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः॥
एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः।
सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा॥
स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः।
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः॥
नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः।
कुमारधारी देवस्य गुहस्यात्मसमः सखा॥
स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः।
स च स्कन्दसखा नाम विशाख इति चोच्यते॥
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा।
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः॥
बाललीलाधरो योऽयं देवो रुद्राग्निस्ंभवः।
मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते॥
कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः।
गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः॥
ततो भगवति स्कन्दे सुरसेनापतौ कृते।
उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम्॥
ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै।
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत्॥
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्।
तिर्यग्योनिं मानुषं च त्रितयं जगत्॥
परस्परोपकारेण वर्तते धार्यतेऽपि च।
देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च॥
वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः।
इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः॥
नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्।
भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते॥
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति।
कुलेषु येषु नेज्यन्ते देवाः पितर एव च॥
ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा।
निवृत्ताचारशौचेषु परपाकोपजीविषु॥
उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु।
गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः॥
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति।
एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः॥
ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः।
वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम्॥
स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः।
अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0