सुश्रुतसंहिता · अध्याय 6.38
अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
प्रवृद्धलिङ्गं पुरुषं यात्यर्थमुपसेवते।
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति॥
स दुष्टो योनिमासाद्य योनिरोगाय कल्पते।
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु॥
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे।
मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च॥
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्।
उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता॥
वातला चेति वातोत्थाः पित्तोत्था रुधिरक्षरा।
वामिनी स्नांसिनी चापि पुत्रघ्नी पित्तला च या॥
अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम्।
श्लेष्मला च कफाज्ज्ञेया षण्डाख्या फलिनी तथा॥
महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा।
सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति॥
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्।
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम्॥
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता।
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः॥
सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा।
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम्॥
प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या।
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात्॥
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता।
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्॥
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति।
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते॥
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते।
बहुशश्चातिचरणादन्या बीजं न विन्दति॥
श्लेष्मला पिच्छिला योनिः कण्डूयुक्तातिशीतला।
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत्॥
अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने।
अतिकायगृहीतायास्तरुण्याः फलिनी भवेत्॥
विवृतातिमहायोनिः सूचीवक्त्रातिसंवृता।
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा॥
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्।
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः॥
प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते।
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान्॥
कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने।
कुम्भीस्वेदैरुपचरेत् सानूपौदकस्ंअयुतैः॥
मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु।
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रितः॥
धावनानि च पथ्यानि कुर्वीतापूरणानि च।
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक्॥
दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः।
पूरयेद्राजवृक्षादिकषायैश्चापि धावनम्॥
योन्यां तु पूयस्राविण्यां शोधनद्रव्यसंभृतैः।
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते॥
बृहतीफलकल्कस्य द्विहरिद्रायुतस्य च।
कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा॥
वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसंभृताम्।
प्रस्रंसिनीं घृताभ्याक्तां क्षीरस्विन्नां प्रवेशयेत्॥
पिधाय वेशवारेण ततो बन्धं समाचरेत्।
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक्॥
प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम्।
क्षीरमांसरसप्रायमाहारं विदधीत च॥
शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः।
क्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च॥
गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता।
सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान्।
अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0