सुश्रुतसंहिता · अध्याय 6.36
अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने।
सुरा सबीजं धान्याम्लं परिषेके च शस्यते॥
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः।
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः॥
पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च।
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा॥
वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत्।
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम्॥
सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह।
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः॥
मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे।
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता॥
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि।
कुमारपितृमेषाय वृक्षमूले निवेदयेत्॥
अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते।
बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत्॥
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः।
बालं बालपिता देवो नैगमेषोऽभिरक्षतु॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0