भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.35

6.35.1

अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः॥

6.35.2

यथोवाच भगवान् धन्वन्तरिः॥

6.35.3

कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः।
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने॥

6.35.4

स्वरसैर्भृङ्गवृक्षाणां तथाजहरिगन्धयोः।
तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः॥

6.35.5

मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा।
मधुरे पञ्चमूले च कनीयसि घृतं पचेत्॥

6.35.6

वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम्।
धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः॥

6.35.7

वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा।
मनःशिलां चोपहरेद्गोष्ठमध्ये बलिं तथा॥

6.35.8

पायसं सपुरोडाशं बल्यर्थमुपसंहरेत्।
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम्॥

6.35.9

अलङ्कृता रूपवती सुभगा कामरूपिणी।
गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc